कादम्बरी /40
This page has not been fully proofread.
शुद्रकवर्णनम् ]
पूर्वभागः ।
सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः ।
यशोंऽशुशुक्कीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत ॥ १९ ॥
द्विजेन तेनाक्षेतकण्ठकौठ्यया महामनोमोहमलीमसान्धया ।
अलब्ध वैदग्ध्य विलास मुग्धया धिया निवद्वेयमतिद्वयी कथा ॥ २० ॥
आसीदशेषनरपति शिरः समभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामे-
खलाया भुवो भर्ता, प्रतापानुरागावनत समस्तसामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रधर
सरस्वतीति । ततचित्रभानोर्बाण इति बाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किं विशिष्टात्ततः ।
सरस्वतीति । सरस्वत्या भारत्याः पाणिसरोजसंपुटेन हस्तकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोज्छितं होमादि-
कर्मसंबन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्खेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति ।
यशसः कीर्तेरंशवो दीप्तयस्तैः शुक्कीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स
तथा तस्मात् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ १९ ॥
।
द्विजेनेति । इदानीं बाणः कथां चिकीर्षुरतितीक्ष्णबुद्धिरम्यहंकारं निराकुर्वन्नाह - तेनेति । तेन बाणेन
द्विजेनेयं कादम्बरीरूपा कथा धिया बुद्ध्यैव निबद्धा ग्रथिता । पूर्वं बुद्ध्यारूढीकृत्य पश्चालिखितेति भावः ।
समुद्रसमकादम्बरी कथोपबन्धने धियः सामर्थ्य ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्द्यमे
वारोपयति — अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्यं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि
कुण्ठिता किमुत सभायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता
तेन मलीमसा मलिना चासावन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैदग्ध्य-
विलासश्चातुर्यलीला तेन मुग्धाऽप्रगल्भा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषणबला-
बुद्धेरतितीक्ष्णत्वं फलितम् । द्वयीं बृहत्कथां वासवदत्तां चातिक्रान्तेत्यर्थः ॥ २० ॥
॥' दशरूपकेऽपि-
' प्रसिद्धो वापि वर्ण्यः स्यान्महीपालोऽथवा ' ...
'प्रख्यातोत्पाद्य मिश्रत्व भेदात्रेधापि तन्त्रिधा । प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् । मिश्र च संकरात
इत्यादेरुक्तभेदानां काव्यनाटकचम्पूनां मध्ये 'गद्यपद्यमयी चम्पूर्द्विधा श्लेषवती च या । राजवर्णनमादौ
स्यान्नगरीवर्णनं ततः । तया चामुकमन्यस्मिन्न तु तन्नृषु कुत्रचित् ॥' यथा - 'शूलसंबन्धो देवतायतनेषु
न नृषु' इति नलचम्प्वाम् । तथात्रैवाग्रे 'चित्रकर्मसु वर्णसंकरो न मनुष्येषु' इत्यादि । चम्पैलक्षणयुक्तां
कादम्बरीसंज्ञिकां कथामारचयति - आसीदिति । शुद्रको नाम राजासीदिति दूरेणान्वयः । अथ
राजानं विशेषयन्नाह — अशेषेति । अशेषाः समग्रा ये नरपतयो राजानस्तेषां शिरांस्युत्तमाङ्गानि
तैः समभ्यर्चितं सादरतया गृहीतं शासनमाज्ञा यस्य स तथा । सर्वेषामाज्ञापको न त्वाज्ञाकरः । अतः
एवापरो भिन्नः पाकशासन इव । इन्द्रसाम्यम् । चतुरिति । चत्वारश्च त उदद्धयश्च चतुरुदधयस्तेषां माला
पङ्क्तिः सैव मेखलावधिर्यस्यास्तादृश्या भुवः पृथिव्या भर्ता नायकः । प्रताप इति । प्रतापः कोशदण्डजं
तेजः, अनुरागः स्नेहः ताभ्याभवनतं नम्रीभूतं समस्तं समग्र सामन्तचक्रं सामन्तमण्डलं स्वदेशपर्यन्तवर्ति
राजचक्रं यस्य तथा । अन्यदपि लोहचक्रमग्निप्रतापादवनतं भवतीति ध्यन्यते । चक्रेति । चक्रवर्ती सार्व-
..........
टिप्प० - 1 द्वयं स्वस्माद् द्वितीयमतिक्रान्ता, अद्वितीयेति वास्तवोऽर्थः । 2 सर्वाङ्गसंपूर्णोयं भ्रमष्टी-
काकृन्महाभागस्य । साहित्यलक्षणग्रन्थेषु कादम्बरी गद्यकाव्यं 'कथा' परिगण्यते, न गद्यपद्यमयी चम्पूः ।
(आदिगतपद्यान्यासाद्य विस्मृतवान्पद्यां विद्याविकल: सोयम् । कथालक्षणं प्रोक्तं तत्रैव - 'क्वचिदन भवे.
दार्या कचिद्रावके । आदौ पचैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥' इति ।