This page has not been fully proofread.

कादम्बर्या: प्रतिसंदेश: ]
 
पूर्वभागः ।
 
३७७
 
2
 
1
 
व्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति तत्राहमवगणय्यैतत्कथमात्मसुखार्थिनी पाणि
ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि कुमारिकाजनवि-
रुद्धं] [स्वातंत्र्यमालम्ब्याङ्गीकृतमपैयशः समवधीरितो विनयः, गुरुबचनमतिक्रामितम्, न
गणितो लोकांपवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, सा कथय कथमिव पुनरत्र
प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम् इदं च पादग्रहणम्, अनुगृहाण माम्,
वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्रेऽपि पुनरिममर्थ मनसि' इत्यभिधाय
तूष्णीमभूत् । महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य, 'गच्छ स्वयमेवाहमागत्य यथार्हमा-
चरिष्यामि' इत्युक्त्वा केयूरकं ग्राहिणोत् ।
 
3
 
"
 

 
गते च केयूरके चन्द्रापीडमुवाच -- 'राजपुत्र, रमणीयो हेमकूटः, चित्रा च चित्ररथरा-
जधानी, बहुकुतूहल: किंपुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च
कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम् अह
 
J
 
सखी महत्कृच्छ्रं काष्टमनुभवत्यनुभवविषयीकरोति, तत्र तस्मिन् समयेऽहं प्रियसख्येतद्दुःखमवगणय्यावगणनां कृत्वा
त्मसुखार्थिनी स्वस्य सुखाभिलाषिणी कथं पाणि करं ग्राहयिष्यामि ग्रहणं कारयिष्यामि । एवं सत्यनुष्टिते पाणि -
ग्रहे न खेष्टसिद्धिरित्यत आह - कथमिति । वेति पक्षान्तरे । कथं मम सुखं भविष्यति । इष्टविरहव्याकुलचि-
त्तत्वे न सुखमिति भावः । अथ त्वया साकं यत्प्रेम तदपि न भविष्यति । 'ईषिते ईषितं चेत्स्यात्तदा प्रेम प्रव-
र्तते' इति न्यायात् । अतस्त्वत्प्रेम्णा त्वत्स्त्रेहेनास्मिन्वस्तुनि पाणिग्रहणविषये मया कुमारिकाजनविरुद्धं स्वातन्त्र्यं
स्वेच्छाचारित्वमालम्ब्यापयशोऽपकीर्तिरङ्गीकृतं स्वीकृतम् । पित्रादिभिः पाणिग्रहण कार्यमाणापि पितुराज्ञाऽकर-
णमित्यपयशः । समवधीरितस्तिरस्कृतो विनयः । गुरुवचनं पित्रादीनां वचोऽतिकामितमुल्लङ्घितम् । तथा लोका-
पवादो जनापवादो न गणितो न विचारितः । वनिताजनस्य स्त्रीजनस्य सहजं स्वाभाविकमाभरणं भूषणं लज्जा
नपा सा चोत्सृष्टा त्यक्ता । कथय प्रतिपादय एतादृशो जनः कथमिव पुनरत्रास्मिन्कर्मणि प्रवर्तते प्रवृत्तिं करो-
ति । उपसंहरति - तदिति हेत्वर्थे । अयमञ्जलिरुपरचितो निबद्धः । अयं च प्रणामो नमस्कारः । इदं च पाद-
ग्रहणमभिवादनम् । इति हेतोर्मामनुगृहाणानुग्रहं कुरु । इतो मत्समीपान्मे मम जीवितेन प्राणितेन सह वनं
गतासि प्राप्तासि इति स्वप्नेऽपि स्वप्नावस्थायामपि पुनर्द्वितीयवारमिमं पूर्वोक्तमर्थं मनसि चित्ते मा कृथा मा व्यधिष्ठाः ।
इत्यभिधायेत्युक्त्वा तूष्णीमभून्मौनं कृतवती । महाश्वेता तु तत्पूर्वोक्तं श्रुत्वाकर्ण्य सुचिरं चिरकालं यावत्
विचार्य विमृश्य त्वं गच्छ व्रज स्वयमेवात्मनैव । अहमागत्य यथार्हं यथायोग्यमाचरिष्यामीत्युक्त्वा केयूरकं
ग्राहिणोत्प्रेषितवती ।
 
गते केयूरके चन्द्रापीडमुवाचाब्रवीत् । किं तदित्याह -- राजपुत्रेति । हे राजपुत्र नृपसूनो, अयं हेम-
कूटो रमणीयो मनोहरः चित्ररथो गन्धर्वनाथस्तस्य राजधानी नृपनिवासनगरी चित्रा विविधाश्चर्ययुक्ता ।
बहून्यनेकानि कुतूहलान्याश्चर्याणि यस्मिन्नेवंविधः किंपुरुषाणां किंनराणां विषयो देशः । गन्धर्वलोको देवगा-
यनजन: पेशल: सुन्दर: । 'पेशलं हृद्यसुन्दरे' इति कोषः । सरलहृदयाऽकुटिलचित्ता महानुभावा च काद-
म्बरी भर्तृदारिका । यदीति प्रत्येकमभिसंबध्यते । नातिखेदकरमिव नातिप्रयासजनकमिव गमनं यानं कल-
यसि जानासि । वेति विकल्पार्थे । गुरुप्रयोजनं महानर्थो नावसीदति न विलम्बितो भवति । वेति पूर्ववत् ।
 

 
टिप्प० -- 1 अतिक्रान्तमित्येव पाठः । 2 आवश्यक कार्यमित्याशयः ।
 
पाठा
 
-१ तीव्रव्रत. १ वस्तुनि मया. ३ अयशः.
 
४८ का०