कादम्बरी /418
This page has not been fully proofread.
कुमारीपुरवृत्तान्तः ]
पूर्वभागः ।
खेदसस्तहस्तगलित चामरा नखमणिमयूखकलापमाधुनोषि' इत्येताम्यन्यानि च शृण्वन्नेव
कादम्बरीभवनमुपययौ ।
पुलिनायमानमुपंवनलतागलितकुसुमरेणुपटलैः,
दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्ग-
सहकारफलरसवर्षैः, नीहारायमाणमनिल विप्र की र्णैर्व कुल से कसी धुधाराधूलिभिः काञ्चन-
द्वीपायमानं चम्पकदलोपहारैः लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः,
तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसा-
यमानमङ्गरागामोदैः, चन्द्र लोकायमानं दन्तपेत्रप्रभामण्डलै:, प्रियङ्गुलतीयमानं कृष्णागुरु-
पत्रभङ्गैः, लोहितायमानं कर्णाशोकपल्लवैः, धवलायमानं चन्दनरस विलेपनैः, हरितायमानं
१
9
खेदेति । खेदेन स्रस्तः कम्पितो यो हस्तः करस्तस्माद्गलितं च्युतं चामरं बालव्यजनं यस्या एवंविधा सती
नखा एव मणयस्तेषां मयूखकलापं कान्तिसमूहमाधुनोषि कम्पयसि । एतेन नखकान्तिकलापे चामरत्वं व्यज्यते ।
इत्येतानि पूर्वोक्तान्यन्यानि च वाक्यानि शृश्वन्नाकर्णेयन्कादम्बरी राजपुत्री तस्या भवनं गृहमुपययौ जगाम ।
Com
अथेति । सेवार्थमागतेन सपर्यार्थ समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह -- लाव-
ण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह- कृत इति । कृतो विहितो दीर्घाया रथ्यायाः
लोके 'गल्ली' इति प्रसिद्धायाः मुखवदाकारी यस्मिन्नेतादृशं मार्गमध्वान मद्राक्षीदालो कितवान् । इतो मार्गविशेष-
जानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्लयस्ताभ्यो गलितानि कुसुमानि
पुष्पाणि तेषां रेणुपटलैः परागपुः पुलिनायमानं जलोज्झिततटायमानम् । श्वेतत्वातिशयात्परागोपेतमार्गस्थ
पुलिनोपमानता । अनिभृतेति । अनिभृताश्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि ख-
ण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्वैर्मधुवर्षणैर्दुर्दिनायमान मेघजनि -
ततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णैर्विक्षि-
मैर्बकुला: केसरास्तेषां सेकार्थं याः सीधुधारा मद्यधारास्तासां धूलिमिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं
हिमवदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं
स्वर्णान्तरी पवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमु -
पविष्टं यन्मधुकरवृन्दं भ्रमर समूहस्तस्यान्धकारैश्छायारूपैललाशोकवनायमानम् । अन्धकारस्य नीलवादशोक-
वनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः
पादरजनार्थयावकरसस्तस्य विसरैः समूहै: रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो
योयते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्तिदिवसस्तद्वदाचरमाणम् ।
तहिनेऽमृतामोदस्य प्रचुरत्वादिति भावः । श्वेतत्वसाम्येनाह - दन्तेति । दन्तपत्रैः कर्णाभरणैश्चन्द्रलोकाय-
मानं चन्द्रलोकवदाचरमाणम् । एतेन दन्तपत्राणां भूयस्त्वं व्यज्यते । प्रियङ्गुलतेति । कृष्णागुरुः काकतु-
ण्डस्तस्य पत्रभङ्गैः पत्रलताभिः । प्रियङ्गुः फलिनीलक्षणा या लता वही तद्वदाचरमाणम् । नीलत्वातिशया-
दिति भावः । रक्तत्वसाम्ये नाह- लोहितेति । कर्णाशोकपल्लवैः श्रवणनिक्षिप्त केल्लिकिसलयैर्लोहितायमानं
रक्तवदाचरमाणम् । धवलेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य विलेपनैरङ्गरागैर्धवलायमानं श्वेतवदान-
रमाणम् । हरितेति । शिरीषः कपीतनस्तस्य कुसुमाभरणैः पुष्पविभूषणैर्हरितायमानं पीतनीलयदाचरमाणम् ।
टिप्प० - 1 प्रकरणानुकूलम् 'खेदखस्तहस्तगलित चामरे " इति संबोधनमेनोचितम् । 2 कृतो दीर्घ-
स्थ्यामुखवदाकारी याय, ग्राम्यदीर्घरथ्याया मुखभागे उभयतो वृतिः मध्ये च स्वल्पायामो दीर्घो मार्गो
दृश्यत इत्याशयः ।
♡
पाठा० -१ ग्रस्त. २ कलित. ३ चामरै: ४ किरण ५ भवनसमीपसुपययौ; भवनमुपसत्य ययौ ६ चम्पकोष●
हारै: ७ नीलाशोक. ८ संचरन्. ९ पत्रमण्डलै: ० १० बनायमानं रोचनातिलकसक्तिमिनीलायमानम्. ११ कर्णपूरा शोक.
。
४९ का०