This page has not been fully proofread.

३५८
 
कादम्बरी ।
 
दिव्याकृतिः, स्वच्छवारिधवलेन देहप्रभावितानेन क्षालयन्निव दिगन्तराणि, आमोदिना च
शरीरतः क्षरता शिशिरेण शीतज्वरमिव जनयतामृतशीकरवर्षेण तुषारपटलेनेवानुलिम्पन्,
गोशीर्षचन्दनरसच्छटाभिरिवासिञ्चन्, ऐरावतकरपीवराभ्यां बाहुभ्यां मृणालघवलाङ्गुलिभ्यां
शीतलस्पर्शाभ्यां तमुपरतैमुत्क्षिपन्, दुन्दुभिगम्भीरेण खरेण 'वत्से महाश्वेते, न त्याज्यास्त्वया
प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः' इत्येवं पितेवाभिधाय सहैवानेन
गगनतलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी किमिदमिति
कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तर मुदतिष्ठत् । 'दुरात्मन्, क मे वयस्यमपहृत्य
गच्छसि' इत्यभिधायोन्मुखः संजातकोपो बन्नन्सावेगमुत्तरीयवस्कलेन परिकरम् उत्पत्यो-
संपतन्तं तमेवानुसरन्नन्तरिक्षमुद्गात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यमविशन् ।
मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिजलगमनेन द्विगुणीकृतशोकायाः सुतरामदी-
[ कथायाम-
Gyaa
 
महांपुरुषा उत्तमपुमांसस्तेषां लक्षणैः सामुद्रिकशास्त्रोक्तैर्ध्वजादिभिश्चि हैरुपेतः सहितः । दिव्येति । दिव्या मनो-
हराकृतिराकारो यस्य सः । स्वच्छेति । स्वच्छं निर्मलं यद्वारि जलं तद्वत्रलेन शुभ्रेण । देहेति । देहप्रभायाः
शरीरघुतेर्वितानेन समूहेन दिगन्तराणि दिग्विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव । आमोदीति ।
आमोदिना परिमळवता तस्य देवस्यामृतमयत्वात् शरीरतो देहतः क्षरता प्रस्रवता । शिशिरेति । शिशि-
रेण शीतलेन शीतज्वरमिव जनयतोत्पादयता एवंविधेनामृतशीकरवर्षेण पीयूषशीकरवृष्ट्या तुषारपटलेनेव
हिमसमूहेनेवानुलिम्पन्विलेपयन् । दिगन्तराणीति शेषः । गोशीर्षेति । गोशीर्षाभिधानं यच्चन्दनं तस्य रसो
द्रवस्तस्य छटाभिरिवासिञ्चन्नासेकं कुर्वन् । ऐरावतेति । ऐरावतो हस्ति मल्लस्तस्य करः शुण्डा दण्डस्तद्वत्पीव-
राभ्यां पुष्टाभ्यां बाहुभ्यां भुजाभ्याम् । मृणालेति । मृणालं बिसं तद्वद्धषलाः श्वेता अङ्गुल्यः करशाखा
ययोः । शीतलेति । शीतलः शिशिरः स्पर्शो ययोस्ताभ्यां बाहुभ्यां तमुपरतं मृतमुत्क्षिपन्नुत्पाटयन् । इत्येवं
प्रकारेण पितेव जनक इवाभिधायेत्युक्त्वानेन मृतकेन सहैव गगनतलमाकाशतलमुदपतदुत्पपात । इतिद्योत्य-
माह - दुन्दुभीति । दुन्दुभिः पटहस्तद्वद्गम्भीरेण खरेण शब्देन । हे वत्से महाश्वेते, त्वया प्राणा असवो
न त्याज्या न हेयाः । अनेन पुण्डरीकेण सह पुनरपि तव समागमो भविष्यति । अहं विति । अहं तु
तेन व्यतिकरेण तेन वृत्तान्तेन सभया सातङ्का, सविस्मया साश्चर्या, सकौतुका सकुतूहला चोन्मुख्यूर्ध्ववदना
किमिदमिति कपिञ्जलमपृच्छमप्राक्षम् । असौ कपिञ्जलोऽदत्त्वैवानुक्त्वैवोत्तरं प्रतिवचः ससंभ्रमं सत्वरम् ।
'संभ्रमस्त्वरिते भये' इति कोशः । उदतिष्ठदुत्थितो बभूव । हे दुरात्मन्, मे मम वयस्यं मित्रमपहृत्याप -
हरणं कृत्वा व गच्छसीत्यभिधायोक्त्वोन्मुख ऊर्ध्ववदनः संजातकोपः समुत्पन्नरोषः सावेगमुत्तरीयवल्क-
लेन परिकरं कटिभागं वध्रन्बन्धनं कुर्वन् । उत्पत्योत्पतनं कृत्वा तमेवोत्पतन्तं शशिमण्डलविनिर्गतपुरुषमेवा-
नुसरभनुगच्छन्नन्तरिक्षमाकाशमुदगादूर्ध्वमगात् । मे मम पश्यन्त्या विलोकयन्त्या एव च सर्व एव तारागणमध्यं
नक्षत्रवृन्दमध्यम विशन्प्रवेशं चक्रुः ।
 
-
 
मम स्विति । तेन कपिअलगमनेन द्वितीयेन द्वितीयप्रियतममरणेनेव द्विगुणीकृतः शोको यस्या एवं-
विधाया मम सुतरामत्यर्थ हृदयमवीर्यंत विदीर्ण बभूव । किंकर्तव्यतामूढाहं महाश्वेता तरलिकामनवम् । किं
टिप्प० -1 गोशीर्षाकारे मलयपर्मतैकदेशे जातश्चन्दनोपि तनाना व्यपदिश्यते । अतितमां सुरभिः
शीतलवायम् ।
 
पाठा० -- १ शीकरनिकर. २ गोशीर्षक ३ अतिशीतल. ४ उत्क्षिप्य ५ दुन्दुभिनाद. ६ परित्याज्या: ७ इत्येव-
माढतः पितेव. ८ दुरात्मनन्तक ९ सवेगम्. १० उपेत्य.