This page has not been fully proofread.

३७८
 
कादम्बरी ।
 
[ कथायाम्-
ष्टचरविषयकुतूहलि वा चेतः, मद्वेचनमनुरुध्यते वा भवान, अतिसुखदायि वाश्चैयदर्शनम्,
अर्हसि वा प्रणयम्, इममप्रत्याख्यानयोग्यं वा जनं मन्यसे, समारूढो वा परिचयलेशः,
अनुप्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । ईतो मयैव सह गत्वा
हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्टा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः
कुँमतिमनोमोहविलसितम्, एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारण-
बान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छुसितमिव चेतसा ।
श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनस-
मागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीं चैनां चन्द्रापीडोऽत्र-
वीत् – 'भगवति, दर्शनात्प्रभृति परवानयं जनः कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्'
इत्यभिधाय तथा सहैवोदचलत् ।
 
अदृष्टचरोऽनवलोकितपूर्वो यो विषयो देशस्तत्र कुतूहलं विद्यते यस्यैवंभूतं यदि चेतः । वाथवा भवान्मद्वचनं
मद्वाक्यमनुरुध्यते समीहते । अनुपूर्वको रुधू दिवादिरिच्छार्थः । वेति पक्षान्तरे । यद्यतिसुखैदाव्यतिशयेन
सौख्यप्रदमाश्चर्यदर्शनं कुतूहलावलोकनम् । वेति पूर्ववत् । अर्हसि वाञ्छसि यदि प्रणयं स्नेहम् । इमं मल्लक्षणं
जनमप्रत्याख्यानयोग्यमनिराकरणयोग्यं वा मन्यसे जानासि । समारूढः प्राप्तो वा परिचयलेशः संस्तवलवः ।
अनुप्रात्यो वानुग्रहयोग्यो वायं जनः । ततस्तस्माद्धेतोर्निष्फलां रिक्तामिमामभ्यर्थनां कर्तुं विधातुं नार्हसि न योग्यो
भवसि । इतोऽस्मात्स्थानान्मयैव सह अतिरमणीयतानिधानं चारुताशेवधिं हेमकूटं गत्वा । तत्रेति ।
तस्मिन्स्थले मत्तो निर्गतो विशेषो यस्याम् । मत्सदृशीमित्यर्थः एतादृशीं कादम्बरीं दृष्ट्वा विलोक्य च । तस्याः
कादम्बर्याः कुत्सिता मतिर्यस्मादेवंविधो यो मनोमोहश्चेतसोऽज्ञानं तस्य विलसितं चेष्टितमपनीय दूरीकृत्यैक-
महर्दिनं विश्रम्य विश्रामं गृहीत्वा । श्वोभूत इति । श्व आगामिदिने तस्मिन्भूते जाते सति प्रागमिष्यसि
पश्चादायास्यसि । ममेति । हीति निश्चितम् । मम निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं भ्रातरं वा
भवन्तं त्वामालोक्यैव निरीक्ष्यैव दुःखमेवान्धकारं तिमिरं तस्य भारो वीवधस्तेनाकान्तेन व्याप्तेन चेतसा चित्तेन
महतः कालाच्चिरसमयादुच्छ्रसितमिव गृहीतंश्वासमिव । इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा ।
सोढुं शक्यः सत्यस्तस्य भावस्तत्ता तामिव गतः प्राप्तः शोकः । श्रावणेन स शोको जीर्णतां प्राप्त इत्यर्थः ।
तत्रोपपादकमाह - दुःखितमपीति । सज्जनसमागमाः दुःखितमपि जनं रमयन्ति विनोदयन्ति । अत्रार्थे
हेतुमाह - परेति । परस्यान्यस्य यत्सुखं तस्य यदुपपादनं तत्र पराधीनः परायत्तः । तन्निमित्तक इति यावत् ।
भवादृशां त्वत्सदृशानां गुणोदैयो गुणाः शौर्यादयस्तेषामभ्युदय इति पूर्वोक्तप्रकारेणोक्तवतीं कथितवतीं चन्द्रापी-
डोऽब्रवीदवोचत् हे भगवति, दर्शनात्प्रभृत्यवलोकन दिनादारभ्य परवान्परराधीनः । त्वदायत्त इति यावत् ।
अयं जनः । कर्तव्येषु कार्येषु यथेष्टमशङ्किततया शङ्काराहित्यतया भवत्या नियुज्यतां प्रेर्यतामित्यभिधायेत्युक्त्वा
तया महाश्वेतया सहोद चलत्प्रस्थानमकरोत् ।
 
टिप्प० -1 रक्षितुमिच्छति, इत्यर्थ उचितः । 2 यदि आश्चर्यदर्शनम् अतिसुखदायि (अस्ति), इत्य-
न्वयो योग्यः । 3 चित्तेन गृहीतश्वासमिवेति योजयतो धिक् टीकाकृतो जाड्यम् । चित्तेन उच्छ्रसितमिव
चित्तेन प्राणितमिव । एतावत्कालं चित्तं मृतमिवासीत्, इदानीं तेन उच्छासो गृहीत इति तात्पर्यम् ।
चित्तमुच्छ्रसित मिवेति प्रकारान्तरम् । 4 चन्द्रा पीडस्स रूंपादिगुणानालोक्य कादम्बरी मुग्धा स्यादिति
तद्विवाहेन तस्याः सुखं स्यादिति निगूढसूचना ।
 
पाठा०-१ अस्मद्वचनम् २ भवन्मतिरतिदुःखदायि; भवन्मतिः सुखदायि, ३ वास्मञ्चिरदर्शनम् ४ अर्हामि.
५ योग्यां वा मन्यसे माम्. ६ मयैव. ७ कुमतिमिमाम्. ८ च.