This page has not been fully proofread.

३५४
 
कादम्बरी ।
 
[ कथायाम्-
न्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवाविष्टेवोन्मत्तेव भूतोपहतेव व्यलपम् ।
उपर्युपरिपति तैनयन जलधारा निकरच्छलेन विलीयमानेव, द्रवतामिव नीयमाना, जलाकारेणे-
वात्मीक्रियमाणा, प्रलापाक्षरैरपि देशनमयूखशिखानुगततया साश्रुधारैरिव निष्पतद्भिः शिरो-
रुहेरप्यविरलविगैलरकुसुमतया मुक्तबाष्पजलबिन्दुभिरिवाभरणैरपि प्रसूतविमलमणिकिरणा-
श्रुतया प्ररुदितैरिवोपेता, तेज्जीवितायेवात्ममरणाय स्पृहयन्ती, मृतस्यापि सर्वात्मना हृदयं
प्रवेष्टुसिवेच्छन्ती, करतलेन कपोलयोराश्यानचन्दनश्वेतजटामूले च ललाटे निहितसरसबि-
सयोश्वांसयोर्मलयजरसलबलुलित कमलिनीपलाशावगुण्ठिते च हृदये स्पृशन्ती, 'पुण्डरीक,
निष्ठुरोऽसि । एवमप्यातां न गणयसि माम्' इत्युपालभमाना मुँहुरेनमन्वनयम्, मुहुः पर्य-
चुम्बम् मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे, त्वयापि मत्प्रत्यागमनकालं यावद-
स्यासवो न रक्षिताः' इति तामेकावलीमगर्हयम्, 'अयि भगवन्, प्रसीद । प्रत्युज्जीवयैनम्'
 
.9
 
प्रकटय । इत्येतानि च ग्रन्थकर्त्रा प्रदर्शितान्यन्यानि चाप्रदर्शितानि च वचनानि व्याक्रोशन्ती पूरकुर्वन्ती ।
कियद्वेति । कियन्मात्रं परिदेवनं स्मरामि स्मरणविषयी कुर्वे । ग्रहगृहीतेव ग्रथिलेव, आविष्टेवावेशविषयी -
कृतेव, उन्मत्तेवोन्मत्तवायुव्यथितेव, भूतेन व्यन्तरेणोपहतेव व्यलपं विलापमकरवम् । अथ नयनाश्रुधाराणां
सान्द्रातिशयं वर्णयितुं त्रिभिरुत्प्रेक्षते - उपरीति । उपर्युपरि पतिता या नयनजलधारा अश्रुश्रेण्यस्तासां
निकरच्छलेन समूहव्याजेन विलीयमानेव द्रुततामापद्यमानेव । द्रवतां द्रवगुणोपयुक्ततां नीयमानेव प्राप्यमाणेव ।
द्रवत्ववत्त्वात्तदेवाह — जलाकारेणेति । जलाकारेण जलस्वभावेनात्मीक्रियमाणेव । अथ च रोदनाश्रुमुखेन
शोकातिशयं व्यञ्जयितुमश्रुवर्णनं त्रिभिरुत्प्रेक्षाभिराह - प्रेति । दशना दन्तास्तेषां मयूखाः किरणास्तेषां शिखा
प्रान्तभागस्तत्रानुगततया प्राप्ततया प्रलापाक्षरैरपि परिदेवनवर्णैरपि साश्रुधारैर्निष्पतद्भिरिव सवद्भिरिव । अत्र
श्वेतत्वसाम्याद्दशनमयूखनेत्रजलयोरुपमानोपमेयभावः । अविरलेति । अविरलानि घनानि विगलन्ति क्षरन्ति
कुसुमपुष्पाणि येषु तेषां भावस्तत्ता तया शिरोरुहैरपि केशैरपि । मुक्तेति । मुक्ता बाष्पजलबिन्दवो
यैरेव॑विधैरिव । अत्रापि पुष्पनेत्रजलयोः श्वेतत्वसाम्यादुपमानोपमेयभावः । प्रविति । प्रसूतानि जनितानि
विमलानि निर्मलानि मणिकिरण
न्येवाश्रूणि येषु तेषां भावस्तत्ता तया आभरणैरपि विभूषणैरपि प्ररुदितैरिव
कृताश्रुपातैरिव । उपेतेति । तत्रिभिरन्विता । तज्जीवितेति । तस्य मुनिकुमारस्य जीवितं तद्वदिवात्ममरणाय
स्वनिधनाय स्पृहयन्ती वाञ्छां कुर्वन्ती । मृतस्यापि गतप्राणस्यापि सर्वात्मना सर्वप्रकारेण हृदयं प्रवेष्टुं प्रवेशं कर्तु-
मिच्छन्तीव । करतलेन पाणितलेन स्वेन मुनिकपोलयोर्गल्लात्परप्रदेशयोर्ललाटे च कीदृशे । आश्यानं शुष्कं चन्दनं
मलयजं तेन श्वेतं शुभ्रं जटामूलं सटापीठं यस्मिन् । अंसयोश्च स्कन्धयोश्च कीदृशयोः । निहितेति । निहितानि
स्थापितानि सरसानि रसो जलं तद्युक्तानि बिसानि तन्तुलानि ययोः । अथ हृदयं विशेषयन्नाह - मलयेति ।
मलयजस्य चन्दनस्य रसो द्रवस्तस्य लवो लेशस्तेन लुलितानि मिलितानि यानि कमलिनीपलाशानि पत्राणि तैरव-
गुण्ठिते व्याप्ते स्पृशन्ती स्पर्श कुर्वन्ती । पुण्डरीकेति । हे पुण्डरीक, त्वं निष्ठुरः क्रूरोऽसि । एवमपि पूर्वोक्तप्रका-
रेणापि मामार्तां न गणयसि न गणनां करोषि । इत्युपालभमानोपालम्भं ददाना मुहुर्वारंवार मेनमन्वनयमनुनीत-
वती । मुहुर्वारंवारं पर्यचुम्बं चुम्बितवती । मुहुर्वारंवारं कण्ठे गृहीत्वा व्याक्रोशमाक्रोशितवती । आः पापे त्वयापि
भवत्यापि मम प्रत्यागमनकालं मदीयागमन समयं यावत् । अस्य पुण्डरीकस्यासवः प्राणा न रक्षिता न
त्राताः । इति तामेकावलीमगर्हयं गर्हितवती । अयीति । अयि कोमलामन्त्रणे । हे भगवन् प्रसीद प्रसन्नो
टिप्प० – 1 तिसुभिरित्युचितम् । 2 अत्र नोपमा । अपि तु उत्प्रेक्षा, अत एव भ्रामकमिदम् ।
3 विद्यार्थिभिस्तु किरणस्य पुंस्त्वमेव बोध्यम् । टीकाकारस्तु लोकबहिर्भूतः ।
 
-
 
>
 
पाठा० - १ निपतित २ दशनशिखा ३ विगलित ४ प्रसृत ५ तज्जीवितायैव, तज्जीविताय च ६ परामृशन्ती.
७ मुहुर्मुहुः, ८ मुहुर्मुहुः, ९ मुहुः