This page has not been fully proofread.

कादम्बरी ।
 
उद्भूतमूर्च्छान्धकारा च पातालतलमिवावतीर्णा तदा काहमगमम् किमकरवम्, किं
व्यलपम्, इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढ-
हृदयस्य, किमनेकदुःखसहस्रसहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं
भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्त-
वामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती
केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसहाशोकदयमानमात्मानमवनौ
विष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मैरणमात्मनश्च जीवितमुत्थाय,
'है, किमिदमुपनतम्' इति मुक्तार्तनादा, 'हो अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती
' हा नाथ जीवित निर्बंन्धन, आचश्व क मामेकाकिनीमशरणामकरुणं विमुच्य यासि ।
पृच्छ तरलिकां स्वत्कृते मया यानुभूतावस्था । युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः ।
प्रसीद । सकृदण्यालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् ।
आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि ।
 
૧૨
 
[ कथायाम्-
PRIS
 
तदेति । तदा तस्मिन्क्षणे सर्वमेवेति नाज्ञासिषं नाबोधिषम् । इतिथोत्यमाह - उद्भूतेति । क्वाहमगम-
मत्रजम्, किमकरवमघटयम्, किं व्यलपं किमवोचम् । कीदृश्यहम् । उद्भूतं प्रकटीभूत मूर्च्छा एवान्धकार
यस्यां सां तथा पातालतलं रसातलमवतीर्णेव । असवश्चेति । तस्मिन्क्षणे मे ममासवः प्राणा अस्य मूढहद-
यस्य किमतिकठिनतयाति काठिन्यतया । किं ह्तशरीरकस्य निःप्रयोजन देहत्यानेकानां दुःखसहस्राणां सहिष्णुतया
सहनतया । किं दीर्घशोकस्य चिरकालीनशुचो विहिततयावश्यभोक्तव्यतया । कि जन्मान्तरोपात्तस्यान्यभवार्जि-
तस्य दुष्कृतस्य पापस्य भाजदया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुण -
तया दक्षतया । किं दुरात्मनः पापिष्ठस्य मन्मथहतकस्यैकान्तवामतयात्यन्तप्रतिकूल
 
>
 
हेतुना नोद्गच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलम तिचिराचिरकालेन लब्धा प्राप्ता चेतना
चैतन्यं यया सैवंविधः दुःखभागिनी वहा विवानाविव पतितमसह्यो यः शोकः शुक् तेन दह्यमानं ज्वलन्तमवनौ
पृथिव्यां विचेष्टमानं लुठमानमात्मानम पश्यमवालोकयम् । तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च
जीवितमसंभावनीयमश्रधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे । किमिदमुपनतमागतमिति मुक्त आर्तनाद
आक्रन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्यः हा आल्यः इति पूर्वोक्त
व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन, जीवितनिबन्धनं जीवितकारैणमाचक्ष्व कथय । मामेकाकिनी-
मसहायामशरण मत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य त्यक्त्वा व यासि क व्रजसि । तरलिकां
पृच्छ प्रश्नं कुरु, त्वत्कृते स्वदर्थं मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयी-
कृता । युगसहस्रवदाचरमाणो दिवसो वासरः कृच्छ्रेण कष्टेन नीतः प्रापितः । प्रसीद प्रसन्नो भव । सकृदप्ये-
कवारमप्यालप ब्रूहि । भक्तवत्सलतां हितकारितां दर्शय प्रकाशय । ईषदपि किंचिदपि विलोकय निरीक्षणं
 
टिप्प० - 1 मौढयं टीकाकारस्य । काठिन्य मिति भावप्रत्ययान्तान पुनर्भावार्थकप्रत्ययः । नानुक्रियतां
विद्यार्थिभिः । 2 इदमप्यननुकूलम् । अभिन्नहृदया महाश्वेतैव पुण्डरीकेण सह आत्मनो मरणं च जीवितं
च वक्तुं शक्ता । अतएव 'अश्रद्दधाना' इति स्त्रीलिङ्गपाठ एवोचितः । 'अयं भृतः स्यात् अहं च जीवे
यभू' इत्येव न विश्वसनीय मिति तदाकूतम् । 3 ' जीवित निबन्धनमाचक्ष्न' इति पाठो विवक्षितष्टीका-
कारस्य । किन्तु मूले शोधितः पाठो दृश्यते । नाहमिमं लेखन्या चिच्छित्सामि ।
 
..
 
· पाठा० --- १ पाता उमिव. २ अश्रद्दधानाम् ; अश्रद्दधाना ३ मरणकारणम् ४ हा हा. ५ अम्ब हा मातः.
६ निमन्धनमाचक्ष्व. ७ भकरण..