This page has not been fully proofread.

३८०
 
कादम्बरी ।
 
[ कथायाम्-
मण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्सयेव घटितसंनिवेशम्, आभरणप्रभाभिरिव निष्पा-
दितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रति-
विलसितैरिव रैचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसक-.
लजनप्रेबेशम्, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव,
कुतूहलमयमिव, आश्चर्यमयमित्र, सौकुमार्यमय मित्र, कुमारः कुमारीपुराभ्यन्तरं ददर्श ।
 
अतिबहलतया च तस्य कन्यकाजनस्य समन्तादानन द्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्,
अपाङ्गविक्षेपैश्च लितकुवलयवनमयीमिव क्रियमाणामवनीम्, अत्तिनिभृतभूलताविभ्रमैः काम-
कार्मुकबलानीव प्रचलितानि, शिरसिजकलापान्ध कारैर्बहुलपक्षप्रदोष सार्थानिव संबन्नतः,
स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारु-
तानिव परिभ्रमतः कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि, करतलरागेण
 

 

 
कृतिविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह
-- ज्योत्स्नयेति । ज्योत्स्नया चन्द्रि
कया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशामिव । अमृतरसविश्रुतेर्वा साम्यम् । आभरणेति ।
आभरणप्रभाभिभूषणकान्तिभिर्निष्पादितं दिगन्तरं दिगवकाशं यस्मिन्नेतादृशमिव । एतेनाभरणानामतिशयो यो-
तितः । विभ्रमैरिति । विभ्रुमैर्भूसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशमिव । यौवनेति ।
यौवनविलासैस्तारुण्यविलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशमिव । रतीति । रतिः कामयोषित्तद्विलसितै
रचितः संचयः समूहो यस्मिन्नेतादृशामिव । मन्मथेति । मन्मथाचरितैः कंदर्पाचरणैः कल्पितोऽवकाशोऽवगाहो
यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीत्यानुलिप्तः सकलजनैप्रवेशो यस्मिन्नेवंभूतमिव । शृङ्गारमयमिव
संभोगमयमिव सौन्दर्यमयमिव सुरूपतामयमिव । सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव । कुसुमशरमय-
मिव कंदर्पबाणमयमिव । कुतूहलमयमिघ कौतुकमयमिव । सौकुमार्यमयमिव मार्दवमयमिव ।
 
चन्द्रापीडस्तस्मिन्कुमारीपुराभ्यन्तर एतान्यद्राक्षीत् तान्येवाह
- अतीति । तस्य कन्यकाजनस्यांतिबहलत-
यातिबाहुल्यतया समन्तादान नद्युतिभिर्मुखकान्तिभिः कृत्वा पतन्तीं क्षरन्तीमिन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षण-
मिव । अत्र मुखे तत्तदतिशयो व्यङ्ग्यः । अपाङ्गेति । अपाङ्गविक्षेपैः कटाक्षैश्चलितं कम्पितं यत्कुवलयवनमुत्पल खण्डं
तन्मयीमवनीं पृथ्वीं क्रियमाणामिव । प्रबलेन दुर्बलस्योचालनं संभवतीति कुमुदातिशयोऽपाङ्गेषु द्योत्यते ।
अतीति । अतिनिभृता निश्चला ये भ्रूलताविभ्रमास्तैः प्रचलितानि गन्तुं प्रवृत्तानि कामकार्मुकरय कन्दर्पचापस्य
बलानीवोत्कंर्षरूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः । शिरसीति । शिरसिजाः केशास्तेषां कलापाः
समुदायास्तद्रूपाण्यन्धकाराणि तंर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थान्यामिनीमुखसमूहान्संबध्नत इव संग्रघ्नत
इव । एतेन केशकलापेषु श्यामतातिशयो द्योत्यते । स्मितेति । स्मितं हास्यं तस्य प्रभाभिः कान्तिभिरुत्पु
लकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव । श्वसतेति । श्वसितानिलस्य श्वासवायोः परिमलैरा-
मोदैर्मलयमारुतान्परिभ्रमत इव संचरत इव । कपोलेति । गल्लात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्त-
स्यालोकैः प्रकाशैः स्फुरितानि माणिक्यदर्पणसहस्राणीव रत्नादर्शदशशतानीव । एतेन कपोलयोः खच्छताति-
शयो दर्शितः । करेति । करतलरागेण रक्तकमलवनवर्षिणं जीवलोकमिव । कररुहा नखारतेषां स्फुरणेन
 
टिप्प० -1 विलासैः । 2 अविचारितार्थोयं पाठः । 'अनुलिप्तसकलजनप्रदेशम्' इत्येव पाठः ।
प्रदेशस्यैव अनुलेपार्हस्वात् । 3 बलानीति पाठोऽज्ञानम् । 'कामकार्मुकविलासशतानि' इत्येव पाठः ।
भ्रुकुटीनामेव कार्मुकेण साकं तुलनौचित्यात् ।
 
पाठा० -१ विरचित, २ प्रदेशम् ३ प्रेममयमिव कुमार: ४ अनिभृत ५ शतानि; विलासशता. ६ केशनि,
 
.