कादम्बरी /393
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम् -
तावद्भियन्ताममी प्राणाः' इत्यभिधाना पादयोर्मे न्यपतत् । अहं तु सकललोकदुर्लङ्घयतया
जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णिकथा,
कपिञ्जलस्य प्रत्यागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवि
तम् । आशया हि किमिव न क्रियते । तां च पापकारिणी कालरात्रिप्रतिमां वर्षसहस्राय-
माणां यातनामयीमिव दुःखमयीमिव नरकमयीमिवाग्निमयीमिवोत्सन्न निद्रा तथैव क्षितितले
विचेष्टमाना रेणुकणधूसरैर श्रुजलाई कपोलसंदा नितैर्विमुक्तव्याकुलैः शिरोरुहैरुप रुद्रमुखी
निर्दयाक्रन्दजर्जर
स्वरक्षयक्षामेण कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती ।
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय,
तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्धा निःसारतां संसारस्य, ज्ञात्वा च मन्द-
पुण्यतामात्मनः निरूप्य चाप्रतीकारदारुणतां व्यसनोपनिपातानाम्, आकलय्य दुर्निवारतां
यन्तां धार्यन्ताम् । तत्प्रत्यागमनकाल एवावधिर्येषामिति प्राणविशेषणं वा । इत्यभिधानेतिब्रुवाणा मे मम पाद-
योश्चरणयोर्न्यपतत्पपात । अहं त्विति । तस्मिन्काले तदेव तरलिकोक्तमेव युक्तं न्याय्यं मन्यमाना ज्ञायमाना
जीवितं प्राणितं नोत्सृष्टवती न व्यक्तवती । तत्र हेतुचतुष्टयं प्रदर्शयजाह - सकलेति । जीविततृष्णायाः
प्राणधारणगर्धायाः सकललोकैः समग्रजनैर्दुर्लज्जयतया दुरतिक्रम्यतया । स्त्रीस्वभावस्य प्रमदानिसर्गस्य क्षुद्रतया
तुच्छतया च । तया चेति । तया पूर्वोक्तया तस्य महापुरुषस्य वचनेनोपनीतया प्राप्तया दुराशा दुष्टा स्पृहा
सैव मृगतृष्णिका मरीचिका तया । तथा कपिञ्जलस्य प्रत्यागमनं पश्चादागमनं तस्य काङ्क्षा वाञ्छा तया । आ-
शाया बलीयस्त्वं प्रदर्शयन्नाह - आशया हीति । हि निश्चितम् । आशया स्पृहया किमिव न क्रियते किं
न विधीयते । ततश्च तस्मिन्नेव सरस्तीरे तरलिका द्वितीया यस्या एवंविधा पापकारिण्यहं तां क्षपां रजनी
क्षपितवती क्षयं नीतवती । इतो रात्रेर्षिशेषणानि - प्रतिकूलकारित्वात्कालरात्रिस्तत्प्रतिमां तत्सदृशीम् । दुःखस्य
दुःसहत्वाद्वर्षाणां सहस्रं तद्वदाचरमाणामित्यर्थः । यातनेति । यातना तीव्रवेदना तन्मयीमिव अत्यन्तदुःखज-
नकत्वात् । दुःखेति । दुःखं उच्छ्रं तन्मयीमिव । स्वजनविरहेण शरीरदुःखस्यैवानुभूयमानत्वात् । नरकेति ।
नरकं दुर्गतिस्तन्मयीमिव । निन्दितात्यन्तदुःखोत्पादकत्वात् । अग्नीति । अग्निर्वह्निस्तन्मयीमिव । तीव्रदीर्घ-
ज्वराक्रान्तत्वात् । पुनः कीदृशी । उत्सन्नेति । उत्सन्ना मूलत उच्छिन्ना निद्रा प्रमीला यस्याः सा । तथै-
वेति । तथैव पूर्वोक्तप्रकारेणैव क्षितितले पृथ्वीतले विचेष्टमाना विलुठमाना । रेण्विति । रेणूनां रजसां
कणास्तैर्धूसरैरीषत्पाण्डुरैरश्रुजलैनैत्रवारिभिरा स्विन्नौ कपोलौ तत्र संदानितैः संयतैः विरहवशात् । विमुक्तत्वे -
नानियन्त्रितत्वेन व्याकुलैर्विसंस्थुलैः शिरोरुहैः केशैरुपरुद्धमाच्छादितं मुखमास्यं यस्याः सा । निर्दयमिति ।
निर्दयं निःकरुणं य आक्रन्दः पूत्कारस्तेन जर्जरः शिथिलो यः खरो ध्वनिस्तस्य क्षयो विनाशस्तेन क्षामेण
कृशेनैवंविधेन कण्ठेन करणभूतेन निर्दयाक्रन्देनैव क्षपां क्षपितवतीति भावः ।
।
प्रत्युषसीति । प्रत्युषसि प्रभात उत्थाय तस्मिन्नेव सरसि कासारे स्नात्वाप्लवं विधाय कृतो विहितो निश्चयो
यया सा । तत्प्रीत्या तत्स्नेहेन तमेव कमण्डलुं तत्करकुण्डिकामादाय गृहीत्वा तान्येव तद्देहलग्नान्येव वल्क-
लानि चोचानि, तामेव तदीयामेवाक्षमालां जपमालां गृहीत्वा । संसारस्य संसृतेर्नि: सारतामसारतां बुवावगम्य ।
आत्मनः स्वस्य मन्दपुण्यतां ज्ञात्वा च । व्यसनोपनिपातानां कष्टोपनिपातानामप्रतीकारं च तद्दारुणं चाप्रतीकार-
दारुणं तस्य भावस्तत्ता तां निरूप्य च कथंयित्वा । शोकस्य शुचो दुर्निवारतामाकल याकलनां कृत्वा । दैवस्य
टिप्प० - 1 अस्फुटप्रलाप इव । अश्रुजलाईयोः कपोलयोः संदानिनैः संलमैरित्यर्थः । 2 नास्ति प्रती-
कारः प्रतिविधानं येषां ते च दारुणाश्चेति सरलोऽर्थः । 3 दृष्ट्वा निर्णीय वा, इत्यर्थ उचितः ।
पाठा० -१ पादयोरपतत् २ स्त्रीस्वभावतायाः ३ दुराशया. ४ पोपकारिणीम् ५ उत्पन्ननिश ५ ६ विमुक्तैर-
व्याकुलै :. ७ मुखा. ८ क्षयितवती ९ अस्मिन् १० उपतापानाम्.