This page has not been fully proofread.

३६२
 
कादम्बरी ।
 
[ कथायाम्-
,
 
वन्यैश्च फलमूलवारिभिर्वर्तमाना जपव्याजेन तद्गुणगणानिव गणयन्ती, त्रिसंध्यमन्त्र सरसि
स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम् अस्यामेव गुहायां तैरलिकया सह
* दीर्घ शोकमनुभवन्त्यवैसम् । साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा निःस्नेहा
नृशंसा गर्हणीया निःप्रयोजनोत्पन्ना निःफलजीविता निरंवलम्बना निःसुखा च । किं या
दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः' इत्युक्त्वा पाण्डुना वल्क
लोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाय बदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितु-
मुन्मुक्तकण्ठमतिचिरमुचैः प्रारोदीत् ।
 

 
चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया
तैपस्थितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढ-
-
 
बहुविधैः नाना प्रकारैर्नियमशतैर्वतशतैः । चन्यैश्चेति । वनसंबन्धिभिः । फलेति । फलानि सस्यानि, मूलानि
बुध्नाः, वारीणि जलानि, तैः कृत्वा वर्तमाना प्रवर्तमाना । कृतप्राणधारणेत्यर्थः । जप इति । जपो जाप-
स्तस्य व्याजेन मिषेण तस्य पुण्डरीकस्य गुणाः शौर्यादयस्तेषां गणाः समूहास्तानिव गणयन्ती गणनां कुर्वन्ती
त्रिसंध्यं त्रिसायम् । अत्र सरस्यच्छोदनाम्नि तटांके स्नानमा प्लवमुपस्पृशन्ती कुर्वन्ती । प्रतीति । प्रतिदिनं प्रति-
वासरं त्र्यम्बकं देवमीश्वरमर्चयन्ती पूजयन्ती । अस्यामिति । अस्यां प्रत्यक्षगतायामेव गुहायां कंदरायां
तरलिकया सह दीर्घं शोकमनुभवन्ती साक्षात्कुर्वन्त्यवसं निवासमकरवम् । यत्तदोर्नित्याभिसंबन्धाद्या पूर्वोका
सैवंविधाहं नान्या । इतस्तस्याः कियन्ति विशेषणानि प्रदर्शयन्नाह - पापेति । पापं कलुषं करोतीत्येवंशीला
सा, निर्लक्षणा पाण्डरपृष्ठा, निर्लज्जा नित्रपा, क्रूरा दुष्टा, निःस्नेहा निःप्रेमा, नृशंसा निर्बिशा, गर्हणीया
निन्दनीया, निःप्रयोजनं निरर्थकमुत्पन्ना प्रादुर्भूता, निःफलमवकेशि जीवितं प्राणितं यस्याः सा तथा, निर्ग-
समवलम्बनमाश्रयो यस्याः सा तथा निर्गतं सुखं सातं यस्याः सा तथा । चकारः समुञ्चयार्थः । खस्य निन्दां
कुर्वन्त्याह - किमिति । हे महाभाग हे सत्पुरुष, कृतं ब्राह्मणवघलक्षणं महापातकं ययैवंविधया दृष्टयावलो-
कितया पृष्टया पृच्छाविषयीकृतथा वा मया किं करोति किं करिष्यति । अत्र भविष्यंत्यर्थे वर्तमाना । इति
पूर्वोक्तमुक्त्वा कथयित्वा पाण्डुना शुभ्रूण वल्कलोपान्तेन चोचाश्चलेन वदनं मुखमाच्छाय। अत्र शुक्लत्वसाध●
यिदुत्प्रेक्षते - शरदिति । शरद्वनात्ययस्तस्या मेघशकलेन जलधरखण्डेन शशिनमिव चन्द्रमिव । अत्र
वदनस्य चन्द्रसादृश्यम्, वल्कलोपान्तस्य च शरन्मेघशकलसादृदयमिति भावः । दुरिति । दुर्निवारो बाष्पो
नेत्राम्बु तस्य वेगं रंहो निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवत्युन्मुक्तकण्ठं थथा स्यात्तथातिचिरं चिरकालमुच्चै-
स्वारस्वरेण प्रारोदीदनमकार्षीत् ।
 
चन्द्रापीडस्त्विति । प्रथममेवादावेव तस्या महाश्वताया रूपेण सौन्दर्येण, विनयेन प्रणिपातादिना, दाक्षि
प्येनानुकूल्येन, मधुरो मिष्टो य आलापः संलापस्तस्य भावसत्ता तथा, तथा निर्गतो यः सङ्गोऽभिष्वङ्गस्तस्य भाव-
स्तत्ता तया । तपेति । तपस्विन्या भावस्तत्ता तया । तथा प्रशान्तत्वेन सौम्यप्रकृतित्वेन च । तथा निरभि-
मानतया निरहंकारतया च । तथा महानुभावत्वेन महाप्रभावत्वेन । तथा शुचितया पवित्रतया चोपारूढमा-
टिप्प० - 1 वृत्तिं कुर्वाणा, इत्यर्थ उचितः । 2 धम्या बुद्धिः ! मुनिकुमारस्य किं शौर्य दृष्टम् ? अस्तु ।
कोह- सौन्दर्यादय इस्युषितम् । 3 लक्षणैः शुभलक्षणैः रहिता, इत्ययों योग्यः । 'पाण्डरपृष्ठा' इत्यर्थस्तु
भवा क्रमनसगोचरः, धन्यष्टीकाकारः ।
 
पाठा० --१ कन्द २ लात्वा. ३ तथा तरलिकया. ४ दीर्घशोकम्. ५ चिरगवसम्. ६ क्रूरा च ७ निःखेहा
च. ८ नृशंसा च; अतिनुशंसा च कृतशा च. ९ निरर्था निरवलम्बना. १० मया तथाभूतया ११ अतिकण्ठम्,
१२ चातितपस्वितया.
 
.