कादम्बरी /400
This page has not been fully proofread.
महाश्वेतायाः सान्त्वनम् ]
पूर्वभागः ।
तवान् । अर्जुनं चाश्वमेधतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृत-
प्राणम्, उलूपी नागकन्यका सोच्छ्वासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामा खपाव-
कपरिप्लष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्बासुदेवो दुर्लभा-
मसून्प्रापितवान् । उज्जयिन्यांच संदीपेंनिद्विजतनयमन्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः
स एवानीतवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि । किं' क्रियते । किं वा लभ्यते ।
प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्वसितुमपि ।
अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । न क्षमते दीर्घकालमव्याजरम-
णीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च
अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं बभ्रुवाहननाम्नात्मजेन सुतेन समरशिरसि
सङ्क्रामशिरसि शरेण बाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुनं पार्थम् । नामेति कोमलामन्त्रणे । उलू
पीनाम्नी नागकन्यका सोच्छ्वासं सजीवितमकरोदसृजत् । अभीति । अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपावकः
शस्त्राग्निस्तेन परिष्लुष्टं दग्धम् । उदति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् । ईदृशमभि-
मन्युतनयमर्जुनपौत्रं परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधो
भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् । उज्जयिन्यां चेति । उज्जयिन्यां
विशालायां संदीप निनाम्नो द्विजस्य तनयं सूतमन्तकपुरात्संयमिन्या अपहृत्यापहरणं कृत्वा त्रिभुवनेन वन्दितौ
नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्वासुदेव आनीतवानानयनं कृतवान् । अत्रापीति । कथंचित्प्रका-
रेणैवमेव पुनर्जीवनवजीवनं भविष्यति । अनेनोत्कटकोटि: प्रदर्शिता, संभावनारूपत्वात् । अनुत्कटकोटावत्र-
तिकार्यत्वं स्वस्याह - तथापीति । अपि अनास्थायाम् । तथापि तव शोकमात्रेण किं जीवितं क्रियते किम-
थवा लभ्यते प्राप्यते । तत्र हेतुमाह -- प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति । नियतिर्भा-
व्यर्थः, अदृष्टविशेषो ब्रह्मलिखितपद्धतिर्वा बलवती वीर्यवती । उपसंहरति - आत्मेच्छेति । आत्मेच्छया
स्वेच्छयोच्छ्वसितुमपि न शक्यम् । उच्छ्वासः स्वायत्तः सोऽपि स्वेच्छया कर्तुं न शक्यते । किमुतान्यदित्यर्थः ।
एवं सति सर्वं देवाधीनं प्रेममैत्र्यादिकम् । तद्विहीनस्य तन्नास्त्येवेत्याह - अतीति । अस्यैकान्तनिष्ठुरस्याय-
न्तनिर्दयस्य दैवहतकस्य विलसितानि चेष्टितान्यतिपिशुनान्यतिदुःखकारीणि भवन्ति । अव्याजेति । अन्या-
जं निष्कपटं तेन रमणीयं मनोहरं प्रेम दीर्घकालं चिरकालं न क्षमते न सहते । भवतु । तर्हि दैववशादेवानव-
रतं जन्मान्तरपर्यन्तं क्षेम कुतो न निर्वहतीत्यत आह - प्रायेणेति । प्रायेण बाहुल्येन निसर्गत एव स्वभा-
वत एवानायतस्वभावभकुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - कार्येण कारणानुमा-
नम्, कार्य च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावो विसृतिस्वभाव; क्षणभङ्गुरत्वं च दुःखस्य
स्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभरत्वमपि । तत्कारणयोरध्येवमेवेति । यावत्पर्यन्तं दैवं ताव-
त्पर्यन्तमेव येन केन चिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुबन्धादयः । एतद्विपर्यये प्रीत्याद्यभावः ।
टिप्प० -1 अधिगतविधयो राम-कृष्णयोरनुरोधेन गुरुः सान्दीपतिः पञ्चजनापहृतं निजपुत्रं गुरुदक्षि-
णारूपेणेयेष । भगवान्वासुदेवस्तु समुद्राभ्यन्तरे पञ्चजन विनाशोत्तरमप्यलब्धं गुरुतनयं यमपुरादाहृत्य गु.
रुदक्षिणी चकारेति पुराणकथा । 2 अब्याजम् अत एव रमणीयमित्यर्थं उचितः । 3 अनायतस्वभावालि
( भवीर्षाणि, संक्षिप्तानीत्यर्थः) च तानि भनुराणि नश्वराणि ।
पाठा० •१ अनुसारिणम् २ उलूपी ३ परिक्षितम् ४ निर्गतम्. ५ भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभि-
योजितबान्. ६ सांदीपनि ७ पुरात्रिभुवनवन्दितचरणः स एवापहृतवान्. ८ कथंत्चिदेवमेवेदं तवापि भविष्यति.
९ किमुपालभ्यते १० क्षमन्ते.