This page has not been fully proofread.

Ix
 
३७०
 
कादम्बरी ।
 
[ कथायाम्-
कुसुमायुधः, यदनेनाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो
जीवितं जहति । सर्वथा नमो भगवते त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाय' इति ।
पुनः पप्रच्छ चैनाम्
– 'भगवति, सा तैव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्म-
चारिणी तरलिका क गता' इति ।
 
अथ साकथयत्
– 'महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलं तस्मान्मदि-
रेति नाम्ना मंदिरायत्तेक्षणा कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्वकुलमुकुटकुडा लपीठप्रति-
ष्ठितचरणो देवश्चित्ररथः पाणिमग्रहीत् । अपरिमित गुणाकृष्टहृदयश्च वॅनितादुर्लभेनाधः कृता-
शेषान्तः पुरेण हेमपट्टलाञ्छनेन छत्रवेत्रचामरचिह्वेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत् ।
अन्योन्यप्रेमसंवर्धन परयोश्च तयोर्यौवनसुखानि सेवमानयोः कालेनाश्चर्यभूतमेकजी वितमिव
पित्रोः, अथवा सर्वत्यैव गन्धर्वकुलस्य वा जीवलोकस्य, दुहितरत्नमुद्पादि कादम्बरीति नाम्ना ।
 
देहविसर्जनक्रमो यैस्ते, तथा समुत्सारितं धैर्यं येषामेवंविधा महान्तोऽपि पुण्डरीकप्रभृतयः सद्यस्तत्कालं जीवितं
जहति त्यजन्ति । अतः सर्वथा सर्वप्रकारेण भगवते त्रिभुवनेनाभ्यर्चित पूजितं शासनमाज्ञा यस्य स तस्मै मक-
रकेतनायानङ्गाय नमोऽस्तु ।
 
एनामिति । एनां महाश्वेतामिति पुनः पप्रच्छ प्रश्नमकार्षीत् । इतिवाच्यमाह
- हे भगवति, सा तव परि-
चारिका सपर्याकारिणी । कीदृशी वनवासलक्षणं यत् व्यसनं कष्टं तत्र मित्रं सुहृत् । आविष्टलिङ्गत्वान्नपुंसक-
त्वम् । दुःखेति । दुःखे कृच्छ्रे सब्रह्मचारिणी । 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इति कोषः । एवं-
विधा सा तरलिका क गता ।
 
>
 
अथेति । तत्प्रश्नानन्तरं सा महाश्वेताकथयदवोचत् । किं तदित्याह - महाभागेति । हे सत्पुरुष, अमृ-
तसंभवमप्सरसां कुलं यच्च मया पूर्वमुक्तम् तस्मात्कुलात् । मदिरेति । मदिरा इति नाम्ना कन्यकाभूत् ।
तां विशिनष्टि - मदिरेति । मदिरांयत्ते घूर्णिते लोचने यस्याः सा तथा । मदिरया नयनयोः कश्चन विस्तारो
जायत इति । विस्तीर्णनयनेति यावत् । तस्याश्चेति । तस्या मदिराया देवोऽसौ चित्ररथः पाणिं हस्तमग्रहीत् ।
पाणिपीडनमकरोदित्यर्थः । चित्ररथं विशेषयन्नाह - सकलेति । सकलं समग्रं यद्गन्धर्वकुलं देवगायनवंशस्तस्य
मुकुटानि किरीटानि तान्येव कुमलाकारं पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ येन सः । अपरीति ।
अपरिमिता असंख्या ये गुणा लज्जादयस्तैराकृटमाकर्षितं हृदयं चेतो यस्य स प्रीतः संतुष्टो महादेवीशब्देन पर -
मुत्कृष्टं प्रसादमनुग्रहमकरोदन्वतिष्ठत् । अथ च महादेवीशब्द विशेषयन्नाह - वनितेति । वनितायाः स्त्रि
दुर्लभेन दुष्प्रापेण । अध इति । अधःकृतमधरीकृतमशेषं समग्रमन्तः पुरं येन स तेन । हेमेति । हेमपट्टस्य
सुवर्णपट्टस्य लाञ्छनं चिह्नं यस्मिन्स तेन । छत्रेति । छत्रमातपत्रम्, वेत्रं यष्टिः, चामरं वालव्यजनम्, एतानि
चिह्नानि यस्मिन् । अन्योन्येति । अन्योन्यं मिथो यत्प्रेमसंवर्धनं स्नेहोत्पादकं तत्र परयोः सप्रयत्नयोश्च तयो-
यौवनसुखानि तारुण्यसातानि सेवमानयोर्भुजानयोः कालेनानुक्रमेणाश्चर्यभूतं चित्रभूतं पित्रोर्मातृजनकयोरेकजीवि-
तमद्वितीयप्राणितमिव । अथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वैकजीवितं कादम्बरीनाम्ना दुहितृरत्नमुदपा-
टिप्प० - 1 समानदुःखभोगिनीत्यर्थः । 2 घोरग्राम्यः कुलमर्यादानुचितश्चायं पाठः । 'मदिरायते-
क्षणा' इत्येव पाठः । मदिरे मादनानुकूलदर्शनप्रकारशालिनी, भायते च ईक्षणे यस्यास्तत्संबुद्धौ । "मवि-
रावत् मत्तखञ्जनवत् आयते दीर्घे चक्षुषी यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः, ... मद्यम्'-" इति हरि-
दासटीका । 3 अन्योन्यं यत् प्रेम्णः संवर्धनं मिथ: आनुकूल्याचरणं तत्र तत्परयोरित्यर्थः ।
 
-
 
पाठा० -१ समवधीरित २ जहाति ३ सकलत्रिभुवन, ४ त्वत्परिचारिका ५ मदिरायतेक्षणा ६ गुणगणाकृष्ट.
७ अन्यवनिता. ८ अनुभवतो: ९ सकलस्यैव.