This page has not been fully proofread.

३६८.
 
कादम्बरी ।
 
[ कथायाम्-
दुःखानि । तथा हि । कथमप्येक स्मिञ्जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः प्राणि-
नाम् । अतो नार्हस्यनिन्धमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगहनमवती.
र्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य
तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् ।
ॲत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इंव समुत्सृष्टदिवसव्यापारो रविरपि भगवा-
नधोमुखतामयासीत् । अथ क्षीणे दिवसे, परिणतप्रियङ्गुमञ्जरीरजोनिंभे पिञ्जरिम्गा रेंज्यमाने
विलम्बिनि नभ्रमण्डले, अविरलकुसुम्भकुसुमरसरक्तदुकूलकोमलेन चास्तात पेन मुध्यमानेषु
दिब्यु खेषु, चॅकोरनयनतारकाकान्तिना च पिङ्गलिना विलिप्यमाने तिरोहितनीलिम्नि व्योनि,
 
GAL
 
-
 
एतदेव विवृणोति - तथा हीति । प्राणिनां संसारवर्तिनां कथमपि महता कष्टेनैकस्मिञ्जन्मनि समागमः संब-
न्धः । जन्मान्तरसहस्राणि च यावद्विरहो वियोगः । प्रकृतमुपसंहरति – अत इति । अतो हेतोर निन्द्यं
रूपमात्मानं क्षेत्रज्ञं निन्दितुं गर्हितुं नार्हसि न योग्या भवसि । यतो धीराः सर्वमेवेदं दैवकृतं मन्यन्ते, न
खात्मकृतम्, एवं च धीरत्वेऽवलम्बिते नात्मानं निन्दन्तीत्यर्थः । अधीरत्वेऽनिष्ठतामाह - आपतन्तीति ।
अतिगहनमतिघोरं संसारपथं संसृतिमार्गमवतीर्णानां गृहीतावताराणामेते वृत्तान्ता उदन्ता आपद्रूपा आपत
व्यापद्यन्ते । लमा भवन्तीत्यर्थः । धीरत्वे इष्टमाह - धीरा इति । धीराः सत्त्विकाः पुरुषाः । हीति निश्चि-
तम् । आपदं कष्टं तरन्ति पार प्राप्नुवन्ति । इत्येवमिति । इति पूर्वोक्तप्रकारेणैवं विधैर पूर्व प्रतिपादितैरन्यैश्च
मृदुभिः सुकुमारपसान्त्वनैर्दृष्टान्तोपदर्शनैरतां संस्थाप्य स्वस्थी कृत्य पुनरपि द्वितीयवारमप्यञ्ज लिपुटोपनी तेज
निर्झर जलेनानिच्छन्तीमस्पृहयन्तीमपि बलाद्धठात्प्रक्षालितमुखी धौतवक्रामकारयव्यधापयत् ।
 
अत्रान्तरे घेति । अस्मिन्नवसरे । श्रुतेति । श्रुत आकर्णितो यो महाश्वेताया वृत्तान्त उदन्तस्तेनोपजातः
समुत्पन्नः शोको यस्यैतादृश इव समुत्सृष्ट उज्झितो दिवसव्यापारो येनैवंविधो भगवान्रविरपि सहस्रांशुरप्यधो-
मुखतामया खतामयासीदगात् । अथेति । त्रियामाभुखे सा महाश्वेता मन्दमन्दं शनैः शनैरुत्थाय पश्चिमां भग-
बतीं संध्यामुपास्योपासनां कृत्वा कमण्डलुजलेन कृत्वा कुण्डिकानीरेण प्रक्षालितचरणा धौताङ्घिर्वल्कलशयनीये
बल्कलशय्यायां सखेदमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा निषसाद तस्थाविति दूरेणान्वयः । कस्मिन्सति । दिवसे
वासरे क्षीणे सति । पुनः कस्मिन् । दिक्प्रान्ते विलम्बिनि विलम्बायमाने ब्रघ्नमण्डले सूर्यबिम्बे सति । कीदृशे ।
परिणतेति । परिणता पक्का या प्रियकुमञ्जरी फलिनीवल्लरी तस्या रजः परागस्तेर्न निभे सदृशे । पिञ्ज-
रिम्णेति । पीतरक्तस्तु पिजरस्तस्य भावः पिजरिमा तेन रज्यमाने पिञ्जरतां नीयमाने । पुनः केषु सत्सु ।
अस्तीतपेन दिव्युखेषु मुच्यमानेषु सत्सु । अस्तातपं विशेषयन्नाह – अविरलेति । अविरलानि निविडानि
कुसुम्भानां कमलोत्तराणां कुसुमानि तेषां रसस्तेन रक्तं यहुकूलं तद्वत्कोमलेन मृदुना । पुनः कस्मिन्सति
ध्योऽयाकाशे सति । अथ व्योम विशेषयमाह-विलिप्येति । पिङ्गलिना पिञ्जरिम्णा विलिप्यमाने विले-
पनविषयी क्रियमाणे । कीदृशेन पिङ्गलिना । चकोरो विषसूचकस्तस्य नयनयोस्तारका तद्वतकान्तिर्यस्मिन्स
तेन । तिरोहितेति । तिरोहित आच्छादितो नीलिमा यस्मिन्निति व्योमविशेषणम् । पुनः कस्मिन्स ति
सांध्ये सायंकालसंबन्धिन्यचिषि दीधितौ भुवनं विष्टपमरुणयति रक्ततां नयति सति । अर्चिषं विशेषयन्नाह-
टिप्प० -1 आत्मानं स्वम् इति सरलोऽर्थः । 2 सांसारिकजनानाम् । 3 सर्वतः प्रकाशकरण रूपः ।
4 सूर्यबिम्मे विलम्बिनि सति, इत्येवान्वयः प्रसिद्धः समुचितश्च । 5 सूर्यस्य न रज उपमानम्, अपि
'रजोनिभेन' इति पाठः, ततश्च प्रियङ्गुरजःसहशेन पिअरिम्णा ( अर्थात् पीतेन वर्णेन ) सूर्यमण्डले राज्य-
माने सतीत्यर्थः । 6 अस्तकालि कसूर्यातपेन ।
 
पाठा०-१ एकजन्मसमागमो बहूनि जन्मान्तरसहस्राणि तु विग्रहः २ अत्रान्तरे महा. ३ निभेन. ४ विराज्य-
मानेsपि ५ अलिकुसुम ६ विमुच्यमानेषु. ७ चकोरतारकाकारकान्तिना.