This page has not been fully proofread.

चन्द्रापीडस्य महाश्वेतासान्त्वनम् ] पूर्वभागः ।
 
खलिदानादिना बहुपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभयस्यापि । स्मर तावत्प्रियामेकपन
रति भगवति भर्तरि मकरकेतौ सकलाबलाज हृदयहारिणि हरे हुतभुग्दग्धेऽप्यविरहिताम-
सुभिः । पृथां च वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजिससकलराजकमौलिकुसुमवासि
ताशेषपापीठे पत्यावखिलभुवनबलिभागभुजि पाण्डौ किंदममुनिशापानलेन्धनतामुपगते-
ऽध्यपरित्यक्तजीविताम् । उत्तरां च विराटदुहितरं बालां बालशशिनीव नेयनानन्दुहेती विन-
यवति विकान्ते च पञ्चत्वमभिमन्या वागतेऽपि घृतदेहाम्। 'दुःशलां च धृतराष्ट्रदुहितरं भ्रातृश-
तोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धितम हिनि सिन्धुराजे जयद्रथेऽर्जुनेन लोकान्तरमु..
पनीतेऽप्यकृतप्राण परित्यागाम् । अन्याश्च रक्षः सुरासुरमुनिमनुज सिद्धगन्धर्वकन्यका भर्तृरहिताः
श्रूयन्ते सहस्रशो विधृतजीविताः । प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात्,
 
त्यनेकामुपकृतिं कुरुते । मृतस्तूभयस्यापि स्वस्य परस्य च न किमप्युपकरोति । दृष्टान्तद्वारा एनमर्थं दृढीकुर्न-
नाह - स्मरेति । तावदादौ सकलः समग्रो योऽबलाजनः स्त्रीलोकस्तस्य हृदयहारिणि चित्तापहारिणि भग-
वति माहात्म्यवति भर्तरि प्राणवल्लभे मकरकेतौ श्रीमदने हरस्य महादेवस्य यो हुतभुनेत्राग्निस्तेन दग्घे भ
स्मीभूते सत्यपि, एक एव पतिर्यस्यारतामेकपत्नीं प्रियां वल्लभां रतिमसुभिः प्राणैरविरहितां संयुक्तां स्मर स्मृति-
गोचरीकुरु । यथा तथा प्राणा नोज्झिताः, स्वभर्तुः, कृत्यं च कृतम्, तथा त्वयापि विधेयमिति भावः । अ
न्यासामपि निदर्शनद्वारा पूर्वोत्तमर्थं दृढीकुर्वाह - पृथामिति । पाण्डौ भर्तरि किंदैम इत्यभिधया प्रसिद्धो
यो मुनिस्तस्य शाप एवानलो वहिस्तस्मिन्निन्धनता मिध्मतामुपगतेऽपि प्राप्तेऽप्यपरित्यक्तजी वितामनुज्शितप्राणां
वार्ष्णेयी मन्धकवृष्णिकुलोत्पन्नां शूरसेनस्य राज्ञः सुतां पुत्रीं पृथां कुन्तीम् । स्मरेत्यस्य सर्वत्रापि संबन्धः । अथ
भर्तारं विशेषयन्नाह – सावज्ञयेति । सावज्ञयैवानिच्छ्यैन विजितं स्वायत्तीकृतं यत्सकलं समप्रं राज्ञां समूहो
राजकं तस्य मौलयः शिरांसि तेषां कुसुमानि पुष्पाणि तैर्वासितं भावितमशेषं पादपीठं समप्रपदासनं यस्य स
तस्मिन् । अखिलेति । अखिलं समयं यद्भुवनं विश्वं तस्य यो बलिभागो भागधेयस्तं भुनक्तीति स तस्मिन् ।
अभिरूपे पण्डिते । तथा बालशशिनीव नवोदितचन्द्र इव नयनानन्दहेतौ नेत्राहादनिमित्त विनयवति मर्या,
दावति विकान्ते रेऽभिमन्यावर्जुनसुते पञ्चत्वमागतेऽपि प्राप्तेऽपि धृतो देहो ययैवंभूतां बालामप्राप्तयौवनां
विराटराज्ञो दुहितरं पुत्रीमुत्तरामुत्तरानाम्नीं स्मरेति संबन्धः । तथातिमनोहरेत्यभिरामे । हरेणेश्वरेण वरप्रदानेन
वर्धितो वृद्धिं नीतो महिमा माहात्म्यं यस्य स तस्मिन् । सिन्धुराजे सिन्धुदेशनाथे जयप्रथाभिधानेऽर्जुनेन पार्थेन
लोकान्तरं भवान्तरमुपनीते प्रापितेऽपि धृतराष्ट्रस्य राज्ञो दुहितरं सुतां भ्रातॄणां यच्छतं तस्योत्सङ्गः क्रोडस्तेन
लालितां पालितामकृतप्राणपरित्यागामेवंविधां दुःशलां स्मरेति संबन्धः । अभुमेवार्थं पुनर्द्रढयन्नाह -- अन्याचे
ति । रक्षांसि राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मनुष्याः, सिद्धा विद्यासिद्धाः, ग
न्धर्वा देवगायनाः, एतेषां कन्यकाः पुत्र्यो भर्तृरहिताः सत्यो विधुतजीविता अकृतप्राण परित्यागा अन्याः पूर्वोत
व्यतिरिक्ताः सहस्रशः श्रूयन्त आकर्ण्यन्ते । यदनुमरणेनापि न प्राप्यते तदपीष्टं त्वया प्राप्तव्यमेवेत्याह-
प्रोन्मुच्येतापीति । तदा जीवितं प्रोन्मुच्येत त्यज्येत यद्यस्य मृतस्य संदिग्धोऽपि समागमः स्यात् । तच्च
 
टिप्प० - 1 मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किंदमो नाम मुनिर्मृगयार्थिना पाण्डुना मृग-
बुद्ध्या निहतः शशाप-'रममाणं मां संहृतवांस्त्वमपि रममाण एव मरिष्यसि । ततः कदाचिद्वसन्तप्रभावा-
दुद्दीसमदनः पाण्डुमन रमयन्ममार । मायामनुस्मृतायामपि जीवन्ती कुन्ती युधिष्ठिरादीन् जनयामासेति
महाभारतम् । (आ. प.) 2 सावज्ञम् (अवज्ञया सहितम्, सहेलमित्यर्थः) जितमित्यर्थ उचितः ।
3 वास्तवे स्वपपाठ एवायम् । 'वासितपादपीठे' इत्येव पाठः । 4 सुन्दरे इत्यर्थ उचितः ।
 
पाठा
 
-१ मकरध्वजे २ हरनयनद्रुतभुजा दग्धे; हरहुंकारहुतभुजा दग्धे ३ तथा ४ सावशावजित ५ वासि-
तपाप ६ वलयभुजि. ७ उपागते. ८ अपरियुक्त ९ जननयना १० उपगते. ११ दुःशीलाम्. १२ बह्वयः.
१३ विधुर, १४ संदिग्धो यदि समागम: स्यात्.