कादम्बरी /396
This page has not been fully proofread.
चन्द्रापीडस्य महाश्वेतासान्त्वनम् ]
पूर्वभागः ।
.9
गौरवोऽभूत् तदानीं तु तेनापरेण दुर्शितसद्भावेन स्ववृत्तान्तकथनेन तथा च कृतज्ञतया हृत-
हृदयः सुतरामारोपितप्रीतिरभवत् । आर्द्रीकृतहृदयश्च शनैः शनैरेनामभाषत – 'भगवति,
क्लेशमी रुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमा-
त्रेण नेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमा चेष्टि -
तम् येन रोदिषि । तदर्थमाजन्मतः प्रभृति समुचित्तपरिचयः प्रेयानसंस्तुत इन परित्यक्तो
१
बान्धवजनः । संनिहिता अपि तृणावशयावधीरिता विषयाः । मुक्तान्यतिशयितशुनासीर-
समृद्धीन्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमैनुचितैः संक्लेशरुपनीता
तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितरूपसि महत्यात्मा । वनिताजनदुष्करमपि कृतमरण्या-
वस्थानम् । अपि चानायासेनैवात्मा दुःखाभिभूतैः परित्यज्यते । महीयसा न तु यत्नेन गरी-
1
श्रिंतं गौरवं यस्मिन्नेवंविधश्चन्द्रापीडोऽभूत । तदानीं विति । तदानीं तस्मिन्कालेऽपरेण दर्शितः प्रकटितः
सद्भावः स्वभावो येनैवंविधेन स्ववृत्तान्तकथनेन निजोदन्तनिषेदनेन तथा च कृतज्ञतया कृतवेत्तृतया च हृतं
हृदयं चित्तं यस्य स सुतरामत्यर्थमारोपिता स्थापिता प्रीतिर्यस्या मे विधश्चन्द्रा पीडोऽभवदासीत् । आति ।
आकृतं हृदयं यस्य स शनैः शनैर्मन्दमन्दमेनां महाश्वेतामभावतातोचत । तदेवाह - भगवतीति । हे
भगवति हे स्वामिनि, अन्यो लोकः क्लेशभीरुरकृतज्ञः सुखार्थ य आसङ्गः रूयादीनामभिषास्तत्र लुब्धो लिप्सुः
स्नेहसदृशं प्रीतियोग्यं कर्म तत्सुखेन सुखं तदुःखेन दुःखमनुष्ठातुं विधातुमशक्तोऽसमर्थो निष्फलेन निष्प्रयोजने-
नाश्रुपातमात्रेण स्नेहं प्रीतिमुपदर्शयन्बाह्यवृत्त्या प्रकाशयन्रोदिति रोदनं करोति । लोकेभ्यस्तस्या वैपरीत्यं प्रद-
शेयजाह - त्वया त्विति । त्वयां भवत्या कर्मणैव कर्तव्यरूपेणैव सर्व समग्रमाचरन्त्या कुर्वन्त्या प्रेमोचितं
स्नेहयोग्यं किमिव नाचेष्टितम् । अपि तु सर्वमेव विहितमिति भावः । येन कारणेन त्वं रोदिष्यश्रुपातं करोषि ।
तदर्थ पुण्डरीकार्थमाजन्मतः प्रभृति जन्म मर्यादीकृत्य समुचि॑ितो योग्यः परिचयः संगतिर्यस्यैवंविधः प्रेयानति-
प्रियोऽसंस्तुत इवास॑स्तुतोऽपरिचितस्तद्वदिव बान्धवजनः स्वजनवर्गः परित्यक्त उज्झितः । संनिहितेति ।
संनिहिता अपि समीपवर्तिनोऽपि तृणवद्यावज्ञावगणना तथा विषया इन्द्रियार्था अवधीरिता अवगणिताः ।
अतीति । अतिशयिता तिरस्कृता शुनासीरस्येन्द्रस्य समृद्धिः संपद्यैरेवंविधान्यैश्वर्यसुखानि विभवसौख्या नि
मुक्तानि त्यक्तानि । मृणालिनीति । अतितनीयस्यप्यतिकृशापि तनुः शरीरमनुचितैरयोग्यैः संक्लेशव्रतग्रह-
णरूपैर्नितरामत्यर्थं तनिमानं कृशत्वमुपनीता प्रापिता । केव । मृणालिनीव कमलिनीव । गृहीतेति । गृहीतं
स्वीकृतं ब्रह्मचर्यं ब्रह्मव्रतम् । आयोजितेति । महति गरिष्ठे तपस्यात्मा आयोजितः स्थापितः । वनितेति ।
अत्रापिशब्दो भिन्नक्रमः । तेन वनिताजनस्य स्नौजनस्य दुष्करमैपि दुःसाध्यमप्यरण्यावस्थानं कृतं विहितम् ।
अनेति । दुःखाभिभूतैरनायासेनैव परिश्रममन्त रेणैवात्मा परित्यज्यते । शरीरत्यागः क्रियत इति भावः ।
न त्विति । तु पुनरर्थकः । न केवलं परं महीयसा गरिष्ठेन यत्नेन प्रयासेन गरीयसि महीयसि क्लेशे पूर्वोक्तखरूपे
टिप्प० - 1 'समुपचितपरिचयः' इत्येव पाठः । समुपचितो वृद्धि प्राप्त इति तदर्थः । 2 टीकाकारट-
तोऽयमपपाठः । 'वनिताजनदुष्करमप्यङ्गीकृतम्' इमान्येवाक्षराणि पदशय्यानुकूलानि । 3 हन्त प्रहेलिका
चकार भाग्यवान् । दुःखितैः अनायासेन आत्मघातः क्रियते, महीयसा (अतिमहता) यलेन गरीयसि
( अति, गुरुतमे) केशे ( तपस्यादौ ) आत्मा न निक्षिप्यते । इति व्याख्यातव्यम् । किन्तु सोयमप्य
पपाठः । 'महीयसा तु' इति नविरहित एव पाठः । दुःखितैः आत्मा अनायासेन त्यक्तुं शक्यते ( वधोद्वन्ध-
नोपायानां स्वाधीनत्वात् ), गरीयसि क्लेशे (तपस्या दौ) तु महीयसा यत्लेन आत्मा निक्षिप्यते इति तदर्थः ।
-१ आसीत्. २ तेनानेनापरेण ३ सुतरामतिदूरम् ४ जन्मन. ५ विमुक्तानि ६ उचितैः. ७ दुष्कर-
मध्यङ्गीकृतम; दुष्करमतिकष्टमङ्गीकृतम् ८ दुःखाभिइतः परित्यज्यते लषीयसा; दुःखाभिः परित्यज्यन्ते महीयसा.
पाठा०.