कादम्बरी /386
This page has not been fully proofread.
महाश्वेताविलापः ]
पूर्वभागः ।
३५३
अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कैथय किमपराद्धम्,
किंवा नानुष्ठितं मया, कस्यां वा नाज्ञायामादृतम्, कस्मिन्वा त्वदनुकूले नाभिरतम् येन
कुपितोऽसि, दासजनमकारणात्परित्यज्य व्रजन्न बिभेषि कौलीनात् । अलीकानुराग विप्रतार-
णकुशलया किं वा मया वामया पापया । आः, अहमद्यापि प्राणिमि । हा, हतास्मि मन्द-
भागिनी । कैथं न त्वं जातः, न विनयः, न बन्धुवर्गः, न परलोकः । धिङ्मां दुष्कृतकारि-
णीम्, यस्याः कृते तवेयमीहशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं
भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं
परिजनेन । हा कमुपयामि शरणम् । मैयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् ।
देहि दयितदक्षिणां भगवति भवितव्यते । कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो
वनदेवताः, प्रसीदत । प्रयच्छतास्य प्राणान् । अव वसुंधरे, सकललोकानुग्रहजननि ।
रजनि, नानुकम्पसे । तात कैलास, शरणागतीस्मि ते । दर्शय दयालुताम्' इत्येतानि चा-
कुरु । मे मम मनोरथं चिन्तितं पूरय पूर्णांकुरु । अहमार्तास्मि दुःखितास्मीति स्पष्टम् । अनम्येति ।
न विद्यतेऽन्यं शरणं त्राणं यस्याः सैवंविधास्मि । मदनेन कन्दर्पेण परिभूता पराजितास्मि । किमिति हेतोः ।
त्वं दयां कृपां न करोषि न प्रणयसि । कथय ब्रूहि । किमपराद्धं कोऽयमपराधः कृतः । मयेति शेषः । किं
मया नानुष्ठितं नाचरितं वा । कस्यां वाज्ञायां निर्देशे नादृतं नादरः कृतः । त्वदनुकूले कस्मिन्वा मया नाभिरतं
रागो न कृतः, येन कारणेन कुपितः कोपं प्राप्तः । अकारणान्निमित्तमन्तरेण दासजनं भृत्यलोकं परित्यज्य
विहाय ब्रजन्गच्छन्कौलीनाज्जनापवादान्न बिभेषि भयं प्राप्नोषि । अलीकेति । अलीको मिथ्या योऽनुरागस्तेन
यद्विप्रतारणं वञ्चनं तत्र कुशलया दक्षया वामया प्रतिकूल या पापया दुष्टकर्मकारिण्या मया किंवा स्यात् ।
आः इति ज्ञातम् । अहमद्याप्येतावत्कालमपि प्राणिमि जीवामि । हा हतास्मि । दैवेन ताडितास्मीति भावः ।
अत एव मन्दभागिनी । तदेव दर्शयति - कथमिति । न त्वं भवान् जातः । पतिरिति शेषः । अतश्च न
विनयो न मर्यादा, न वा बन्धुवर्गो न स्वजनलोकः, न परलोको न प्रेत्यभावः । मां धिगस्तु धिक्कारोऽस्तु । मां
कीदृशीम् । दुष्कृतकारिणीं दुष्कर्मकरणशीलाम् । यस्याः पापकारिण्याः कृते तव भवत इयं परित्यक्तजीवितरूपा
दशावस्था वर्तते । मत्सदृशी मत्समा नृशंसहृदया क्रूरचित्ता नास्ति न विद्यते, याहमेवंविधं भवन्तमुत्सृज्य
व्यक्त्वा गृहं धाम गतवती । मे मम किं गृहेण सदनेन, किमम्बया मात्रा, किं वा तातेन पित्रा, किं वा बन्धुभिः
स्वजनैः, किं परिजनेन परिच्छदेन । हेति खेदे । कं शरणमुपयामि गच्छामि । हे दैव हे भाग्य, मयि विषये
दयां कृपां दर्शय । त्वां प्रति विज्ञापयामि विज्ञप्तिं करोमि । हे भवितव्यते भगवति, दयितदक्षिणां देहि ।
कृपां दयां कुरु । अनाथां वनितां स्त्रियं पाहि रक्ष । हे भगवत्यो वनदेवताः, यूयं प्रसीदत प्रसन्ना भवत ।
अस्य भुनिकुमारस्य प्राणान्प्रयच्छत दैत । हे सकललोकानुग्रहजननि वसुंधरे, अव रक्ष । हे रजनि हे रात्रि,
नानुकम्पसे नानुकम्पां करोषि । हे तात कैलास, ते तव शरणागतास्मि । दयालुतां कृपालुतां दर्शय
टिप्प० - 1 अन्यदित्युचितम् । सोयमपपाठः । 'कथं मे न त्वम्, न तातः' इत्येव पाठः । स्वं मे
मम ( संबन्धी ) न जातः, कुतः ? मरणात् । तातोपि न, अर्थात् पितापि मे पक्षपोषको न स्यात् अभि-
सरणेन कुलमर्यादोल्लङ्घनातू । विनय-बन्धुवर्ग - परलोका अपि मम न भवेयुः । अभिसरणेन तत्प्रतीपा-
चरणात्, इति तदाशयः । 3 दत्तेति बोध्यम् ।
पाठा० -१ किमपराद्धम्. २ कुपितः ३ दासीजनम् ४ प्रतारण ५ याहम् ६ कथं मे न त्वं, न तातः.
७ अयि. ८ दक्षिणाम् ९ अम्ब १० किमर्थं नानु. ११ अस्मि
४५ का०