This page has not been fully proofread.

कुमारीपुरस्य वृत्तान्तः ]
 
पूर्वभागः ।
 
३८१
 
रक्तकमलवन वर्षिणमिव जीवलोकम्, केररुहरफुरणेन कुसुमायुधशरसहस्रैरिव संच्छादितदि-
गन्तराणि, आभरणकिरैणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारै-
रुत्पाद्यमानांनीव मन्मथसहस्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखी-
हस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्,
कैन्दुकक्रीडासु करतलप्रहारान्, भुवनलतासेककलशकण्ठेषु भुजलतापरिष्वङ्गान्, लीला-
दोलासु नितम्बन प्रेङ्गितानि ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, भकुलवि-
टपेषु मधुगण्डूषप्रचारान, अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु
सीत्कारानतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् ।
 
"
 
O
 
यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि,
हसितच्छवय एवाङ्गरागाः, निश्वासा एवाधिवासगन्धयुक्तयः, अधरधुतिरेव कुंकुममुखानु-
विद्योतनेन कुसुमायुधशरसहस्रैः संच्छादित दिगन्तराण्याच्छादितककुबन्तराणि । आभरणेति । आभरणकि-
रणान्येवेन्द्रायुधजालकानि तैरुड्डीयमानानीत्र व्योम्नि व्रजमानानीव भवनमयूरवृन्दानि गृहकलापिमण्डलानि ।
यौवनेति । यौवनविकारस्ता रुण्य विकृतिभिरुत्पाद्यमानानीव विधीयमानानीव मन्मथसहस्राणि मनोभवसह-
त्राणि । उचितेति । उचितो योग्यो यो व्यापारस्तव्यपदेशेन तन्मिषेण कुमारिकाणामतिरिक्तमद्भुतं सुरतं
मैथुनमभ्यस्यन्तीनामिवाभ्यासं कुर्वन्तीनामिव तत्तदपश्यत् । तत्र सुरतसाधर्म्यमाह - सखीति । सखीनामा-
लीनां हस्तावलम्बेषु करावलम्बेषु पाणिग्रहणानि हस्तगूहनानि । वेणुवाद्येषु वंशातोद्येषु चुम्बनव्यतिकरान्मुख-
स्पर्शनवृत्तान्तान् । वीणासु वल्लकीषु कररुहव्यापारान्नखरव्यवहारान् । कन्दुकक्रीडा स्खन्दुकलीलासु करतलप्र-
हारान्हस्त तलप्रघातान् । भुवनेति । भुवनैलतानां गृहवल्लीनां सेकार्थं कलशकण्ठेषु कुम्भनिगरणेषु भुजल-
तापरिष्वङ्गान्बाहुवलयालिङ्गनान् । लीलादोलासु क्रीडाप्रेमासु नितम्ब आरोहः स्तनाः कुचास्तेषां प्रेहितानि
धुतानि । ताम्बूलेति । ताम्बूलस्य नागवलयावीटिकाः प्रसिद्धास्तासां अवखण्डनेषु शकलीकरणेषु दशनोप-
चारान्दन्तक्षतान् । बकुलेति । बकुलविटपेषु केसरवृक्षेषु मधु मद्यं तस्य गण्डूषप्रचारांबुलुकप्रवृत्तीः ।
अशोकेति । अशोकतरूणां कलिवृक्षाणां ताडनेषु चरणाभिघातान्पादप्रहारान् । उपेति । मुक्तादीनां
हारः, पुष्पादीनामुपहारः, तस्मात्कुसुमादीनां स्खलनानि पतनानि तेषु सीत्कारान्सूक्ष्मध्वनि विशेषाञ्शब्दान् ।
दृश्यते हि हैारात्पुष्पच्युतिसमये तथा ध्वनिः । अथवोपहारकुसुमानां स्खलितानि कुमारीशरीरावयवेषु सीत्कारों
वेदनातिशयद्योतको दृढदन्तसंयोगनिमित्तो ध्वनिः । अनेन कुमारीणां कुसुमपातमात्रेण सीत्कार इति सौकु· .
मार्यातिशयो व्यज्यते ।
 
यत्र चेति । यत्र कन्यान्तः पुरे कन्यकाजनस्य कपोलतलस्यालोक एव प्रकाश एव मुखं वकं तस्य
प्रक्षालनं धावनम् । अत्र स्वच्छत्वकरणसाम्येन जलालोकयोरुपमानोपमेयभावः । कर्णान्तत्वरूपव्यङ्ग्यसा-
भ्येनाह - लोचनेति । लोचनान्येव नेत्राण्येव कर्णोत्पलानि कर्णावतंसानि । पाण्डुरत्वसाम्येनाह - हसि-
तेति । हसितं स्मितं तस्य छवयः कान्तय एवाङ्गरागा विलेपनानि । निश्वासेति । निश्वासाः पवनात
एवाधिवासे वस्त्रादीनां संस्कारकरणे गन्धयुक्तयः सुगन्धीकरणप्रकाराः रक्तत्व साम्येनाह - अधरेति ।
 
-
 
टिप्प० - 1 'संछादितानि दिगन्तराणि' इत्येव पाठः । 2 भवनलतानामित्येव पाठ उचितः । ३ मला-
पप्रायमिदं सर्वम् । उपहाराय गृहभूतलानां शोभासंपादनाय यानि पुष्पाणि ( रचनारूपेण विन्यस्तानि)
तेषु स्खलनेषु, अर्थात् पुष्पमध्ये चरणस्खलनेन स्त्रियो भूतलपातभयात् 'सीत्कारान्' कुर्वन्तीति तासां
सौन्दर्यातिशयो द्योत्यते ।
 
पाठा०-१ करम्हकिरण २ संच्छादितमष्टदिगन्तरम्. ३ किरणनिकर. ४ क्रीडासु, ५ भवन, ६ स्थल,
७ वीटिकाखण्डनेषु. ८ बकुलकुसुमदोहदेषु सीधुगण्डूषप्रदानानि. ९ कुङ्कुमानुलेपनम्.