कादम्बरी /406
This page has not been fully proofread.
केयूरकेण सह तरलिकाया आगमनन् ] पूर्वभागः ।
कलशे कुमुदवान्धवे विघटितकुमुदवने धवलितदशदिशि शश्वेते श्वेतिमानमातन्वति मानि-
नीमानदस्यौ शशाङ्कमण्डले, शशिकर कैलापकलितास्वातन्त्रतीषु ऋशिमानमौडवीषु प्रभासु,
प्रस्रवत्सु च कैलासशशिमणिशिलानां सर्वतः स्रोतःस्राविषु प्रस्रवणेषु, मृणालकन्दलिनि
चावस्कन्द पतितचन्द्रकर इव विलुप्तकमलबनशोभे भात्यच्छोदसरः पयसि, समुपोढमोहनिद्रे
च द्राधीयोवीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचकवाले, निवृत्त च चन्द्रोदये,
विद्रुते हर्षनयनजलकणनीहारिणि चियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रा-
पीड : सुप्तामालोक्य महाश्वेतां पल्लवशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां किं नु
खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोक '
इति चिन्तयन्नेव निद्रां ययौ ।
लाया मङ्गलकलश इव । कुमुदस्य कैरवस्य बान्धवे बन्धुसदृशे । विघटितेति । विघटितानि विमुद्रितानि
कुमुदवनानि येन स तस्मिन् । धवलितेति । धवलिताः शुभीकृता दशदिशो येन स तस्मिन् । शङ्खवज्ज-
लजवच्छ्छ्रेते शुभ्रे । किं कुर्वति । श्वेतिमानं श्वेतातिशयमातन्वति विस्तारयति सति । अथवा शङ्खस्य श्वेतो
गुणस्तस्मिञ्श्वेतिमानं चाकचक्यरूपं यथादर्शे विस्तारयति सति । इदं च शङ्खे चन्द्रकिरणसंपर्कवशाद्विलक्षणा
पाण्डुरता दृश्यत इत्यभिप्रायेण सूर्यकरसंपर्कवशाद्विलक्षण स्वच्छता दृश्यते तद्वदिवेति केचित् ।
मानिनीति । मानिन्या मानवत्याः स्त्रियो यो मानः स्मयस्तस्य दस्यौ विपक्षे । मानिनीमानापहा-
रकत्वाद्दस्यु सादृश्यमिति । पुनः कासु । शशिकराणां चन्द्रकिरणानां कलापेन समूहेन कलितासु सहिताखौ -
डवीषु नक्षत्रसंपन्धिनीषु प्रभासु कान्तिषु ऋशिमानं कृशत्वमातन्वतीषु विस्तारयन्तीषु । पुनः केषु ।
कैलासस्य शिलामणेयश्चन्द्रकान्तास्तेषां शिलास्तासां सर्वतोऽभितः स्वतोऽम्भःसरणं स्रोतस्तरस्रवन्तीत्येवं-
शीलेषु प्रस्रवणेषूत्रेषु प्रस्रवत्सु क्षरत्सु । पुनः कस्मिन्सति । अच्छोदाभिधानस्य सरसः पयसि पानीये भाति
राजति सति । कीदृशे । मृणालानां कन्दला विद्यन्ते यस्मिन् । विलुप्तेति । विलुप्ता विलोपं प्राप्ता
कमलवनस्य पद्मखण्डस्य शोभा श्रीर्यस्मिन् । अत एव श्वेतत्वसाम्येनोत्प्रेक्षते - अवेति । अवस्कन्दार्थ हन-
नार्थ पतिताः प्रविष्टाश्चन्द्रकरा यस्मिन्नेवविध इव । पुनः कस्मिन्सति । विरहिणि विप्रलम्भिनि चक्रवाका द्वन्द्व -
चरास्तेषां चक्रवाले समूहे विरुवति शब्दं कुर्वति सति । अथ चक्रवाकसमूहं विशेषयन्नाह - समुपोढेति ।
समुपोढा समागता विरहवशान्मोहनिद्रा यस्मिन् । द्वाघीय इति । द्राघीयोभिरतिदीर्घाभिर्वाचिभिः कलो-
लैर्विचलितं कम्पितं वपुर्यस्य स तस्मिन् । पुनः कस्मिन् । चन्द्रोदये च निर्वृत्ते सति । विद्याधराणां व्योमचा-
रिणामभिसारिकाजने संकेतितस्त्रीजने विद्वते विशकलिते जाते सति । अभिसारिकाजनं विशेषयन्नाह -
हर्ष इति । हर्षजनिता ये नयनजलकणा एव प्रमोदबाष्पपृषता एव नीहारं तुहिनं हिमं यस्मिन् । वियद्विहा-
रिणि व्योमचारिणि मनोहारिण्यभिरामे । अस्यामिति । अस्यां पूर्वोक्तायां वेलायां समयविशेषे । खलु निश्च-
येन । मामन्तरेण मध्यतिरेकेण वैशम्पायनः । अथ च वराकी पत्रलेखा । अथ च राजपुत्रलोको नृपसुतसमूहः
किं चिन्तयति किं चिन्तयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति वर्तमानता । इति चिन्त-
यन्नेवेति ध्यायन्नेव निद्रां ययौ प्रमीलां प्राप्तवान् ।
1
टिप्प० - 1 शशिमणय इत्युचितम् । 2 अवस्कन्दार्थ कमलानामाक्रमणार्थमित्युचितोर्थः । यतो हि
करा: (हस्ताः) कस्यचिन्निर्दयग्रहणार्थ कुत्रचित्पतन्ति । 3 निर्वृत्ते इत्येव पाठः । चन्द्रोदये निष्पन्ने हुति
तदर्थः । 4 चन्द्रोदयेन तिमिरापगमाल्लोकानां दर्शनपथादतिक्रान्ते सतीत्याशयः ।
पाठा० -१ शङ्खश्वेते श्वेतात त्रामाणे; शङ्ख श्वेतायमाने. २ शत्रौ० ३ शुचिशोचिषि शशाङ्कमण्डले; शशाङ्के.
४ रोचिष्णुराशि ५ कलितासु, कवलितासु. ६ जन्तीषु ७ अवश्याय ८ पवनवशालमुपोढ, ९ निवृत्ते. १० शनैः .