कादम्बरी /408
This page has not been fully proofread.
कादम्बर्याः प्रतिसंदेशः ]
पूर्वभागः ।
अलिकुलनीलसरैल शिरसिजेन, अप्राम्याकृतिना, राजकुल संपर्कचतुरेण, गन्धर्वदारकेण केयूर -
कनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकुतूहला चन्द्रा-
पीडं सुचिरमवैलोक्य महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् । अनन्तरं
चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिला-
तलं भेजे । उपविष्टश्च तमदृष्टपूर्वमधः कृतकुसुमायुधमुपहसित सुरासुरगन्धर्वविद्याधररूपं रूपा-
तिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे । परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम् -
'किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्' इति ।
.)
अथ सा तरलिका विनयावनतमौलिरीषदेवलम्बितकर्णपाशमतिमधुरया गिरा। व्यजिज्ञपत्-
'भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी । विज्ञापिता' च नि-
खिलं भर्तृदुहितुः संदेशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसं-
दिष्टम्, तदेष तथैव विसर्जितस्तस्या एव वीणावादकः केयूरकः कथयिष्यति' इत्युक्त्वा
विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् - 'भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढ-
कनकपट्टवत्सुवर्णपट्टवत्पृथु विस्तीर्ण ललाटमलिकं यस्य स तेन । अलीति । अलिकुलवन्नीलाः सरला अवकाः
शिरसिजा: केशा यस्य स तेन । अग्राम्येति । आग्राम्या नागरीयाकृतिराकारो यस्य स तेन । राजेति ।
राजकुलेन यः संपर्कः संबन्धस्तत्र चतुरेण चातुर्ययुक्तेन । आगत्य चेति । आगत्य चैत्य च । कोऽयमित्युप-
जातं समुत्पन्नं कुतूइलं यस्याः सा तया । सुचिरं चिरकालं यावत् चन्द्रापीडमवलोक्य निरीक्ष्य महाश्वेतायाः
समीपमुपसृत्यागय कृतो विहितः प्रणामो यया सा सविनयमुपाविशदुपविष्टा । अनन्तरमिति । तरलिका-
वस्थानानन्तरमतिदूरादानतेन नम्रेणोत्तमाङ्गेन शिरसा प्रणम्य नमस्कृत्य केयूरकोऽपि महाश्वेतया दृष्ट्या निसृष्टं
दर्शितं नातिसमीपवर्ति नातिनिकटवर्ति शिलातलं भेजेऽधितस्थौ । उपविष्टश्चेति । तत्रोपविष्ट आसीनश्च
स तमदृष्टपूर्वमनवलोकितपूर्वमधः कृतः कुसुमायुधो येन स तमुपहसितं न्यकृतं सुरासुरगन्धर्वविद्याधराणां रूपं
सौन्दर्य येन स तमेवंविधं चन्द्रापीडस्य रूपातिशयं सौन्दर्याधिक्यं दृष्ट्वा चावलोक्य च विस्मयमाश्चर्यमापेदे प्रा-
तवान् । परीति । परिसमाप्तः पूर्णीभूतो जपो जापो यस्याः सैवंविधा महाश्वेता तरलिकामिति पप्रच्छेत्यप्रा-
क्षीत् । इतिद्योत्यमाह- कादम्बरीति । कादम्बरी प्रियसखी वल्लभवयस्या कुशलिनी कल्याणवती त्वया किं
दृष्टावलोकिता । वा अथवा तत्पूर्वोक्तमस्मद्वचनं करिष्यति ।
अथेति । तत्प्रश्नानन्तरं सा तरलिका विनयेनावनतो मौलिर्यया सा ईषत्किंचिदवलम्बितकर्णपाशं यथा
भवति तथा व्यजिज्ञपद्विज्ञापनां चकार । कया । अतिमधुरयातिमिष्टया गिरा वाण्या, हे भर्तृदारिके, खलु निश्च-
येन । कादम्बरी भर्तृदारिका सर्वतः सर्वप्रकारेण कुशलिनी कल्याणवती दृष्टावलोकिता । विज्ञापिता च निखिलं
समग्रं भर्तृदुहितुर्भवत्याः संदेशमुदन्तम् । आकर्ण्य चेति । तच्छ्रुत्वा च यत्तया कादम्बर्या संततं निरन्तरं
मुक्ताः स्थूला येऽश्रुबिन्दवस्तेषां वर्षो यस्मिन्नेतादृशं यथा स्यात्तथा रुदित्वा रुदनं कृत्वा प्रतिसंदिष्टं प्रत्युत्तरं कृतं, तदेष
तयैव कादम्बर्यैव विसर्जितस्त्वन्निकटे प्रेषितस्तस्या एव कादम्बर्या एव वीणावादकः केयूरकः कथयिष्यति निवे-
दयिष्यति । इत्युक्त्वा विरराम विरता बभूव । अथ विरतवचसि तस्यां केयूरकोऽब्रवीदवोचत् । हे भर्तृदारिके
टिप्प० - 1 संततं मुक्तावत्स्थूलानाम् अश्रुबिन्दूनां वर्ष: (वर्षणम्) यस्मिन्कर्मणि यथा स्यात्तथा
इति स्पष्टोर्थः । 2 वीणावाहक इत्येवोचितः पाठः ।
पाठा० -१ कुटिल, २ आलोक्य ३ समुपविष्टश्च सत्र : आलम्बित ५ सतत ६ वीणाबाहकः.