2023-09-10 17:49:58 by Lakshmainarayana achar

This page has been fully proofread twice.

विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः ।
मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव ॥ १५ ॥
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशाखशालिनाम् ।
अवाप मध्ये स्फटिको[^१] पलोपमं क्रमेण कैलासमिव क्षमाभृताम् ॥ १६ ॥
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः ।
द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य [^२]नखाङ्कुरा इव ॥ १७ ॥
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः ।
चकार यस्याध्वरधूमसंचयो [^३]मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥
 
इव । यथा चन्दनवृक्षस्य मलयजतरोः पल्लवाः किसलयानि नवा नवाः प्रतिदिनमम्लानाः श्रवणे कर्णे लग्नाः सन्तः शोभां कुर्वन्ति । रमण्या इति शेषः ॥ १४ ॥
 
विधानेति । योऽर्थपतिरसंख्यैरगण्यैर्मखैर्यज्ञैः सुखेनाप्रयासेन सुरालयं स्वर्गमजयत् । आचक्रामेत्यर्थः । किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्णादिप्रतिपादनं तेन शोभितैः । विशिष्टदक्षिणैरित्यर्थः । पुनः किंभूतैः । स्फुरदिति । स्फुरन्त उज्ज्वलन्तो ये महावीराः
श्रौताग्नयस्तैः सनाथा सहिता मूर्तिः स्वरूपं येषां ते तथा तैः । अग्नित्रयसहितैरित्यर्थः । 'होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूतैः । यूपकरैरिति । यूपा यज्ञे पशुबन्धनार्थं स्तम्भविशेषास्त एव करा हस्ता येषां ते तथा तैः । कैरिव गजैरिवेति यज्ञगजयोः शब्दसाम्येनोपमा । किंभूतैर्गजैः । विधानेन मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव '··विधानपिण्डस्नेहस्र- तिस्नपितबाहुरिभादिराजम्' इति माघे । तेन संपादितं निष्पन्नं यद्दानं मदजलं तेन शोभितैः । पुनः पक्षे स्फुरन्तः शूरा ये महावीरा योद्धारस्तैः सनाथमूर्तिभिः । अधिष्ठितैरित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः शुण्डादण्डो येषां ते तथा तैः॥१५॥
 
स इति । सोऽर्थपतिः क्रमेण वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां श्रुतिशास्त्राध्यापकानां सुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमवाप लेभे । किंभूतम् । स्फटिकेति । स्फटिकोपलः क्षीरतैलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कलङ्कमित्यर्थः । किंभूतानां सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूतमिव । कैलासमिव । पक्षे क्षमाभृतां भूधराणां मध्ये वरमित्यर्थः । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः । पक्षे स्फटिकाश्मभिर्निर्मितं स्फटिकमयत्वात्कैलासस्येति ॥ १६ ॥
 
महेति । महात्मनो यस्य चित्रभानोर्गुणाः । अपिशब्दाध्याहारेण पितुः समाना अपि द्विषन्मनः शत्रूणामप्यन्तःकरणं प्राविविशुः प्रवेशं चक्रुः । किं पुनः सज्जनानामिति । किंभूता गुणाः । सुदूरनिर्गताः । दिगन्तं गता इत्यर्थः । पुनः कीदृशाः । कलङ्केति । कलङ्केनाङ्क- लक्षणेन मुक्तो वर्जितो य इन्दुश्चन्द्रस्तस्य कला षोडशोंSशस्तद्वदमला विशदा त्विट् कान्तिर्येषां ते तथा । पुनः कीदृशाः । कृतेति । कृतं निष्पादितमन्तरसवकाशः
प्रवेशपद्धतिरिति यावत्, यैस्ते तथा । कस्य क इव । नृसिंहस्य विष्णोर्नखाङ्कुराः पुनर्भवाग्रभागा इव । यथा नृसिंहस्य नखाङ्कुरा द्विषद्दृदयं प्रविष्टास्तथैतेऽपीति भावः ॥ १७ ॥
 
दिशामिति । यस्य चित्रभानोर्मलीमसोऽप्यध्वरधूमसंचयो यज्ञधूमसमूहो निजं स्वकीयं यशः शुक्लतरमतिशयेनोज्ज्वलं चकार विदध इति विशेषोक्तिः । किंविशिष्टोऽध्वरधूमसंचयः । दिशामिति । दिग्वधूनामलीके ललाटदेशेऽलकभङ्गतामलकाश्चूर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तत्ता तां गतः प्राप्तः । एतेना-
जस्रं क्रतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव वधूस्तस्याः । कर्णे श्रोत्रे तमालपल्लव इव तमालपल्लवः । श्यामत्वसाधर्म्यात्त- मालकिसलयेनोपमानम् ॥ १८ ॥
 
[^१]G. 'पलामलं'.
[^२]G. 'नखाङ्कशा'.
[^३]G. 'मलीमसं'.