कादम्बरी /390
This page has not been fully proofread.
पुण्डरीकशरीरस्य गगने नयनम् ]
पूर्वभागः ।
यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञ
च हेतशरीरं वहामि, तदलं श्रयताम् ।
ततश्च तथाभूते तस्मिन्नवैस्थान्तरे मरणैकनिश्चयात्तत्तद्वहु विलप्य तरलिकामनवम्-
'अयि उत्तिष्ठ निष्ठुरहृदये, कियेद्रोदिषि । काष्ठान्याहत्य विरचय चिताम् । अनुसरामि
जीवितेश्वरम्' इति ।
अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादवतीर्य केयूरकोटिलनममृत्त फेन पिण्डपाण्डुरं
पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णान्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, स्थूल-
मुक्ताफलतया तारागणमिव ग्रथितमतितारं हारमुरसा दधानः, धवलदुकूलपल्लवर्कल्पितोष्णीष-
ग्रन्थिः, अलिकुलनीलकुटिलकुन्तल नि कर विकेट मौलिः, उत्फुल्लकुमुदकर्णपूरः, कामिनीकुच-
कुङ्कुमपत्रलतालाञ्छितांसदेशः, कुमुद्धवलदेह, महाप्रमाणः पुरुषो महापुरुषलक्षणोपेतः,
३५७
यामि ब्रवीमि । ययेति । यया दुराशैव मृगतृष्णिका मरुमरीचिका तथा गृहीता स्वीकृताहं महाश्वेता इदमुपरत.
कैल्पमवस्तुप्रायम् । अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीयमिवात एव भारभूतम-
प्रयोजनं निरर्थकं न कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोक्तमलं कृतमेतद्व्यतिरिक्तं
श्रूयतामाकर्ण्यताम् ।
ततश्चेति । तदनन्तरं तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्तरे दशान्तरे मरणस्य निमीलन स्यैक-
निश्चयाद द्वितीय निर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य विलप्य बहुविलापान्कृत्वा तर लिका मित्यनवमकथयम् ।
इतिशब्दद्योत्यमाह — अयीति । अयि कोमलामन्त्रणे । निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थानं कुरु । कियद्रोदिषि
कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधांस्याहत्यानीय चितां चित्यां विरचय निष्पादय ।
जीवितेश्वरं प्राणनाथमनुसराम्यनुगच्छामि ।
अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशादवतीर्यो-
तीर्य केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं श्वेतम् । पवनेन
वायुना तरलं कम्पमानमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् । राजदन्तादिषु पाठात्पूर्वप्रयोगः । आकर्षनाकर्षणं
कुर्वन् । इतो द्विजमण्डलविनिर्गत नरविशेषणानि । उभयेति । उभौ च तौ कर्णो चेति कर्मधारयः । वृत्ति-
विशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्तिस्तयांनुर
गण्डस्थलं यस्य सः । स्थूलेति । स्थूलानि मुक्ताफलानि यत्र तस्य भावस्तत्ता तया । श्वेतत्ववर्तुलत्वसाम्या -
दाह - तारेति । प्रथितं गुम्फितं तारागणमिव नक्षत्रवृन्दमिवातितारमतिमनोहरं हारं मुक्ताप्रालम्बमुरसा
वक्षःस्थलेन दधानो बिभ्राणः । धवलेति । धवलं श्वेतं यद्दुकूलं दुगूलं तस्य पल्लवेन प्रान्तदेशेन कल्पितो
विहित उष्णीषग्रन्थिर्मूर्धवेष्टनग्रन्थिर्येन सः । अलीति । अलिकुलवद्भ्रमर समूहवन्नीलाः श्यामाः कुटिला
बक्राः कुन्तलाः केशास्तेषां निकरः समूहस्तेन विकटो विपुलो मौलिर्यस्य सः । उत्फुल्लेति । उत्फुल्लं विकसित
यत्कुमुदं कैरवं तस्य कर्णपूर कर्णाभरणं यस्य सः । कामिनीति । कामिन्या योषितः कुचयोः स्तनयोः
कुमपत्रलता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्निततो॑ऽसंदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदव
च्वेतकमलवद्धवलः शुभ्रो देहः शरीरं यस्य सः । महाप्रमाणोऽतिदीर्घ एवंविधः पुरुषो नरः । महेति ।
टिप्प० - 1 मृतप्रायम् । 2 गाढालिङ्गनपूर्वकं पार्श्वशयनावस्थायामंसे कुङ्कुमसंक्रान्तिरित्याशयः ।
पाठा० - १ हतशरीरकम् २ अवस्थान्ते. ३ निश्चया. ४ तत्. ५ रोदिमि. ६ अनतीर्य च. ७ अतितारहारम्
८ कम्पित ९ मित्चित.