कादम्बरी /389
This page has not been fully proofread.
#
१५६
कादम्बरी ।
[ कथायाम्-
समर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां
वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथंकथमपि विधृतानिमानसुलभानसू-
पुनः शोकानल इन्धनतामुपनेतुम्' इत्येवमुक्ता दीर्घमुष्णं च निःश्वस्य बाष्पायमाणलोचना
सनिर्वेदमवादीत् – 'राजपुत्र, या तदा तस्यामैतिदारुणायां हतनिशाया मेभिरतिनृशं सैर सुभिर्न
पॅरित्यक्ता ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भग-
वानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य
शहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामप्रेसरीकृता । यया चाविष्कृतमद्नया
वज्रमध्येवेदमनुभूतम् का वा गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्य-
द्भविष्यति यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्य यदभूत्तदा-
वेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि ।
."
वाच्यमानानि प्रियजनस्येष्टलोकस्य विश्वासवचनानि विश्रम्भभाषितान्यहमपि श्रोतुमसमर्थोऽक्षमः । तत्र हेतु-
माह - अनुभवेति । सुहृज्जनस्य मित्रलोकस्य दुःखान्यनुभवसमां विपाकतुल्यां वेदनां व्यथामुपजनयन्ति
निष्पादयन्ति । तदिति हेत्वर्थे । कथंकथमपि महता कष्टेन विधृतानिमान सुलभान्दुःप्रापानसून्प्राणान्पुनः
शोकार्नैले शुग्वह्नाविन्धनतामिध्मतामुपनेतुं प्रापयितुं त्वं नार्हसि न योग्या भवसि । इत्येवं पूर्वोक्तप्रकारेणोक्ता
बीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा बाप्पायमाणे लोचने नेत्रे यस्याः सैवंविधा निर्वेदः खावमाननं
तत्सहितं यथा स्यात्तथावादीदवोचत् । किं तदित्याह - हे राजेति । हे राजपुत्र हे नृपसूनो, याहं तदा
तस्मिन्काले तस्यामतिदारुणायामतिभीषणायां हतनिशायामशुभरजन्यामेभिरतिभृशंसैरतिक्रूरैरसुभिः प्राणैर्न
परित्यक्ता नोज्झिता तेऽसव इदानीं सांप्रतं मां परित्यजन्ति मुञ्चन्तीति दूरापेतं दूरे स्थितम् । नूनं निश्चितमपु-
प्योपहताया अधर्मोपहतायाः पापायाः पापिष्ठाया मम दर्शनं निरीक्षणं भगवानन्तकोऽपि यमोऽपि परिहरति परि-
त्यजति । कुतश्चेति । मे मम कठिनहृदयायाः शोकः शुक् कुतः स्यात् । अस्य शठहृदयस्य सर्व पूर्वोक्तमिदम-
लीकं मिथ्या । सर्वथेति । सर्वप्रकारेणाहमनेन हृदयेन त्यक्तत्र पेणोज्झितलज्जागुणेन निरपत्राणां निर्लज्जा.
नामग्रेसरी पुरोगामिनी कृता विहिता । यया चेति । यया मयाविष्कृतैमदनया प्रकटितकंदर्पया वज्रमय्येव शत-
कोटिमय्येवेदं पूर्वोक्तमनुभूतमनुभवविषयीकृतम् । का गणना कथनं प्रति, चेदनुभूतं वर्तते तर्हि कथने किं काठि-
न्यमिति भावः । वेति पक्षान्तरे । अतः परमस्मादन्यत्कष्ट तर म तिकृच्छ्रमाख्येयं कथनीयम् । अन्यत्किं भविष्यति
यच्छ्रोतुमा कर्णयितुमाख्यातुं कथयितुं वा न शक्यते न पार्यते । केवलेति । केवलमसहायमेकमस्य वज्र-
पातसदृशदुःखस्यानन्तरं पश्चात् यत् आश्चर्य चित्रमभूत्तदावेदयामि कथयामि । आत्मनश्चेति । आत्मनः
स्वस्य च प्राणधारणं तंत्र कारणलव इव हेतुलेश सदृशमव्यक्तोऽस्फुटो यः समुत्पन्नः प्रादुर्भूतस्तं च कथ-
टिप्प० - 1 एवंविधो दूरादाकर्षो ग्रन्थसरणिविरुद्धः । पाठश्चायं टीकाकारमहोदयसंमतः । वस्तुतस्तु
'प्रियजनविश्वासवचनानि' इति वाक्ये नास्त्येव । सदभावे — 'अतिक्रान्तान्यपि दुःखानि संकीर्यमानानि
(सन्ति) सुहृज्जनस्य अनुभवसमां वेदनां जनयन्ति' इत्यन्वयः । 2 'स्मरणशोकानलेम्धनताम्' इति समस्त-
मेव मनोरमम्, विरूपसन्धिकमश्रव्यमिदम् । 3 धिक्, अतिविरूपोयं पाठः । 'अधिगतमदनवेदनया'
इत्येव पाठः । अधिगता साक्षादनुभूता मदनवेदना यया तादृश्या, इति तदर्थः। मदनाविष्करणे त्वनौचित्यम् ।
पाठा० - १ अनुभवसमयवेदनाम् ; अनुभवसमवेदनाम् २ पुनःपुनः स्मरणशोकानलेन्धनताम्. ३ या तस्याम्..
४ परित्यक्तास्मि तदिदानीं परित्यजन्ति दूरापेतम्; परित्यक्ता सेदानी परित्यजत इति दूरापेतमेतत् ५ दुरात्मनः शठ-
हृदयस्य ६ आविष्कृतमन्दवेदनथा; अभिगत मदनवेदनया ७ तस्याः ८ का दुःखगणना, कथं प्रीतिः
ं