कादम्बरी /41
This page has been fully proofread twice.
इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गा-
प्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसो [^१]पजायमानोदयः, मेरुरिव [^२]सकलोपजीव्यमानपादच्छायः, [^३]दिग्गज इवानवरतप्रवृत्तदानार्द्रीकृतकरः, कर्ता महाश्चर्याणाम्,
आहर्ता क्रतूनाम्, आदर्श: सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगम: काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त-
भौमस्तस्य यानि लक्षणानि सामुद्रिक शास्त्रप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह — चक्रधर इति । करकमले हस्तपद्म उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखा स्वरूपं लाञ्छनं चिह्नं यस्य स तथा । क इव । चक्रधर इव विष्णुरिव । सोऽपि शङ्खचक्रायुधलाञ्छितकरः स्यादि- त्युपमानोपमेयभावः । हर इवेति । जितो निर्जितो मन्मथ [^1]जनक- त्वान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव । सोऽपि जितमन्मथ: स्यादित्युभयोः साम्यम् । गुह इवेति । अप्रतिहताऽकुण्ठिता शक्ति: सामर्थ्यं यस्येति स तथा । क इव । गुह इव कार्तिकेय इव । सोऽप्यप्रतिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्पक्षे शक्तिरस्त्रविशेषः । अत एव 'षाण्मातुरः शक्तिधरः' इत्यमरः । विगतेति । विगतो मानो दर्पो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्टनृपाणां मण्डलं वृन्दं येन स तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंसानां पक्षिविशेषाणां मण्डलं येन स तथा ।
हंसाधिरूढत्वादिति भावः । 'देवयानं विमानं स्यात्' इत्यमरः । 'राजहंसास्तु ते चञ्चुचरणैरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभा वा । 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा । क इव । जलधिरिव समुद्र इव । सोऽपि लक्ष्म्या रमायाः शोभाया वोत्पत्तिस्थानं समुद्रमथ- नादेव तन्निर्गमात् । तथा च जगद्विभूषितमिति शोभाजनकत्वमिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः [^12]पितॄणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रवाह इव स्वर्धुनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यात्तदनुयायित्वा- दित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उपजायमान
उत्पद्यमान उदयः संपत्तेरुद्ररेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयाचलाज्जायमानोद्गम: स्यादित्युपमा । मेरुरिति । सकलैः समग्रैरर्थाल्लोकैरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्णाद्रिरिव । स कथंभूतः । सकलैरर्थाद्देवैः अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्तपर्वतास्तेषां छायाऽऽतपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृत्तं कृतं यद्दानं जलसहितं देयद्रव्यं तेनार्द्रीकृतः स्तिमितः करो हस्तो यस्य स तथा । क इव । दिग्गज इव दिङ्नाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचालितं यद्दानं
मदः । 'मदो दानं प्रवृत्तिश्च' इति कोशः । तेन स्तिमितः करः शुण्डादण्डो यस्य स तथेत्युपमा । कर्तेति ।महाश्चर्याण्यनन्य- कृतयुद्धादीनि तेषां कर्ता निष्पादकः । आहर्तेति । क्रतूनां यज्ञानामाहर्ता कारकः । आदर्श इति । सर्वशास्त्राणां समग्रवाङ्मयानामादर्शो मुकुरः । तत्र तेषां प्रतिबिम्बितत्वादिति भावः । उत्पत्तिरिति । कलानामिति द्विसप्ततिप्रमिता याः कलाः शिल्पादिरूपास्तासामुत्पत्तिर्जन्मभूः । गुणानामिति । गुणा गाम्भीर्यादयस्तेषां कुलभवनं परम्परास्थानम् । आगम इति । काव्यामृतेति । काव्यं कविकर्मतत्संबन्धिनो येऽमृतरसास्तेषामागम उद्गमरूपः । उदयेति । मित्राणि सुहृदस्तेषां मण्डलं समुदायस्तस्योदयशैलोऽभ्युन्नतेः स्थानम् । पक्षे मित्रमण्डलस्य सूर्यबिम्बस्योदयशैलः । उदयाचलः । उत्पातेति । अहितजनस्य
[^1]F. सौन्दर्येण ( अथवा संयमातिशयेन ) जितो मन्मथो येनेति सरलोऽर्थः ।
[^2]F. भगी ऐश्वर्यसंपन्नः, रथपथे प्रवृत्तश्च । 'भगं श्रीकाममाहात्म्य- वीर्ययत्नार्ककीर्तिषु' इत्यमरः ।
[^१]G. 'पचीयमानो'.
[^२]G. 'सकलभुवनो'; 'सकलभुवनतलो'.
[^३]G. 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः, दिग्गज',
प्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसो [^१]पजायमानोदयः, मेरुरिव [^२]सकलोपजीव्यमानपादच्छायः, [^३]दिग्गज इवानवरतप्रवृत्तदानार्द्रीकृतकरः, कर्ता महाश्चर्याणाम्,
आहर्ता क्रतूनाम्, आदर्श: सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगम: काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त-
भौमस्तस्य यानि लक्षणानि सामुद्रिक
हंसाधिरूढत्वादिति भावः । 'देवयानं विमानं स्यात्' इत्यमरः । 'राजहंसास्तु ते चञ्चुचरणैरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभा वा । 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा । क इव । जलधिरिव समुद्र इव । सोऽपि लक्ष्म्या रमायाः शोभाया वोत्पत्तिस्थानं समुद्रमथ- नादेव तन्निर्गमात् । तथा च जगद्विभूषितमिति शोभाजनकत्वमिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः [^