This page has not been fully proofread.

कादम्बरीजन्मादिकथा ]
 
पूर्वभागः ।
 
३७१
 
सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं प्रेमस्थानमखिलविसम्भधाम द्वितीयमिव
हृदयं बालमित्रम् । एकत्र तया मया च गीतनृत्यकलासु कृताः परिचयाः । शिशुजनोचिताभित्र
क्रीडाभिरनियन्त्रण निर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजात-
शोका निश्चयमकार्षीत् - 'नाहं कथंचिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि'
इति । सखीजनस्य पुरतः सशपथमभिहितवती च – 'यदि कथमपि मामनिच्छन्तीमपि बला-
तातः कदाचित्कस्मैचिद्दातुमिच्छति तैदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा निय-
तमात्मानमुत्त्रक्ष्यामि' इति । सर्वं च तदात्मदुहितुः कृतनिश्चलभाषितं कर्णपरम्परया परि-
जनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति काले समुपारूढनिर्भरयौवनामालोक्य
से तां बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया चातिप्रियतया च न
शक्त: किंचिदपि तामभिधातुमित्यपइयंञ्चान्यदुपायान्तरम् इदमत्र प्राप्तकालमिति मत्वा तया
 
2
 
द्युत्पन्नमभूत् । सा चेति । सा कादम्बरी मे मम जन्मनः प्रभृत्युत्पत्तिदिनादारभ्यैकान्य भिन्नान्यशन शयनपाना-
सनानि यस्याः सा । तत्राशनं भोजनम्, शयनं शय्या, पानं मद्यादि, आसनं चतुष्किकादि । एतेन प्रीत्युत्कर्षः
सूचितः । परमुत्कृष्टं प्रेमस्थानं स्नेहस्थानम खिलानां समग्राणां विसम्भाणां विश्वासानां धाम द्वितीयमपरं हृदय..
मिव स्वान्तमिव बालमित्रम् । एकत्रेति । एकस्मिन्स्थले तया मया च गीतनृत्यकलासु कृताः परिचया अभ्या:-
साः । शिश्विति । शिशुजनोचिताभिर्बालजनयोग्याभिः क्रीडाभिरनियन्त्रणं खेच्छाविचरणं तेन निर्भरं यथा
स्यात्तथा बालभावः शिशुभावोऽपनीतो दूरीकृतः । सा चेति । सा कादम्बर्यमुनैव मदीयेन हतवृत्तान्तेन समुपजातः
शोको यस्याः सा तथा । इति निश्चयं निर्णयमकार्षीत् । सखीजनस्यालीजनस्य पुरतोऽग्रतः सशपथं शपथपूर्व क
मित्यभिहितवती कथितवती च । इतिद्योत्यमाह - नाहमिति । कथंचिदपि केनचित्प्रकारेणापि सशोकायां
महाश्वेतायामात्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । यदीति । यदि कथमपि
महता कष्टेन मामनिच्छन्तीमप्यवाञ्छन्तीमपि बलाद्धठात्तातः पिता कदा चित्कस्मैचित्पुरुषाय दातुमिच्छति
वाञ्छति तदाहमनशनेन प्रायसा वा, हुताशनेन वह्निना वा, रज्ज्वा रश्मिना वा, विषेण गरलेन वा । सर्वत्र
वाशब्दो विकल्पार्थः । नियतं निश्चिमात्मानमुत्स्रक्ष्यामि त्यजिष्यामि । इति तदात्मदुहितुर्निजसुतायाः सर्व
समयं कृतो निश्चयो यस्मिन्नेतादृशं निश्चलभाषितं स्थिरजल्पितं परिजनसकाशात्परिच्छद समीपात्कर्ण परम्परया'
श्रोत्रप्रणालिकया गन्धर्वराजश्चित्ररथः स्वयमशृणोदाकर्णयत् । गच्छति व्रजति काले समये सति स चित्ररथः
समुपारूढं प्राप्तं निर्भरमतिशायि यौवनं तारुण्यं यस्यामेतादृशीं तां कादम्बरीमालोक्य निरीक्ष्य बलवानुपतापः
संतापस्तेन परवशः परायत्तः क्षणमपि धृतिं संतोषं नालभत नाप्तवान् । एकेति । एकापत्यतयै कसंततितया-
तिप्रियतया च किंचिदपि तां कादम्बरीमभिधातुं कथयितुं न शक्तो न समर्थ इति हेतोरन्यदुपायान्तरं कार्य-
साधकप्रकारान्तरमपश्यन्नैनवलोकयंश्च । इदं कुमारीलक्षणमत्र प्राप्तकालं प्राप्तसमयमिति मत्वा ज्ञात्वा तया
मदिरया महादेव्या सहावधार्य निश्चित्य क्षीरोदनामानं कञ्चकिनं सौविदल्लमिति संदिश्येत्युक्त्वा मत्समीपं मदु-
टिप्प० - 1 भोजनपरित्यागेन । 2 त्यक्ष्यामि इत्येव विवेकिभिर्वाच्यम् । 3 वस्तुतस्तु ... तामभि
धातुम् । अपश्यंश्चान्यदुपायान्तरम्, इत्येव पाठः ।
 
पाठा० -१ मज्जन्मनः २ एकासनशयनपानाशना; एकासनपानाशना ३ नृत्यगीतादिकला/सु; गीतनृत्यादिकासु
कलासु. ४ समुत्पन्न. ५ इच्छेत् ६ ततः ७ कृतनिश्चयं निश्चलं भाषितम्; कृतनिश्चयनिश्चलभाषितम् ८ अतिप्रेमतया
गच्छति. ९ सुताम्; स संतापेन बळवददूयत न क्षणमपि धृतिमलभत १० शक्नोति.