कादम्बरी /417
This page has not been fully proofread.
३८४
कादम्बरी ।
[ कथायाम्-
भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्प-
लीदैलशकलानि । मधुकरिके, विरचय कुसुमाभरणकानि । मयूरिके, संगीतशालायां विस-
र्जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडा पर्वतशिखरं जीवंजीव मिथुनानि । हरि-
णिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पिताम्यश्रौषीत् ।
तथाहि — 'चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि । अयि यौवनविला-
सैरुन्मत्तीकृते; विज्ञातासि या त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भेमयूरानालम्बसे ।
परिहासकाङ्क्षणि, रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके, हारप्रभा-
मायासितकरतलार्कलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते; निजमुखप्रतिबिम्बकानि
परिहरसि । जालवातायनपतितपश्चरागालोकं प्रति बालाप करतलमतपत्रीकरोषि ।
+
चानां श्वेतशोभाजनानामपदलानि मुख्यकिसलयखण्डानि भोजय भोजनं कारय । हे लवङ्गिके, चकोरपञ्ज-
रेषु विषसूचकवंशदलेषु पिप्पलीदलशकलानि मागधीपत्रखण्डानि निचिक्षिप निक्षेपं कुरु । अनेन चकोराणां
पिप्पलीदलानि प्रियाणीति ध्वनितम् । हे मधुकरिके, कुसुमानाभरणकानि विभूषणानि विरचय रचनां कुरु ।
हे मयूरिके, संगीतशालायां नृत्यशालायां किंनर मिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय । हे कन्दलिके,
क्रीडापर्वतशिखरं लीलाशिखारेसानुं जीवजीवमिथुनानि विषदर्शनमृत्युकयुगलानि समारोहयारोहणं कारय । हे
हरिणिके, पअरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि
परिहासजल्पितानि वचनान्य श्रौषीदाकर्णितवान् । एतदेव दर्शयति – तथाहीति । हे चामरिके, मिथ्या
वृथा मुग्धतां मुग्धभावं (कटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्व प्रक-
टनेन स्वकीयं कार्य कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे । हे यौवन विलासैस्ता रुण्यविभ्रमै रुन्मत्तीकृते प्रथि -
लीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिर्नि-
र्मिंता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविषयीकरोषि । परीति । हे परि-
हासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन
स्वयमेव स्वस्य भाषणमुपहास हेतुरिति ध्वनितम् । पवनेति । पवनेन वायुनाहृतं गृहीतमुत्तरीयांशुकमुपरि
वस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लजावशादतिशुभ्रत्वसाम्याद्धारप्रभामेवाकलयस्युत्तरीयांशुकत्वेन
जानासि । अतएवायासितकरतला पुनः पुनस्तद्ब्रहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुट्टिमेति ।
मणिकुट्टिमेषूपहारार्थमुपचारार्थ कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः
संबोधनं हे उपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बवानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन
निजात्मप्रतिबिम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् । जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र
पतितं लनं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति वालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया
भ्रान्त्या करतलं हस्ततलमातपत्रीकरोषि छत्रीकुरुषे । एतेन पद्मरागालोके बालातपभ्रान्तिरिति ध्वनितम् ।
टिप्प० -- 1 अद्भुतं व्याकरणं टीकाकर्तुः ! हन्त । 'निक्षिप' इत्येव पाठः । 2 हन्त केयं व्याख्या,
'इन्द्रस्य टीका बिडौजाः' इतोऽपि गुरुतरा । 3 प्रतारयितुमित्युचितम् । 4 स्तनकण्ड्यानिवृत्तये एवं
करोषीति परिहासः । 5 सर्वत्र वाक्यादौ संबोधन मिति प्रक्रमभङ्गष्टीकाकारेण न ज्ञातः । अत एव
"निजसौकुमार्यगर्वखर्वित बिस प्रसून सौभाग्ये !' इति संबोधनमुचितम् । बिसवसूनादपि ते सौकुमार्यमधिकं
येन हि बालातपशङ्कयापि भातपत्रकरणस्यापेक्षेति परिहासः ।
पाठा० - १ विक्षिप. २ तण्डुल ३ वृथामुग्धताम्. ४ ज्ञाता. ५ मयूखान्. ६ अवलम्बसे, ७ प्रतिमामालपयसि.
८ संकलयसि. ९ निजसौकुमार्यगर्वखर्वित निसप्रसून सौभाग्ये जाल. १० अवलोकम् ११ आशकिनी० ११ आतपत्रं करोषि..