कादम्बरी /412
This page has not been fully proofread.
कादम्बरीभवनप्राप्तिः ]
पूर्वभागः ।
३७९
क्रमेण च गत्वा हेमकूटमासाथ गन्धर्वराजकुलं समतीत्य काचनतोरणानि सप्तकक्षान्त-
राणि कन्यान्तः पुरद्वारभवाप । महाश्वतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कमकवेत्रल-
ताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्या संख्येय नारीशतसहस्रसंबाधं श्रीमयम
परमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यत्रैणमिव संहृतम्, अपुरुषमिव सर्गा-
न्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम्, अपरमिव पुरुषद्वेषि-
प्रजापति निर्माणम्, अनेक कल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, अतिविस्तारिणा
युवतिजनलावण्यप्रभापूरेण प्लावित दिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमा कुर्वतेव
भुवनान्तरालं बहुलप्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव चन्द्र-
क्रमेण परिपाट्या गत्वा च हेमकूटं गन्धर्वराजकुलम साद्य प्राप्य काञ्चनस्य सुवर्णस्य तोरणानि बहिर्द्वाराणि
येष्वेवंविधानि सप्तकक्षान्तराणि गृहान्तराणि समतीत्य व्यतिक्रम्य कन्यानां यदन्तःपुरं तस्य द्वारमवाप प्राप्त-
वान् । तदनन्तरं कुमारः कुमारीपुराभ्यन्तरं ददर्शेक्षांचके । किंविशिष्टः कुमारः । महाश्वेताया दर्शनार्थम-
वलोकनार्थं प्रधावितेनोचलितेन दूरादेव कृतप्रणामेन कनकवेत्रलता हस्ते यस्यैवंभूतेन प्रतीहारजनेन द्वारपाल-
कलोकेनोपदिश्यमानो वचनव्यक्त्या प्रोच्यमानो मार्गः पन्था यस्य सः । किं कृत्वा । प्रविश्य प्रवेशं कृत्वा । इतः
कुमारीपुराभ्यन्तरं विशेषयन्नाह - असंख्येति । असंख्येयानि गणनावर्जितानि नारीणां स्त्रीणां शतसहस्राणि
लक्षाणि तैः संबाधं संकीर्ण स्त्रीमयमपरं भिन्नं जीवलोकमिव । इयत्तेति । इयत्तामेतावत्यो नार्यः सन्तीति
संख्यां ग्रहीतुं त्रैलोक्यस्त्रैणं त्रिभुवनस्त्रीवृन्दमेकस्मिन्स्थले संहृतमिव संगृहीतमिव । केवलाङ्गनानामेव सद्भावं
प्रदर्शयन्नाह – अपुरुषेति । अपुरुषं पुरुषवर्जितं सर्गान्तरमिव सृष्ट्यन्तरमिव । तासामेव विपुलाश्रयत्वादा-
नारीप्रधानं यधुगं
ह - अङ्गनेति । अपूर्वमभिनवमुत्पन्नमङ्गनाद्वीपमिव स्त्रीणामन्तरीपमिव । पञ्चममिति
-
तस्य पञ्चमेमवतारमिव । अपरमिति । पुरुषे द्वेषो विद्यते यस्यैवंभूतो यः प्रजापतिर्ब्रह्मा तस्थापरमन्यन्निर्माण-
मिव । पुरुषद्वेषिविशेषणेन केवलं स्त्रीनिर्माणकर्तृत्वमेव सूचितम् । अनेकेति । अनेके ये कल्पा युगान्तास्तत्र
कल्पना रचना । स्त्रीणामिति शेषः । तदर्थमङ्गनाकोशं स्त्रीभाण्डागारमुत्पाद्य विधाय स्थापितमिव रक्षितमिव ।
एतेन युगान्तरे स्त्रीनिर्माणप्रयासाभाव इति सूचितम् । पुनः कीदृशम् । अतिविस्तारिणा युवतिजनानां लावण्यं
सौन्दर्यातिशयस्तस्य या प्रभा कान्तिस्तस्याः पूर उत्कर्षस्तेन । अथ च बहुला या प्रभा कान्तिस्तद्वर्षिणा मरक-
तमणिमयेनाश्मगर्भमणिप्रचुरेण अर्थान्निर्माणेन सर्वतः समन्तात्परिगततया व्याप्ततया तेजोमयमिव कान्ति-
समूहमयमिव । अथ युवतिलावण्यं विशेषयन्नाह
– अमृतेति । अमृतरसस्य पीयूषद्रवस्य यो विसरः समूह-
स्तेन दिवसं दिनं सिञ्चतेव सेकक्रियां कुर्वतेव, प्लावितं क्षालितं दिगन्तरं येन तेन । किं कुर्वता । लावण्यप्रभापूरेण
भुवनान्तरालं विष्टपान्तरालमा कुर्वतेवाशुष्कतां विदधतेव । अत्र च मरकतमणे: श्यामत्वे लावण्यप्रभापू
रस्य च पाण्डुरत्वे क्रमं विहाय यथोचितमुत्प्रेक्षते – चन्द्रेति । चन्द्रमण्डलसहस्रैर्निर्मितं रचितं संस्थानमा
टिप्प० - 1 धिगज्ञानम् । सत्यादीनि चत्वारि युगानि तु सन्त्येव येषामवतारः ( प्रवर्तनम् ) सुपरि
चितः, किन्तु अभिनवः सोयं पञ्चमो नारीयुगावतार इत्याशयः । 2 'युवतिजनलावण्यं विशेषयन्नाह'
इति प्रतिज्ञाय पुनस्तत्र 'लावण्यप्रभापूरेणे'त्यादि विशेषयन् सर्वमस्पष्टीचकार । अतः सेयं योजना - अति-
विस्तारिणा प्लावितदिगन्तरेण, ( अत एव ) अमृतरसविसरेण ( करणेन) अर्थात् पीयूषद्रवप्रवाहद्वारा
दिवसं सिञ्चतेव तथा अमृतरसप्रवाहद्वारा भुवनान्तरालमा कुर्वतेव ईदृशेन युवतिजनलावण्यप्रभापूरे
( कर्जा ), तथा बहुलप्रभावर्षिणा मरकतमणिमयेन (आभरणेन, कर्त्रा) सर्वतः परिगततया तेजोमय
मिव । अयं भावः - कन्यान्तःपुरम् अतिविस्तार्यादिविशेषण विशिष्टेन युवतिजनलावण्यप्रभापूरेण व्यासं
तथा मरकतमयभूषणेन च व्याप्तम् । अत एव तेजोमयमिवेत्युत्प्रेक्षा ।
पाठा० -१ द्वारपालप्रतीहारी. २ संबाध: ३ संगृहीतम् ४ बहल.
५ भूषणेनेव सर्वतः.