This page has not been fully proofread.

३७६
 
कादम्बरी
 
[ कथायाम -
 
दत्तकण्ठग्रहा त्वां विज्ञापयति - 'यदि यमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजना-
नुरोध:, किमिदं मचित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोशलम्भः, किं प्रेमविच्छे-
दाभिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्द -
निर्भरं हृदयम्,
एवमतिनिष्ठुरं संदिशन्ती कथमसि न लजिता । तथा मधुरभाषिणी के-
नासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्य-
वसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृ-
दुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः कीदृशाः संभोगाः, कानि वा हसितानि ।
येनेदृशीं दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं
कुर्याम् । दिवसकरास्तमैयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमा•
गमसुखानि त्यजति, किमुत नार्यः । यंत्र भर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं
निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेजनः । यत्र च भर्तृविरहविधुरा
 
,
 

 
M
 
-
 
महाश्वेते, देवी कादम्बरी दृढ़ दत्तः कण्ठग्रहो यया सा । कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति ।
किं विक्षप्तिं कृतवतीत्याह - यदियमिति । इयं तर लिका मामागत्यैत्य यदवददवोचत्तत्कथय ब्रूहि – किमयं
गुरुजनानुरोधः किं गुरुजनपारवश्यम् । किमिदं मचित्तस्य मन्मनसः परीक्षणं परीक्षाकरणम् । किं गृहनिवास-
लक्षणो योऽपराध आगस्तस्य निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थ स्नेह निवृत्त्यै अयमभिलापः संलापः ।
किं भक्तजनस्थ सेवकजनस्य परित्याग उपायः प्रपञ्चः । किंवा प्रकोपः प्रतिघा । सहजं स्वाभाविकं यत्प्रेम तस्य
निस्यन्दो रसस्तेन निर्भरं हृदयं मे मम जानास्येव ज्ञास्यस्येव । एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती
कथं न लज्जितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन
पुंसा त्वं शिक्षितासि हितोपदेशविषयीकृतासि । स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह - स्वस्थोऽ-
. पीति । स्वास्थ्यवानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीयसीदृशेऽवसान विरसे प्रान्तदुःखदे कर्मणि
क्रियायां क इव को जनो मतिं बुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्थेत्याह -- किमुतेति । अतिदुःखे-
नाभिहतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चि
तम् । सुहृद्दुःखखेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलाषः कैव निर्वृतिर्मनःसंतुष्टिः ।
संभोगा इन्द्रियार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि । येन कामेन प्रियसखी -
दृशीं दशामवस्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्ट विधायिनमतिदारुणमतिभीषणं कथं कामं सकामं
साभिलाषं कुर्याम् । प्रणयसखीदुःखेन खस्मिन्दुःखवत्त्वं निदर्शयन्नाह - दिवसेति । दिवसकरस्य सूर्यस्यास्त-
मयेन परद्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सैत्सु सहवासपरिचयाञ्चक्रवाकयुवतिरपि
द्वन्द्वचरवनितापि पतिसमागमसुखानि भर्तृसंयोगसौख्यानि त्यजति जहाति, तर्हि नाऽपि योषितोऽपि किमुत
वाच्याः । न किमपि कथनीया इत्यर्थः । यत्रेति । यत्र हृदये भर्तृविरहेण विधुरा दुःखिता परिहृतं परित्यक्तं
परपुरुषाणामपरपुंसां दर्शन वीक्षणं यया सैर्वविधा प्रियसखी महाश्वेता दिवानिशमहोरात्रं निवसत्यधितिष्ठति
तन्मम हृदयमपर इतरः प्राकृतो जनः कथमिव प्रविशेत्कथं प्रवेशं कुर्यात् । यत्र चेति । यत्र यस्मिन्समये
भर्तुः पत्युर्विरहेण वियोगेन विधुरा दुःखिता व्रतेन नियमेन कर्शित कृशतां नीतमङ्गं शरीरं यया सैवंविधा प्रिय-
टिप्प० ---1 वेत्स्येवेत्युचितम् । 2 कामं कथं सकामं कुर्यामित्यन्वयः । 3 सतीषु, इति तात्पर्यम् ।
4 अनधिकारी भाषायाम् । नार्यस्तु इत्युचितम् ।
 
पाठा
 
-१ गुरुजनवचनानुरोध: २ अभिलाष: ३ अस्तमन ४ समागम, ५ परित्यजति, ६ अपि च यत्र.
 
9