This page has not been fully proofread.

३७४
 
कादम्बरी ।
 
[ कथायाम्-
अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जप-
न्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका पोडशवर्षवयसा, सावष्टम्भा-
कृतिना, मदखेदालसगजगमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्ड-
द्वयेन, कुङ्कुमरागपिञ्जरारुणेन, चामीकरशृङ्खलाकला पनिविडनियमितं कक्षाबन्धातिरिक्तप्रेस-
त्पल्लवमधरवास एव केवलं वसानेन, निरुदंरतया विभेक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपी-
नबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणमणेर्विप्रकीर्यमाणमधोमुखकिर-
णेन्द्रायुधजालवर्णांशुकोत्तरीय मिवैकस्कन्धंक्षिप्तमुद्वहता, चूतपल्लवकोमलमनवरतताम्बूलबद्ध-
रागान्धकारमघरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव
दिगन्तरराणि, कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललादेन,
 
S
 
अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापो-
देवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्यां, निर्वर्तितो विहितः प्राभातिकः प्रत्यूषसंबन्धी विधिर्ये-
नैवंविधे चन्द्रापीडे सा तरलिका प्रत्यूषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदार-
केणानुगम्यमाना । अथ केयूरकं विशेषयन्नाह – षोडशेति । षोडशवर्षाणि हायनानि तैः परिमितं वयो
यस्य स तथा तेन । तावन्मात्र प्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स
तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासान् ।
निक्षिपता स्थापयता । पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डुरमूरुदण्डद्वयं सक्थि-
दण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुमं केसरं तस्य रागेण पिञ्जरः पीतरक्तोऽरुणो देहस्थरागो
यस्य स तेन । किं कुर्वता । केवलमधरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशे-
यन्नाह – चामीति । चामीकरस्य सुवर्णस्य शृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमितं बद्धम् ।
कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेमन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यंदुदर
तस्य भावस्तत्ता तथा विभक्तो विभागीकृतो मध्यो भागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् ।
विपुलेति । विपुलं बृहद्वक्षो. भुजान्तरं यस्य स तेन । दीर्घेति । दीर्घावायतावनुवृत्तपीनौ परम्परया पुष्टौ
बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यव-
लयं रत्नकङ्कणं यस्य स तेन । कर्णेति । कर्णाभरणमणेः श्रोत्रभूषणरत्नस्य विप्रकीर्यमाणं विक्षिप्यमाणमधोमुख-
किरणानामिन्द्रायुधजालवर्णं शक्रचापसमूहरागं यदंशुकोत्तरीयमुत्तरानं चित्रवस्त्रमेक स्कन्धक्षिप्तमिवै कांसन्य-
स्तमिवोद्वहता धारयता । पुनः किं कुर्वता । अधरं दन्तच्छदमोष्ठं दधता । अधरं विशेषयन्नाह - चूतेति ।
चूतपल्लववदाम्रकिसलयवत्कोमलं सुकुमारम् । अनवरतेति । अनवरतं निरन्तरं ताम्बूलस्य नागवल्लया दलस्य
बद्धो रागान्धकारो यस्मिन् । कर्णेति । कर्णान्तायतस्य श्रोत्रप्रान्तप्राप्तस्य स्वभावेन धवलस्य शुभ्रस्य लोचन -
युगलस्य नेत्रयुग्मस्य धवलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुभ्रीकुर्वतेव । कुमुदवनानीव कैरवखण्डानी-
व वर्षता वृष्टिं कुर्वता । पुण्डरीकमयमिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता । कनकेति ।
 
टिप्प० - 1 सावष्टम्भा सबला आकृतिर्यस्येत्युचितोर्थः । 2 अनुदरा कन्येतिवत् ईषदर्थे निःशब्दः ।
3 एकस्कन्धक्षितम् उत्तरीयमिव किं वहति ? न किञ्चित्तीयते, सर्व भ्रष्टीचकार महाभागः । ..किर-
णेन्द्रायुधजालं वर्णाशुकोत्तरीय मिव' इति पाठः । कर्णाभरणरतस्य नीचैर्विकीर्यमाणाः (प्रसरन्तः) अधो-
मुखाः किरणाः नानावर्णशालितया इन्द्रधनूंषीव तेषाम् (किरणानाम्) जालमेकस्कन्धसक्तं वर्णांशुकमिव
( रक्तवर्णरंजितम् अंशुकमिव वस्त्रमिव:) उद्वहता, इति तदर्थः । 4 दिगन्तरे नेत्रप्रेरणस्य कुमुदवनवर्ष-
णत्वेन, दिवसस्य पुण्डरीकमय करणत्वेन चोत्प्रेक्षेत्याशयः ।
 
पाठा- •१ गजराज, २ विभक्तमध्येन. ३ मणिर्विप्रकीर्य.