This page has not been fully proofread.

३६४
 
कादम्बरी ।
 
[ कथायाम्-
,
 
-यसि केशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम तैदतिनिष्फलम् । अविद्वजनाचरित
एष मार्ग: । मोहविलसितमेतत् अज्ञानपद्धतिरियम्, रभसाचरितमिदम्, क्षुद्रदृष्टिरेषा,
अतिप्रमादोऽयम्, मौर्य स्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः
परित्यज्यन्ते । स्वयं चेन्न जति न परित्याव्याः । अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरि.
त्यागोऽयम् । असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु न कमपि गुणमावहति । नँ
तावत्तस्यायं प्रत्युज्जीवनोपायः, ने धर्मोपचयकारणम्, न शुभलोकोपार्जन हेतुः, न निर्रयपा-
तप्रतीकारः, न दर्शनोपायः, न परस्परसमागमनिमित्तम् । अभ्यामेव स्वकर्मफल पाकोपचि-
तामसाववशो नीयते भूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जला-

 
0
 
A
 
निक्षिप्यते । एतेन प्राणप्रियवियोग आत्मपरित्यागात्तस्यात्मनो गरिष्ठक्लेशे परिक्षेपो महीयानिति ध्वनितम् ।
यदेतदिति । नामेति कोमलामन्त्रणे । यदेतदनुमरणमन्वारोहणं तदतिनिष्फलं निरर्थंकम् । यतः कुमारः
प्रियः नतु विहितः पतिर्येनान्वारोहणं किं तु मृतानुमरणमात्रं तदति निष्प्रयोजनमिति भावः । अथ च निष्फ-
लत्वं प्रदर्शयन्नाह – अविद्वज्जनेति । एषोऽन्वारोहलक्षणो मार्गः पन्था अविद्वज्जना अपण्डितलोकास्तैराचरितः
सेवितः । एतदिति । पूर्वोक्तं मोहविलसितमज्ञानविजृम्भितम् । अज्ञानेति । इयमन्चारोहणे प्रवृत्ति -
रज्ञानपद्धतिरज्ञानमार्गः । रभसेति । इदमन्वारोहणं रभसाचरितम विचारपूर्वकमा चरितम् । क्षुद्रेति ।
एषाम्नारोहणलक्षणा प्रवृत्तिः क्षुद्रास्तुच्छबुद्धयस्तेषां दृष्टिर्ज्ञानम् अतीति । अयमनुमरणलक्षणोऽतिप्रमा-
दोऽतिशयेनानवधानता । मौर्यमिति । इदं पूर्वोक्तं मौख्र्यस्खलितं विहितच्युतिः । यत्तदोर्नित्याभिसंब-
न्धादाह - यदिति । यत्पितरि ताते, भ्रातरि सहोदरे, सुहृदि मित्रे, भर्तरि प्राणनाथे वोपरते मृते सति
प्राणाः परित्यज्यन्ते परिमुच्यन्त इति कर्मकर्मुक्तिः । तस्या लक्षणम् – 'यत्र कर्मैव कर्तृत्वं याति कर्ता तु
नोच्यते । सुकरैः स्वैर्गुणैर्योगात्कर्मकर्तेति तद्विदुः' इति । स्वयमिति । चेयदि स्वयं न जहति न परित्यजन्ति
तदा प्राणा न परित्याज्याः । बलान्न निष्कासनीया इत्यर्थः । किमर्थं तर्हि लोकानां मरणे प्रवृत्तिरित्यत आह -
अत्र हीति । ही।ते निश्चये । अस्मिन्ननुमरणे विचार्यमाणे विचारणाविषयीक्रियमाणेऽयं प्राणपरित्यागः स्वार्थ
एवात्मीयँकृत्यमेव । तत्र हेतुमाह - असह्येति । आत्मनो जीवस्थ न सोढुमशक्या सह्या या शोकवेदना शुग्व्य-
था तस्याः प्रतीकारो निवृत्त्युपायरतस्य भावस्तत्त्वं तस्मात् । उपेति । उपरतस्य मृतस्य तु न कमपि गुणं हित-
मावहत्यादधाति । एतदर्थं स्पष्टयन्नाह - न तावदित्ति । तावदादौ तस्योपरतस्य प्रत्युज्जीवनोपायः पुनः
प्राणधारणप्रतिक्रिया न भवति । नेति । धर्मस्य पुण्यस्योपचयः पुष्टिस्तस्य कारणं निमित्तं न भवति । नेति ।
शुभलोकस्य स्वर्गलोकस्योपार्जनमर्जनं तस्य हेतुर्निदानम् । निरयेति । निरये दुर्गतौ पातः पतनं तस्य प्रतीकारः
प्रतिक्रिया न । नेति । दर्शनस्यावलोकनस्याप्युपायो न । नेति । परस्परमन्योन्यं यः समागमः संबन्धस्तस्य नि-
मित्तं कारणं न भवति । तत्र हेतुमाह - अन्यामिति । असौ मृतोऽवशः पराधीनः स्वस्य कर्मणोः स्वकृत-
पापपुण्ययोर्यः फलपाकस्तेनोपचितां पुष्टामन्यामेव कर्ममूमिं नीयते प्राप्यते । अन्यदप्यनुमरणेनानिष्टमाह - अ
साविति । असौ पूर्वं मृत आत्मघातिनोऽनुमृतस्यैनसा पापेन केवलं संयुज्यते संयुक्तो भवति । अनुमरणा-
भावे गुणानाह – जीवंस्त्विति । जीवञ्श्वसनुपरतस्य मृतस्यात्मनो जीवस्य जलाञ्जलिदानादिना बहुपकरो-
टिप्प० -1 अविचारोयम् 'अनायासेन परित्यज्यते' इत्यादिना दुःखिजनकर्तृकस्त्याग एवोपक्रान्तः ।
तथा च कर्मणि प्रत्यये एवोचिता संगतिः न तु कर्मकर्तरि, तत्र प्राणानां स्वयं कर्तृत्वात् । 2 स्वार्थ :
स्वनिमित्त एव, इति व्याख्योचिता ।
 
www..comm
 
.
 
पाठा० - १ अपि निष्फलम् २ कुदृष्टि: ३ प्रेम. ४ ते ५ असह्यवेदना, ६ आपतित: ७ न तस्यायम्. ८ योगः,
६ नच. १० नरकपतन. ११ फलपरिपाकोपचिताम्; फलपाकोपनीताम्. १२ कर्मभूमिम् १३ आत्मघाती,