कादम्बरी /402
This page has not been fully proofread.
• महाश्वेता चन्द्रापीडयो: सान्ध्यविधिः ] पूर्वभागः ।
३६९
कोकिलविलोचनच्छविबभ्रूण चारुणयति सांध्ये भुवनमर्चिषि, यथाप्रधानमुन्मिपत्सु ग्रह-
ग्रामेषु, वनमहिषमलीमसवपुषि च मुषिततारकापथप्रथिम्नि कालिमानमातन्वति शार्वरे
तमसि, अतनुतिमिरतिरोहित हरिवतासु गहनतां यान्तीषु वैनराजिषु, रजनिजलजालबिन्दु-
जनितजडिनि बहलवनकुसुमपरिमलानुमितगमने चलितलता विटपगहने प्रवृत्ते च पवने,
निद्रानिभृतपतत्रिणि त्रियामामुखे महाश्वेता मन्दमन्दमुत्थाय भगवतीमुपास्य पश्चिमां संध्यां
कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद् ।
चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रस्रवणजलाञ्जलि मैवकीर्य कृतसंध्याप्रणामस्तस्मिद्वितीये शि-
लातले मृदुभिर्हतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्यां पुनस्तमेव मनसा महाश्वेतावृ-
त्तान्तमन्वभावयत् । आसीचास्य मनस्येवम् – 'अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः
03
कोकिलेति । कोकिला वनप्रियास्तेषां विलोचनानि नेत्राणि तेषां छविः कान्तिस्तद्वद्ववणि पिलानि । पुनः
केषु । ग्रहग्रामेषूडसमूहेषु यथाप्रधानं यथामुख्यमुन्मिषत्सु विकसत्सु । पुनः कस्मिन् । शार्वरे शर्वरीसंब-
न्धिनि तमस्यन्धकारे कालिमानं श्यामलिमानमातन्वति विस्तारयति सति । अथ तमो विशिष्टि - वनेति ।
वनस्यारण्यस्य यो महिषो रक्ताक्षस्तद्वन्मलीमसं वपुर्यस्य तत्तस्मिन् । अत एव मुषितस्तारकापथस्याकाशमार्गस्य
प्रथिमा विस्तारो येन तत्तस्मिन् । पुनः कासु । वनराजिष्वरण्यश्रेणीषु गहनतीमकलनीयतां यान्तीषु गच्छन्तीषु
सैत्सु । अतनु यत्तिमिरं तमस्तेन तिरोहिताच्छादिता हरितता नीलिमा यासु । पुनः कस्मिन् । पवने वायौ प्रवृत्ते
वहमाने च सति । अथ पवनस्य शीतत्वमन्दत्वसुगन्धित्वानि वर्णयितुमाह - रजनीति । रजन्येवानवरतप्रच-
लनरूपप्रवाहवत्त्वाज्जलजालं समूहस्तस्य बिन्दुभिः पृषतैरित्यर्थो वा जनितो जडिमा यस्य स तस्मिम् । बहलेति ।
बहलान्यविरलानि यानि वनकुसुमानि तेषां परिमलेनानुमितमनुमानविषयःकृतं गमनं यस्य स तस्मिन् । चलि-
तेति । चलितं कम्तिं लतोपयुक्ता विटपा वृक्षास्तेषां गहनं येन स तस्मिन् । अथ त्रियामामुखं विशेषय-
नाह - निद्रेति । निद्रा प्रमीला तया निभृता निश्चलाः पतत्रिणः पक्षिणो यस्मिन् । तदनन्तरं चन्द्रापीडो-
ऽप्युत्थाय सकुसुमं कुसुमैः सह वर्तमानं प्रस्रवणस्य निर्झरस्य जलाञ्जलिमवकीर्य विक्षिप्य । कृतेति । कृतो
विहितः संध्याप्रणामो येन स तस्मिन्मण्ड पिकास्थले द्वितीये तदङ्गीकृतादन्यस्मिन्शिलातले मृदुभिः सुकुमारैल-
तापल्लवैर्वल्लीप्रवालैः शय्यां शयनीयमकल्पयदकरोत् । उपविष्टश्चेति । तस्यां शिलायामुपविष्ट आसे-
दिवान्पुनस्तमेव पूर्वोक्तमेव महाश्वेतावृत्तान्तं मनसा चित्तेनान्वभावयत्पुनरचिन्तयत् । आसीश्चेति ।
अस्य चन्द्रापीडस्य मनसि चित्त एवमासीत् । एवंपदार्थमाह - अयमिति । अयं कुसुमायुधः कंदर्पः कष्टोऽ-
नर्थकृत् । अंथ कुसुमायुधं विशिष्टि - अप्रतीति । अप्रतीकारेणाप्रतिक्रियया दारुणो भीषणः । दुरिति ।
दुःखेन विषहः सोढुं शक्यो वेगो यस्य सः । यदिति हेत्वर्थे । अनेन कंदर्पेणाभिर्भूतोऽन्यानपेक्षितः कालक्रमो
टिप्प० -- 1 विक्षित एवं टीकाकार: । 'अर्चेिष विशेषयन्नाह' इति लिखन्नपि सतम्यन्तस्य अर्चिषो
विशेषणं बभ्रूणीयाह । अत एव 'बभ्रुणि' इत्येव पाठ: । कोकिललोचनच्छविरित्र बभ्रु पिङ्गलं तस्मिन्
सान्ध्ये अर्चिषि भुवनमरुणयति सतीति तदर्थः । प्रकाशकानुरोधेन टीकाकारशिरोमणिमनुसरन् 'बभ्रुणि'
इति ग्रन्थघातकं पाठमेव स्थापयामीति ग्लानिरात्मनि । 2 निविडतामिति सरलोर्थः । 3 सतीषु इत्युचि
तम् । 4 'रजनिजलबिन्दुजालजनितजडिनि' इत्येव पाठः । रजनिजलबिन्दुजालं तुषारकणसमूहस्तेन शीतले
इति तदर्थः । 5 चलितं कम्पितं लताविटपानां वल्लरीपल्लवानां गहनं समूहो येन तस्मिन्नित्यर्थ उचितः ।
अनपे-
6 हन्त चूर्णयामास ग्रन्थम् । अनेन ( कुसुमायुधेन ) अभिभूताः आक्रान्ताः महान्तोपि जनाः,
क्षितकालक्रमाः असोढसमयक्षेपाः इत्याद्यर्थ उचितः ।
पाठा० - १ ग्रहग्रामणीषु २ च लोचनमुषि ३ तिरोहित हरितासु; हरितभासु. ४ तरुराजिषु; तारवीषु; राजिषु..
५ वने प्रवृत्ते निद्रा. ६ अवकीर्य संध्यां प्रणनाम । कृत ७ पुनः पुनः ८ नामायम्.
D
४७ का०