This page has not been fully proofread.

३६६
 
कादम्बरी ।
 
[ कथायाम् -
 
भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्प: ?
कथं च तादृशानाम प्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमा-
स्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः ? अतो निःसंशयमसावुपजात-
कारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थ मे वैनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां
प्रभावः । बहुप्रकाराश्च संसारँवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अ-
नेकविधाध कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाश-
येत जीवितप्रदानाहते। न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरैप्रवृत्त एष पन्थाः । तथा
हि । निश्वावसुना गन्धर्वरराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यकामाशीविषविलुप्तजीवितां
स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुनाम स्वायुषोऽर्धेन योजि-
नास्त्येवेति भावः । प्राप्तव्यमिष्टं कथं स्यादित्याह - भगवत्येति । भगवत्या त्वया ततस्तस्मान्महापुरुषात्पुनः
स्वयमेवात्मनैव समागमः कुमारेण सह संगतिस्तस्प्रतिपादिका सरस्वती वाणी समाकर्णिता श्रुता । तथापि
तदर्थं न निश्चिनोमीत्यत आह - अन्विति । अनुभवेऽनुभूते वस्तुनि को विकल्पः कः संदेहः । अत्रो-
पपादकमाह - कथं चेति । तादृशानां न विद्यते प्राकृता इतरजनसाधारणाकृतिराकारो येषामेवंविधानाम-
वितथगिरां यथार्थवचर: महात्मनां महापुरुषाणां गरीयसापि कारणेनोत्कृष्टेनापि हेतुना गिरि वाण्यां कथं
वैतथ्यमनृतत्वमापदं स्थानं कुर्यात् । नन्वियं सरस्वती वितथैव, मृतकुमारेण सह समागमस्य बाधितला-
दियत आह --- उपरतेति । उपरतेन मृतेन सह जीवन्त्याः कीदृशी समागतिः संगतिः । तर्हि सरस्वती वित-
थैवेत्यत आह --अत इति । अतः कारणात् । निःसंशयं निश्चितमुपजातं समुत्पन्नं कारुण्यं घृणा यस्मिन्नेवंविधो
महात्मासौ पुरुषः पुनः प्रत्युज्जीवनार्थं पुनःसजीकरणार्थमेवैनं पुण्डरीकमुत्क्षिप्योत्पाट्य सुरलोकं देवलोकं
नीतवान्प्रापितवान् । अत्रानुकूलमाह - अचिन्त्य इति । हीति निश्चितम् । महात्मनां महानुभावानी
प्रभावो महिमाचिन्त्योऽनाकलनीयः । नन्वश्रुतपूर्वमिदं कथं स्वादित्यत आह - बह्निति । संसारवृत्तयः संसृतेः
प्रवृत्तयो बहुप्रकारा अनेक भेद भिन्नाश्चेत्यर्थः । एतादृशं मम भाग्यं व स्यादित्याह
- चित्रं चेति । दैवं भाग्यं
चित्रं विविधप्रकारम् । नैनु सर्वेषामेकविधम् । ननु तस्य कुमारप्रत्युज्जीवने कुतः सामर्थ्यमित्यत आह --- आध
येति । आश्चर्यमद्भुतं तस्यातिशय आधिक्यं तेन युक्ताः सहितास्तपः सिद्धयो भवन्ति । ननु पुण्डरीकस्यैतादृशं
कर्म कथं स्यात् येन प्रत्युज्जीवनं स्यादित्याह - अनेकेति । कर्मणां पूर्वोपार्जित शुभाशुभानां शक्तयः साम-
र्थ्यान्यने कविधा असंख्य प्रकाराः । युक्त्यन्तरं प्रदर्शय शाह-अपि चेति । अपि च युक्त्यन्तरे । सुनिपुणं सुदक्षं
यथा स्यात्तथा विमृशद्भिर्विचार यद्भिस्तदपहरणे मृतकुमारापहरणे जीवितप्रदानादृतेऽन्यत्किमिव कारणं निमि-
तमाशयत आशङ्काविषयी क्रियते । न च सर्वथा मृतस्य पुनर्जीवनं क्कापि दृष्टमियत आह - न चेति । भगवत्या
त्वयेदं प्रत्युज्जीवनमसंभाव्यमघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । अस्य प्राचीनत्वं प्रदर्शय नाह
चिरमिति । एष प्रत्युज्जीवनलक्षणः पन्था मार्गश्चिरप्रवृत्तो बहुकालीनः । तदेव दर्शयति - तथा हीति ।
विश्वावसुनाम्ना गन्धर्वराजेन करणभूतेन मेनकायामुत्पन्नां प्रादुर्भूतां प्रमद्वरेति नाम्नीं कन्यकामाशीविषेण सर्पेण
विलुप्तं ध्वस्तं जीवितं श्वसितं यस्या एवंविधां स्थूलकेशमुनेराश्रमे मठे भार्गवस्य भृगुवंशोत्पन्नस्य च्यवननाम्नो
मुनेर्नता प्रपौत्रः प्रमतेस्तनयः पुत्रो मुनिकुमारको रुरुः खायुषः खजीवितस्यार्धेन योजितवान्संबन्धितवान् ।
 
"
 
TEYZACK
 
टिप्प० -1 पुनः प्राणाssधानार्थमिति व्याख्यानमुचितम् । 2 'न' 'नतु' वा इति स्यात् । 3 पौन
इत्येवावगन्तव्यम् ।
 
पाठा० - १ स्वयमेव तत्पुनः समागमवचः श्रुतम् २ तम ३ प्रवृत्तयः, प्रकृतयः ४ तज्जीवित ५ सर्वथा
घिर. ६ भार्गवस्य नप्ता०