कादम्बरी /394
This page has not been fully proofread.
महाश्वेतावृत्तान्तौ पसंहारः ]
पूर्वभागः ।
शोकस्य, दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चौतिबहुलदुःखतां स्नेहस्य, भावयित्वा
चानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां
च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि
गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिमं शरणार्थिनी स्थाणुमाश्रिता ।
अपरेच कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सह बन्धुवर्गेणागत्य सुचिरं कृता-
क्रन्दस्तैस्तै रुपायैः, अभ्यर्थनाभिश्च बहीभिः, उपदेशैचाने कप्रकारैः, सान्त्वनैश्च नानाविधैः, गृहा-
गमनाय मे महान्तं यत्नमकरोत् । यदा च नेयमस्मा व्यवसायात्कथंचिदपि शक्यते व्यावर्त -
यितुमिति निश्चयमधिगतवान् तदा निराशोऽपि दुस्त्यजतया दुहितृस्नेहस्य पुनःपुनर्मया विसृ
व्यमानोऽपि बहून्दिवसान्स्थित्वा सशोक एवान्तर्दामानहृदयो गृहानयासीत् । गते च ताते
ततः प्रभृति तस्य जैनस्याश्रमोक्षमात्रेण कृतज्ञतां दर्शयन्ती, तदनुराग कशमिदमपुण्यबहुलमस्त-
मितलज्जममङ्गलभूतमनेक क्लेशायास सहस्रनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती
भाग्यस्य निष्ठुरतां कर्कशतां दृष्ट्वा विलोक्य । स्नेहस्य प्रेम्णोऽतिबहुलमतिदृढं दुःखं यस्मिंस्तस्य भावस्तता तां
चिन्तयित्वा विचार्य । सर्वभावानां समग्रपदार्थानाम नित्यतां विनाशितां भावयित्वा भावनाविषयीकृत्य च । सर्व-
सुखानां समग्र सौख्यानामकाण्डेऽनवसरे भङ्गुरतां भङ्गशीलतामवधार्य निश्चित्य । तातं पितरम विगणय्यानादृत्य ।
परिजनेन परिवारेण सह सकलं समयं बन्धुवर्ग खजनलोकं परित्यज्य दूरीकृत्य । विषयसुखेभ्य इन्द्रिय सातेभ्यो
मनश्चित्तं निवर्त्य परामुखीकृत्य । इन्द्रियाणि करणानि संयम्य नियन्त्र्य । गृहीतं स्वीकृतं ब्रह्मचर्यं यया सा देवं
त्रैलोक्यनाथ मिममनाथानां शरणं स्थाणुमीश्वरं शरणार्थिनी त्राणाभिलाषिण्यमाश्रिताश्रयणं कृतवती ।
अपरेधुरिति । अपरेधुरन्येद्युः कुतोऽपि कस्मादपि समुपलब्धः प्राप्तो वृत्तान्त उदन्तो येनैवंभूतस्तातः
पिताम्बया मात्रा च सह तथा बन्धुवर्गेण सहागत्यैत्य सुचिरं चिरकालं यावत्कृतो विहित आक्रन्दो येन स तैरते-
रुपायैः प्रपश्चैः, ताभिर्बह्वीभिरभ्यर्थनाभिः प्रार्थनाभिः, अनेकैरुपदेशैर्हितवाक्यैः, नानाविधैः सान्त्वनैः सामभिः,
एभिः कृत्वा मे मम गृहागमनाय महान्तं यत्नमुद्योगमकरोदसृजत् । यदा चेति । यदा यस्मिन्काल इयं
महाश्वेतास्माद्व्यवसायाच्याटतेः कथंचिदपि कष्टेनापि व्यावर्तयितुं निवर्तयितुं न शक्यते न पार्यत इति निश्चयं
निर्णयमधिगतवाञ्ज्ञातवान् । तदेति । तस्मिन्काले निराशोऽपि निर्गतसभी हितोऽपि गृहं न गत इति । अत्र हेतु-
माह - दुहित्रिति । दुहिता पुत्री तस्याः स्नेहस्य प्रेम्णो दुस्त्यजतया दुर्निवारतया । स्नेहाधिक्यं प्रदर्शयन्नाह -
पुनरिति । पुनःपुनर्वारंवारं मया विसृज्यमानोऽपि गृहे गम्यतामिति कथ्यमानोऽपि बहूननेकान्दिवसान्दि
नान्स्थित्वा सशोकः शुचा सह वर्तमानोऽन्तर्मध्ये दह्यमानं प्रज्वलमानं हृदयं चेतो यस्यैवंविध एव गृहानयासी-
दगमत् । 'गृहाः पुंसि' इति पुंस्त्वम् । गते चेति । ताते पितरि गते च सति ततः प्रभृति तद्दिनादारभ्य
तस्य जनस्य पुण्डरीकस्याश्रमोक्षमात्रेण नेत्रवारिमोचनेनैव कृतं जानातीति कृतज्ञस्तस्य भावस्तत्ता तां दर्शय-
न्ती प्रकाशयन्ती । पुनः किं कुर्वन्ती । दग्धशरीरमेव दग्धशरीरकम् । स्वार्थे कः । तच्छोषयन्ती कृशतो प्राप-
यन्ती । अथ शरीरकं विशेषयन्नाह - तदिति । तस्मिन्कुमारे पुण्डरीके योऽनुरागः स्नेहस्तेन कृशं सूक्ष्मम
पुण्यबहुले पापदृढम् । अस्तेति । अस्तमितास्तं प्राप्ता लज्जा त्रपा यस्मिंस्तदमङ्गलभूतम शिवरूपम् । अने-
केति । अनेकेऽसंख्या ये क्लेशा दुःखानि तेषामायासाः परिश्रमास्तेषां सहस्रं तस्य निवासो गृहस्तम् । कैः ।
टिप्प० – 1 गृहगमनाय इत्येव पाठो मनोरमः । 2 अपुण्यानि (पापानि) बहुलानि यति,
इति व्याख्यानमुचितम् ।
पाठा०-१ दुःखबहुलताम् २ परिजनेन मनसा संकल. ३ निगृह्य गृहीत. ४ त्रैलोक्यनाथशरणम्. ५ आश्रितव-
त्यस्मि. ६ बहुभिः. ७ परिसान्त्वनैः ८ गृहगमनाय ९ यदा तु न कथंचिदप्यस्मादध्यवसायाच्या वर्तयितुं शक्यत इति
१० दुश्लेबतया ११ गृहम् १२ जनस्याश्रमोक्षमात्रेण किल; देवस्य कृतेऽनुमोक्षमात्रेण, १३ बहुलमपि, १४ क्षपयन्सी.
४६ का०