This page has not been fully proofread.

३८२
 
कादम्बरी ।
 
[ कथायाम्-
लेपनम्, आलापा एव तत्रीनिनादाः भुजलता एव चम्पकैवैकक्ष्यमालाः, करतलाम्येव
लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम् जघनस्थलान्येव विला-
समणिशिलातलानि, कोमलाङ्गुलिराग एव चरणालक्तकरसः, नखमणिमरीचय एव कुट्टिमोप-
हारकुसुमप्रकराः। यत्र चालक्तरसोऽपि चरणातिभारः, बकुलमालिका मेखला कलनमपि
गमन विघ्नकरम् अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्,
मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरक-
मलतरलमधुकरपक्षपवनोऽप्यायासकरः । तथा च यत्र सखीदर्शनेष्वकृतहस्ता वलम्बनमुत्थान-
मतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कइयप्रभावः, कुसुमावचयेषु द्वितीय पुष्प-
."
 

 
2
 
S
 
अधरो दन्तच्छदस्य तिरेव कुडमं तेन मुखस्य वक्त्रस्यानुलेपनम् । मञ्जुलत्वसाम्येनाह -- आलापा इति ।
आप एव संभाषणान्येव तन्त्रीनिनादा वीणाध्वनयः । मृदुत्वसाम्येनाह - भुजेति । भुजलता एव
चम्पको हेमपुष्पकस्तस्य वैकक्ष्यमाला उत्तरासङ्गसजः । करेति । करतलान्येव लीलाकमलानि क्रीडापङ्क-
जानि । निर्मलत्वसाम्येनाह
- स्तनेति । स्तना एव दर्पणा मुकुराः । निचितत्व साम्येनाह - निजेति । निज-
देहप्रभैव स्वशरीरदीप्तिरेवांशुकेन वस्त्रेणावगुण्ठनमाच्छादनम् । विस्तारातिशयादाह - जघनेति । जघनस्थला-
न्येन कट्याः पुरोभागप्रदेशा एव विलासा लीलाविशेषास्तेषां मणिशिलातलानि । कोमलेति । कोमला या
अङ्गुल्यस्तासां राग एव चरणयोः पादयोरलककरसो यावकरसः । नखेति । नखा एव मणयः, नखनिष्ठाभरण-
मणयो वा तेषां मरीचय एवं दीघितय एव कुट्टिमेषु बद्धभूमिषूपहारकुसुमानां प्रकराः समूहाः । यत्र चेति ।
यत्र कन्यकासमुदायेऽलफरसोऽपि यावकरसोऽपि चरणयोः पादयोरतिभारो व्यर्थः । स्वत एव चरणयोरारु-
ण्यादिति भावः । बकुलेति । बकुलमालिकाः केसरस्रजो मेखला रसना तस्या आकलनमपि धारणमपि गमन-
विघ्नकरं गतिप्रतिबन्धकम् । सौकुमार्यातिशयादिति भावः । अङ्गेति । अङ्गरागो विलेपनं रस्य गौरवमप्यधि-
कश्वासनिमित्तमतिप्रयासकारणम् । अङ्गरागेभ्यैः शरीररागस्य सातिशयत्वात् । अंशुकेति । अंशुकभारोऽपि
वस्त्रभारोऽपि ग्लानिकारणम् । सातिशयदेहप्रभावरणरूपत्वात् । मङ्गलेति । मङ्गलार्थ प्रतिसरवलयं हस्तसू-
त्रवलयं तस्य विधृतिरपि धारणमपि करतलस्य हस्ततलस्य विधुतिः कम्पनं तन्मात्रहेतुः । स्वतःसुन्दरत्वाच्छ्रे-
यस्करत्वाच मणिबन्धस्य । अवेति । अवतंसकुसुमानां धारणमपि श्रमः क्लमः । कर्णेति । कर्णपूरकमलेषु
तरलाञ्चञ्चला ये मधुकरा भ्रमरास्तेषां पक्षेभ्यः समुद्भवः पवनोऽपि वायुरप्यायासकरः प्रयासकरः । तथा
चेति । यत्राभिनवसखीप्रत्यागमदर्शनेषु कदाचिदपि परिचारिका (याः) अकृतं हस्तावलम्बनं यस्मिन्नेवादृशं
यदुत्थानं तदप्यतिसाहसमित्यर्थः । सौभाग्यातिशयो लीलाविलासातिशयश्च द्योत्यते । प्रसाधनेष्विति ।
प्रसाधनेषु भूषणग्रहेषु या हारभारसहिष्णुता मुक्ताप्रालम्बवीवध सहनशीलता सापि शरीरावयवेषु मध्ये
स्तनयोः कुचयोः कार्कश्यं काठिन्यं तस्य प्रभावो माहात्म्यम् । सामर्थ्यमिति यावत् । नेतरेषामवयवानाम् ।
अत्र स्तनयोः काठिन्यातिशयः, अन्यत्र मृदुत्वादिकं कर्कशपददाना व्यज्यते । तथा कुसुमावचयेषु पुष्प-
खुण्ठनेषु द्वितीय पुष्पग्रहणमप्ययुवतिजनोचितम् । पुरुषयोग्यमित्यर्थः । एतेनैतावत्प्रयासयोग्यः पुरुष एवेति
 

 
टिप्प० - 1 धिक् । न व्यर्थः, अपि तु सौकुमार्यातिशयात्पादरागोपि भारायित इत्याशयः । 2 बकुल-
मालैब मेखला इत्यर्थो योग्यः । 3 शरीररागस्य सातिशयत्वे अधिकश्वासानां कोऽवसरः । अत एव अङ्ग-
रामकृतभारबोधेन श्वासप्रवृत्तिरित्यर्थो बोध्यः । एवं सर्वत्र सौकुमार्यसूचनायोक्तिः । टीकाकारस्य तु सर्वत्र
वृथामायं जल्पितम्, विपरीतार्थत्वात् । 4 एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं
सु कठिनत्वात्पुरुषस्यैव योग्यमित्यर्थः ।
 
पाठा० -१ चम्पकमालाः. २ अलक्तक, ३ वातोऽपि ४ दर्शनेपि ५ अभ्युत्थानम्.