This page has not been fully proofread.

महाश्वताया विलापः ]
 
पूर्वभागः ।
 
इति मुहुः कपिञ्जलस्य पादयोरपतम्, मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् । अद्यापि
चिन्तयन्ती न जानामि तस्मिन्काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि
मे हतपुण्यायाः कृपणानि चाटुसहस्राणि प्रादुरभवन्, कुतस्ते संलापाः, कुतस्तान्यतिकरुणानि
बैक्कुव्यरुदितानि । अन्य एव स प्रकार । प्रलयोर्मय इवोदतिष्ठन्नन्तर्वाष्पवेगानाम्, जल-
यत्राणीवा मुच्यन्ताश्रुप्रवाहाणाम्, प्ररोहा इव निरगच्छन्प्रलापानाम्, शिखरशतानीवावर्धन्त
दुःखानाम्, प्रसूतय इवोद्पाद्यन्त मूर्च्छानाम्' ।
 
इत्येवमात्मवृत्तान्तं नियन्त्या एैव तस्याः समतिकान्तं कथमप्यतिकष्टमवस्थान्तरमनु-
भवन्त्या इव चेतनां जहार मूर्च्छा । मूर्च्छावेगान्निष्पतन्तीं च शिलातले तां संसंभ्रमं प्रसा-
रितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीय-
वल्कलप्रान्तेन शनैः शनैर्वीजयन्संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाप्पसलिलोत्पीडनेन
प्रक्षाल्यमानकँपोलो लब्धचेतनामवादीत् - 'भगवति, मया पापेन तवायं पुँनरभिमवतां
नीतः शोकः, येमेहशीं दशामुपनीतासि । तदलमनया कथया । संहियतामियम् । अहमध्य-
-
 
9
 
सम्यक्तयावकल-
भव । एनं पुण्डरीकं प्रत्युज्जीवय संजीवितं कुरु । इति मुहुर्वारंवारं कपिजलस्य मुनेः पादयोश्चरणयोरपंतं
पतितवती । मुहुश्चेति । वारंवारं तरलिकां कण्ठे गृहीत्वा प्रारुदं रुदनमकार्षम् । तस्मिन्निति । तस्मिन्काले
रोदनदशायां यान्यचिन्तितान्यतर्कितानि, अशिक्षितान्यपठितानि, अनुपदिष्टानि केनापि नोपदेशीकृतानि,
अदृष्टपूर्वाण्यनवलोकितपूर्वाणि, हतपुण्यायाः मे मम कृपणानि दीनानि चाटुसहस्राणि प्रियप्रायवचनसहस्राणि
कुतः प्रादुरभवन्कुतः प्रकटीबभूवुरित्यद्याप्येतद्दिनपर्यन्तं चिन्तयन्ती न जानामि न
यामि । कुतस्ते पूर्वोक्ताः संलापाः । कुतस्तानि हृदिस्थान्यतिकरुणान्यतिदीनानि विक्लवो विह्वलस्तस्य भावो
वैक्लव्यं तस्य रुदितानि ऋन्दितानि । अन्य एव भिन्न एव स प्रकारो मेदः । तान्युत्प्रेक्षते चतुर्भिः- प्रलयेति ।
अन्तर्बाष्पस्य मध्यनेत्राम्बुनो वेगानां रहसां प्रलयोर्मय इव कल्पान्ततरंगा इवोदतिष्ठन्नुत्थिता बभूवुः ।
अश्रुप्रवाहाणां नेत्राम्बुधाराणां जलयन्त्राणीवामुच्यन्त मुक्ताः । नेत्रैरिति शेषः । प्रलापानां विलापानां प्ररोहा
इवाङ्कुरा इव निरगच्छन्निर्गता बभूवुः । दुःखानां कृच्छ्राणां शिखरशतानीव शृङ्गशतानीवावर्धन्तैधन्त । मूर्च्छा-
नां मोहानां प्रसूतय इवानवरतसंतानानीवोदपाद्यन्ताक्रियन्त ।
 
इत्येवं पूर्वोक्तप्रकारेणात्मवृत्तान्तं स्वकीयोदन्तं निवेदयन्त्या एव कथयन्त्या एव तस्या महाश्वेतायाः । अति-
कान्तारिष्टहेतोस्तथा वेदना नास्तीत्यत आह - समतीति । कथमपि महता कष्टेन समतिकान्तं व्यतीतमतिकष्टं
यस्मिन्नेवंभूतमवस्थान्तरं मुनिकुमारमृत्युलक्षणमनुभवन्त्या इवानुभवविषयीकुर्वन्त्या इव तस्या महाश्वेताया
मूर्च्छा मोहश्चेतनां चैतन्यं जहाराहरत् । मूर्च्छावेगान्मोहरंहसः शिलातले निष्पतन्तीमधः संयोगफलिकां क्रियां
कुर्वन्तीं तां महाश्वेतां ससंभ्रमं प्रसारितो विस्तारितः करो येनैवंभूतो जातपीडश्चन्द्रापीड: परिजन इव परिच्छद इन
विधृतवान्धारितवान् । अश्रुजलार्द्रेण नेत्रवारिक्लिन्नेन च तदीयेनैव महाश्वेतास्त्रीकृतेनैवेत्यर्थः । उत्तरीयं यद्वल्कलं
तस्य प्रान्तेन शनैः शनैर्मन्दमन्दं वीजयन्वातं कुर्वन्संज्ञां चेतनां ग्राहितवान् । आनीतवानित्यर्थः । उपेति ।
उपजातं समुत्पन्नं कारुण्यं यस्य सः । बाष्पसलिलस्योत्पीडनं प्रवाहस्तेन प्रक्षाल्यमानौ कपोलौ यस्य स लब्धचेतनां
प्राप्तचैतन्यामवादीदवोचत् । हे भगवति महाश्वेते, मया पापेन पापात्मना तवायं शोकः पुनर्द्वितीयवारमभिनवतां
प्रत्यग्रतां नीतः प्रापितः येन कारणेनेदृशीं दशामवस्थामुपनीतासि प्रापितासि । तदिति । तस्माद्धेतोरनया
कथयालं कृतम् । इयं कथा संहियतां संक्षिप्यताम् । हि यस्मादतिक्रान्तान्यपि व्यतीतान्यपि संकीर्त्यमानानि
टिप्प० -- 1 उदपधन्त, इत्येव पाठः । मूर्च्छानां प्रसूतयः संताना इवोदपथन्त अजायन्तेति तदर्थः ।
 
• पाठा०-१ मुहुर्मुहु:. २ आवेदयन्त्यः ३ एव च तस्याः ४ ससंभ्रमप्रसारित ५ उत्पीडेन. ६ कपीलयुगकः;
कपोलयुगलाम्. ७ पुनरपि नवसाम्. ८ उपनीतः