This page has not been fully proofread.

उपरतः पुण्डरीकः ]
 
पूर्वभागः ।
 
लामलकर्पूरक्षोदभस्मधवलम्, आवद्धमृणालरक्षाप्रतिसरमनोहरम् मनोभवत्रतवेषमात्याय
मत्समागममत्रमिव साधयन्तम्, 'भोः कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽय-
मनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपह-
र्तुमन्तः प्रविष्टैरिवेन्दु किरणैर्निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथाविघटमान-
हृदयनिहितेन वामेन पाणिना 'प्रसीद । प्राणैः समं प्राणसमे, न गन्तव्यम्' इति हृदयस्थितां
मामिव धारयन्तम् इतरेण च नखमयूखदन्तुरतया चन्दनमिव स्रवतोत्तानीकृतेन चन्द्रात-
पमिव निवारयन्तम्, अन्तिकस्थितेन चाचिरोगतजीवितमार्गमिवोद्रीवेण विलोकयता तपःलु.
हृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रेंजनीकरकिरणपाशेनेव
संयम्य लोकान्तरं नीयॆमानम्, कपिञ्जलेन मद्दर्शनात् 'अब्रह्मण्यम्' इत्यूर्वहस्तेन द्विगुणी-
भूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दुभाग्या
 
4
 
महाभागमद्राक्षम् ।
 
एवंविधो यः कर्पूरक्षोदो घनसारचूर्ण तदेव भस्म विभूतिस्तेन धवलं शुभ्रम् । आबद्धेति । आबद्धो मृणालस्य
तन्तुलस्य रक्षार्थ प्रतिसरो हस्तसूत्रं तेन मनोहरं शोभनम् । मनो इति । मनोभवव्रतवेषमास्थाय परिगृहां
मदीयो यः समागमस्तत्साधको मन्त्रस्तं साधयन्तमिवाराधयन्तमिव । इति मां सप्रणयं सस्नेहम् । चक्षुषा
इति । उपालभमानमिवोपालम्भं ददानमिव । इतिशब्दयोत्यमाह -- भो इति । भोः कठिनहृदये, दर्शनमात्र •
केणाप्ययमनुगतोऽनुरक्तो जनो न पुनरनुगृहीतो न स्वीकृतः । किंचिदिति । किंचिद्विवृतो योऽधर ओइ
स्तस्य भावस्तत्ता तया जीवितमपहर्तुं दूरीकर्तुमन्तः प्रविष्टैरिन्दुकिरणैश्चन्द्रकरैरिव निर्गच्छद्भिर्बहिरागच्छद्भि
र्दशनांशुभिर्दन्तकिरणैर्धवलितपुरोभागं शुभ्रीकृताम्रप्रदेशम् । मन्मथेति । मन्मथस्य कंदर्पस्य व्यथा पीडा
तया विघटमानं भिद्यमानं यद्धृदयं तत्र निहितेन स्थापितेन वामेन सव्येन पाणिना हस्तेन कृत्वा इति हृदय-
स्थितां मामिव धारयन्तं रक्षन्तम् । इतिवाच्यमाह - प्रसीदेति । हे प्राणसमे, त्वं प्रसीद प्रसन्ना भव ।
अथ च प्राणैः समं न गन्तव्यम् । प्राणा गच्छन्तु, परं त्वया न गन्तव्यमिति भावः । एतेन प्राणेभ्योऽप्य-
तिवल्लभा त्वमसीति ध्वनितम् । इतरेणेति । इतरेण दक्षिणपाणिनोत्तानीकृतेनोवकृतेन चन्द्रातपं कौमुदी
निवारयन्तमिव निषेधयन्तमिव । किं कुर्वता । चन्दनं मलयजं स्रवतेव क्षरतेव । कया । नखानां मयूखाः
किरणास्तैर्दन्तुरतया विषमोन्नततया । अन्तिकेति । अन्तिकस्थितेन समीपवर्तिनोद्रीवेणाचिरोद्गतमचिरं
तत्कालं गतं यज्जीवितं तस्य मार्ग पन्थानं विलोकयतेव• पश्यतेव एवंविधेन तपः सुहृदा तपस्यामित्रेण
कमण्डलुना कुण्डिकया समुपेतं सहितम् । कण्ठे आभरणीकृतेन च विभूषणीभूतेन च मृणालवलयेन बिस-
कटकेन । श्वेतत्वसाम्यादाह - रजनीति । रजनीकरश्चन्द्रस्तस्य किरणास्तल्लक्षणः पाशो बन्धनप्रन्थिस्तेनेव
संयम्य बढा लोकान्तरमन्यलोकं नीयमानं प्राप्यमाणम् । अत्रान्यः प्राकृतो जनो यमेन पाशेन बद्धा लोका-
न्तरं नीयते । अयं मुनिकुमार इति तदसंभवात्कण्ठेत्युक्तमिति भावः । मदिति । तदानीं मदर्शनादब्रह्मण्य -
मनुचितमित्यूर्ध्वहस्तेन कपिञ्जलेनाकोशता पूत्कुर्वता कण्ठे परिष्वक्तमालिङ्गितम् । कीदृशेन कपिञ्जलेन । द्विगु
णीभूतः पूर्वस्मादधिकीभूतो बाष्पस्य रोदनस्योद्गमः प्रादुर्भावो यस्मिन्स तेन । पुनः कीदृशम् । तत्क्षणे तत्काले
विगतं प्रनष्टं जीवितं प्राणितं यस्य स तम् । अन्वयस्तु प्रागेवोक्तः ।
 
W
 
टिप्प० - 1 किञ्चिद्विवृतः अधरो यस्य तद्भावस्तत्तया, इति व्याख्यानमुचितम् ।
 
पाठा० -- १ रक्षापरिसरमनोहरम्; रक्षाप्रतिसरतयातिमनोहरम् २ साधयन्तं मदनशरशल्यवेदनाकूणित त्रिभागेन
कठिन, ३ विघटमान, ४ रजनिकर, ५ उपनीयमानम् ६ व्यस्तहस्तेन. ७ अपक्रान्त.
 
y
 
३५१
 
.