This page has not been fully proofread.

पुण्डरीकशरीरस्य गगने नयनम् ]
 
पूर्वभागः ।
 
३५९
 
र्यंत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रवम्
– 'अयि, न जानासि । कथय किमेतत् '
इति । सा तु तदवलोक्य स्त्रीस्वभावकातरा तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता
वेपमानाङ्गायष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत् – 'भर्तृदारिके,
न जानामि पापकारिणी। किंतु महदिदमाश्चर्यम् । अमानुषाकृतिरेष पुरुषः । समाश्वासिता
चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका । प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्यविसंवा-
दिन्यो भवन्त्याकृतयः, किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभि-
धाने पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अति-
महत्त्व ल्विद
मै। श्वासस्थानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपिञ्जलः । तस्माच
'कुतोऽयम्, को वायम्, किमर्थं वाँनेनायमपगतासुरुत्क्षिप्य नीतः, व वा नीतः, कस्माच्चा-
संभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता' इति सर्वमुपलभ्य
जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरण मंध्यासितम् । पश्चादप्येतद्भवि-
ब्यति । नच जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनकालावधयोऽपि
 
-
 
तदित्याह - अयीति । अयि कोमलामन्त्रणे । ने जानासि नावबुध्यसे । एतत्पूर्वोक्तं किमिति कथय निवेदय ।
ममेति शेषः । सा त्विति । सा तरलिका तत् पूर्वोक्तमवलोक्य निरीक्ष्य स्त्रीस्वभावेन कातरा भीरुस्तस्मि-
क्षणे शोकाभिभाविना शुङ्गाशिना शोकमभिभवतीत्येवंशीलेनेति भयविशेषणं वा । भयेन भीत्याभिभूता परा-
भूता वेपमाना कम्पमानाङ्गयष्टिर्यस्याः सैवंविधा मम मरणशङ्कया च विषण्णहृदया खेदखिन्नचित्ता वराकी दीना
सकरुणं सदयमित्यवादीदवोचत् । इतिशब्दाभिधेयमाह - भर्त्रिति । हे भर्तृदारिके, अहं पापकारिणी न
जानामि । अपि तु जानामि । किं त्विदं महदाश्चर्यं महत्कौतुकम् । एष पुरुषोऽमानुषाकृतिर्दिव्याकृतिः । अनेन
पुरुषेण गच्छता व्रजता पित्रेव जनकेनेव सानुकम्पं सदयं भर्तृदारिका राजदुहिता समाश्वासिता स्वस्थीकृता ।
प्रायेण बाहुल्येनैवंविधा दिव्या आकृतयः स्वप्नेऽप्यविसंवादिन्योऽव्यभिचारिण्यो भवन्ति । साक्षात्प्रत्यक्षेण किमुत
भण्यते । अस्य पुरुषस्य मिथ्याभिधानेऽसत्यभाषणे विचारयन्ती विमर्श कुर्वन्त्यल्पमपि स्तोकमपि कारणं निदा-
नमहं न च पश्यामि नावलोकयामि । अतो हेतोर्विचार्य विमृश्यात्मानमस्मात्प्राणपरित्यागलक्षणो यो व्यवसायो
व्यापारस्तस्मान्निवर्तयितुं युक्तं न्याय्यम् । अतीति । खलु निश्चयेन । अतिमहदिदं पूर्वोक्तमाश्वासस्थानमाश्वा-
संनस्थलमस्यामवस्थायाम् । अपि च तं पुण्डरीकमनुसरन्ननुगच्छन्गत एव कपिजलः । तस्माञ्चेति । तस्मा-
द्धेतोः कुतः स्थानादयं समागतः, को वायम्, किमर्थमनेन पुंसायमपगतासुर्गतप्राण उत्क्षिप्योत्पाट्य नीतः,
क्क वा कस्मिन्स्थाने वा नीतः प्रापितः, कस्माच्चासंभावनीयेनाचिन्तनीयेन समागमस्याशा तस्याः प्रदानेन
पुनरमुना पुरुषेण भर्तृदारिका समाश्वासिता । इति समुपलभ्य प्राप्य जीवितं मरणं वा समाचरिष्य
विधास्यसि । हीति निश्चये । अध्यासितं चिन्तितं मरणमदुर्लभं सुलभम् । स्वायत्तत्वादिति भावः ।
पश्चादपि वृत्तान्तोपलब्ध्यनन्तरमप्येतन्मरणं भविष्यति । न चेति । जीवन्सन्कपिजलो भर्तृदारिकामदृष्ट्वा न
वीक्ष्य न च स्थास्यति, तेन कारणेन तस्य कपिजलस्य यावत्प्रत्यागमनकालस्यावधयो मर्यादास्तावदमी प्राणा ध्रि-
टिप्प० - 1 'अयि जानासि' इत्येव पाठः । नकारपाठे योजनाकेशः प्रकृताऽपरिपोषश्च । 'अयि
जानासि' अत्र तु काकुः । अर्थात् जानासि किमित्याशयः । 2 अहो प्रमादः ! नात्र काकुः । अहं न जाना-
मीति निषेध एव बिनक्षितः । 3 अध्यवसितमित्येव मनोरमम् । अध्यवसितं कर्तुमभिप्रेतमिति तदर्थः ।
4 मौर्यमिदम् । प्रत्यागमनकालः भवधिर्येषां ते इति व्याख्योषिता ।
 
पाठा-
-१ न जानासि किमेतत् २ दिव्या भारत्यः• ३ साक्षात्कृताः. ४ युक्तमिवात्मानम्. ५ आश्वासनस्था-
नमू. ६ तसात् ७ च ८ सर्वमिदमुपलभ्य ९ न दुर्लभम्. १० अध्यवसितम्.