कादम्बरी /405
This page has not been fully proofread.
३७२
कादम्बरी ।
[ कथायाम्-
,
महादेव्या मदिरया सहावधार्य क्षीरोदनामानं कचुकिनम् 'वत्से महाश्वेते, त्वैव्यतिरेकेणैव
दग्धहृयाणामिदमपरमस्माकमुपस्थितम् 'इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति
संदिरैय मत्समीपं प्रत्युषसि प्रेषितवान् । तँतो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरो-
देन सार्धं सा तरलिका 'सखि कादम्बरी, कं दुःखितमपि जनमतितरां दुःखयसि । जीवन्ती-
मिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च
तस्यामनन्तरमेवे मां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् ।
अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्नित्र शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्
इन्निव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललनं दक्षशापानलदाहचिह्नम्, अवि-
रलभस्माङ्गरागधवलो भृंगाजिनप्रावृतार्थो वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डल चूडा-
मणिर्भगवानुदगात्तारकाराज: । क्रमेण चोगते गगनमहापयोधिपुलिने सेप्तलोकनिद्रामङ्गल-
पान्तं प्रत्युषसि प्रभाते प्रेषितवान्प्राहिणोत् । इतियोत्यमाह
- वत्से इति । हे वत्से महाश्वेते, त्वयतिरेके
णैव त्वद्वृत्तान्तेनैव दग्धं ज्वलितं हृदयं येषामेवंविधानामस्माकमिदं कादम्बरीसक्तमपरं दुःखमुपस्थितं प्रादुर्भू-
तम् । इदानीं तु सांप्रतं कादम्बरीमनुनेतुमनुनयं कर्तुं त्वं शरणं त्वमेवाश्रयः । ततो मया गुरुवचनं पूज्यवच-
स्तस्य गौरवेणानुल्लङ्घयतया सखी आली तस्याः प्रेम्णा स्नेहेन च क्षीरोदेन कञ्चुकिना सार्धं सा तरलिका इति
संदिश्य कथयित्वा विसर्जिता प्रहिता । इतिद्योत्यमाह -- हे सखि कादम्बरि, कं दुःखितमपि पीडितमपि जन-
मतितरामतिशयेन दुःखयस्यतितरां पीडयसि । चेन्मां जीवन्तीं श्वसन्तीमिच्छसि वाञ्छसि । तदिति हेत्वर्थे
वचनम् । गुरुवचनं अवितथं सत्यं कुरु विधेहि । तस्यां नातिचिरंगतायां स्तोककालप्रस्थितायां च सत्यामनन्त-
रमेवेमां भूमिं महाभागः सत्पुरुषः त्वमनुप्राप्तोऽन्वागतः इत्यभिधायेत्युक्त्वा तूष्णीं जोषमभवत् ।
अत्रान्तरेऽस्मिन्समये शोकानलेन शुग्वहिना दग्धं मध्यं यस्यैतादृशं महाश्वेताहृदयं लाञ्छनच्छलेनाङ्कमि-
षेण विडम्बयन्निव सादृश्यं कुर्वन्निव । धर्म उज्ज्वलः, पातकं श्याममिति तेनैव साम्येनाह - उद्वहन्निव धारय-
न्निव मुनिकुमारवधलक्षणं महापातकं महापापम् । दक्षेति । दक्षप्रजापतेर्यः शापानल: शापवह्निस्तेन दाहस्तस्य
चिह्नं चिरकाललनं चिरकालीनं दर्शयन्निव प्रकटयन्निव । पाण्डुरत्वकृष्णत्वसाम्येनोपमानान्तरमाह - अविर
लेति । अविरलो निबिडो भस्माङ्गरागरतेन धवलः शुभः । तथा मृगस्याजिनं चर्म तेन प्रावृतमाच्छादितमर्ध
यस्यैवंविधोऽम्बिकायाः पार्त्रया वामो दक्षिणेतरः स्तनः कुच इव । धूर्ज टिरिति । धूर्जटिरीश्वरस्तस्य जटा-
मण्डलं तस्य चूडामणिर्भगवान्माहात्म्यवांस्तारकाराजश्चन्द्र उदगादुदितवान् । क्रमेण परिपाट्या शशाङ्कमण्डल
उद्गत उदिते सति चन्द्रापीडो महाश्वेतां सुप्तां शयितामालोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पल्लवशयने
किसलयशव्यायां समुपाविशदधितस्थौ । अथ च शशाङ्कमण्डलं विशेषयन्नाह
- गगनेति । गगनमपारत्वा-
महापयोधिर्जलधिस्तस्य पाण्डुरत्वसाम्यात्पुलिन इव पुलिने जलोज्झितसैकतरूपे, सप्तलोकेषु निद्रायाः प्रमी-
टिप्प० - 1 अहो अनभिज्ञता ! व्यतिरेकस्य विरहः कदाचिदर्थ: स्यात्परं न कदाचिद्वृत्तान्त इत्यर्थः ।
तस्मात् 'त्वद्व्यतिकरेण' इत्येव पाठः । 2 लेखकप्रमादमेव जाने । यदि च न तथा, तर्हेि नातः परं
मूर्खत्वम् । 'किं दुःखितमपि ' इत्येव पाठः सर्वबोध्यश्वार्थः ।
पाठा०—१ ब्रूहे गत्वा वचः वत्से. २ त्वद्व्यतिरेकेणैकेनैव. ३ इदानीं कादम्बरीव्यतिकरे, ४ संदिश्य तदनु:
नयार्थ. ५ अद्यैव प्रत्युषसि ६ अतः ७ अश्चिान्तरे, ८ कृष्णमृगाजिन ९ समस्त.