This page has not been fully proofread.

कादम्बरी ।
 
विधानसंपादितदानशोभितैः
 
स्फुरन्महावीरसनाथमूर्तिभिः ।
 
मखैर संख्यैरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव ॥ १५ ॥
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशाखशालिनाम् ।
अवाप मध्ये स्फटिकोपलोपमं क्रमेण कैलासमिव क्षमाभृताम् ॥ १६ ॥
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामल त्विषः ।
द्विषम्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नैखाङ्कुरा इव ॥ १७ ॥
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः ।
 
चकार यस्याध्बरधूमसंचयो मैलीमसः शुकुतरं निजं यशः ॥ १८ ॥
 
[ कथामुखे-
इव । यथा चन्दनवृक्षंस्यं मलयजतरोः पलवाः किसलयानि नवा नवाः प्रतिदिनमम्लानाः श्रवणे कर्णे लग्नाः
• सन्तः शोभां कुर्वन्ति । रमण्या इति शेषः ॥ १४ ॥
 
विधानेति । योऽर्थपतिरसंख्यैरगण्यैर्मखैर्यज्ञैः सुखेनाप्रयासेन सुरालयं स्वर्गमजयत् । आचक्रामेत्यर्थः ।
किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्णादिप्रतिपादनं
तेन शोभितैः । विशिष्टदक्षिणैरित्यर्थः । पुनः किंभूतैः । स्फुरदिति । स्फुरन्त उज्ज्वलन्तो ये महावीराः
श्रौतामयस्तैः सनाथा सहिता मूर्तिः स्वरूपं येषां ते तथा तैः । अग्नित्रयसहितैरित्यर्थः । 'होमाग्निस्तु महाज्वालो
महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूतैः । यूपकरैरिति । यूपा यज्ञे पशुबन्धनार्थं स्तम्भविशेषास्त
एव करा हस्ता येषां ते तथा तैः । कैरिव गजैरिवेति यज्ञगजयोः शब्दसाम्येनोपमा । किंभूतैर्गजैः । विधानेन
मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव ·· विधानपिण्डस्नेहस्रतिस्त्रपितबाहुरिभादिराजम्' इति
माघे । तेन संपादितं निष्पन्नं यद्दानं मदजलं तेन शोभितैः । पुनः पक्षे स्फुरन्तः शूरा ये महावीरा योद्धारस्तैः
सनाथमूर्तिभिः । अधिष्ठितैरित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः शुण्डादण्डो येषां ते तथा तैः ॥ १५ ॥
 
6
 
स इति । सोऽर्थपतिः क्रमेण वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां श्रुतिशास्त्रा
*यापकानां सुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमवाप लेभे । किंभूतम् । स्फटिकेति । स्फटिको-
पलः क्षीरतैलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कलङ्कमित्यर्थः । किंभूतानां
सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूतमिव । कैलासमिव । पक्षे क्षमाभृतां भूधराणां मध्ये वर-
मित्यर्थः । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः । पक्षे स्फटिकाश्मभिर्निर्मितं स्फटिकमयत्वात्कैलासस्येति ॥ १६ ॥
 
महेति । महात्मनो यस्य चित्रभानोर्गुणाः । अपिशब्दाध्याहारेण पितुः समाना अपि द्विषन्मनः शत्रूणा-
मप्यन्तःकरणं प्राविविशुः प्रवेशं चक्रुः । किं पुनः सज्जनानामिति । किंभूता गुणाः । सुदूरनिर्गताः । दिगन्तं
गता इत्यर्थः । पुनः कीदृशाः । कलङ्केति । कलङ्केनाङ्कलक्षणेन मुक्तो वर्जितो य इन्दुश्चन्द्रस्तस्य कला षोडशों-
Sशस्तद्वदमला विशदा त्विट् कान्तिर्येषां ते तथा । पुनः कीदृशाः । कृतेति । कृतं निष्पादितमन्तरसंवकाशः
प्रवेशपद्धतिरिति यावत्, यैस्ते तथा । कस्य क इव । नृसिंहस्य विष्णोर्नखाङ्कुराः पुनर्भवाग्रभागा इव । यथा
नृसिंहस्य नखाङ्कुरा द्विषहृदयं प्रविष्टास्तथैतेऽपीति भावः ॥ १७ ॥
 
दिशामिति । यस्य चित्रभानोर्मलीमसोऽप्यध्वरधूमसंचयो यज्ञधूमसमूहो निजं स्वकीयं यशः शुक्लतर-
मतिशयेनोज्ज्वलं चकार विदध इति विशेषोक्तिः । किंविशिष्टोऽध्वरधूमसंचयः । दिशामिति । दिग्वधूनाम-
लीके ललाटदेशेऽलकभङ्गतामलकाश्चूर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तत्ता तां गतः प्राप्तः । एतेना-
ज ऋतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव
वधूस्तस्याः । कर्णे श्रोत्रे तमालपलव इव तमालपल्लवः । श्यामत्वसाधर्म्यात्तमालकिसलयेनोपमानम् ॥ १८ ॥
 
पाठा०१ 'पलामलं'. २ 'नखाङ्कशा'. ३ 'भलीमर्स'.