कादम्बरी /383
This page has not been fully proofread.
३५०
[ कथायाम्-
चन्दनलेखिकया रचितललाटिकम्, ईषदालक्ष्यपरिवृत्ततारकेणानवरतरोदनताम्रेण प्राणो-
हंसर्गोपजातानुक्षयतया रुधिरमिव क्षरता मंदनशरशल्यवेदनाकूणितत्रिभागेन नाति निमी-
लितेन लोचनयुगलेन 'मैत्तोऽतिप्रियतरस्तवापरो जनो जात; ' इति कुपितेनेव जींवितेन
परित्यक्तम्, मन्मथव्यथया सहैतानसून्स्वयमिवोत्सृज्य निश्चेतनासुखमनुभवन्तम्, अनङ्ग-
योगविद्यामिव ध्यायन्तम् अपूर्वप्राणायाममिवाभ्यस्यन्तम् उपपादितास्मदागमनेन प्रण-
यादिषापहृतप्राणपूर्णपात्रमनङ्गेन, रँचितचन्दनललाटिकात्रिपुण्डूकम्, धुतसरस बिससूत्र-
यज्ञोपवीतम् अंसावसक्तकदलीगर्भपत्रचारुचीरम्, एकावलीविशालाक्षमालम्, अविर-
"
कादम्बरी ।
9
विनाशस्तलक्षण उत्पातस्तेनोत्पन्नया प्रकटीभूतया । पुनः कीदृशम् । एवंविधेन लोचनयुगलेन नेत्रयुग्मेन ।
उपेलक्षितमिति शेषः । अथ च लोचनयुगलं विशेषयन्नाह - ईषदिति । ईषत्किंचिदालक्ष्या दृश्याः परिवृत्ता
अमन्त्यस्तारकाः कनीनिका यस्मिन् । अनवरतं निरन्तरं रोदनमश्रुपातस्तेनाताम्रेणेषत्ताम्रवर्णेन । प्राणेति ।
प्राणस्य य उत्सर्गः परित्यागस्तत्रोपजातः समुत्पन्नो योऽश्रुक्षयस्तस्य भावस्तत्ता तया रुधिरमिव रक्तमिव क्षरता
प्रखवता । मदनेति । मदनशराणां कंदर्पबाणानां शल्यमन्तःस्थितशराग्रभागस्तस्य या वेदमा पीडा तया
कूणित ईषद्वक्रीकृतस्त्रि भागो यस्मिन् । नेत्रस्येति शेषः । नेति । नातिनिमीलितेन नातिमुद्रितेन । मत्त इति ।
मदिति मत्तः । सार्वविभक्तिकस्तस् । जीवितादपि तव कुमारस्यापरो जनो महाश्वेतारूपोऽतिप्रियतरोऽतिवल्लभो
आंत इति हेतोः कुपितेन कोपं प्राप्तेन जीवितेन प्राणितेन परित्यक्तमुज्झितम् । मन्मथेति । मन्मथस्य
कैदर्पस्य या व्यथा पीडा तथा सह स्वयमिवाकस्मादिवैतानसून्प्राणानुत्सृज्य त्यक्त्वा निश्चेतना सुखं सातं
तदनुभवन्तमनुभवविषयीकुर्वन्तम् । अनङ्गेति । अनङ्गस्य मनोभुवो जयार्थं या योगविद्या तां ध्यायन्तमिव
ध्यानविषयीकुर्वन्तमिव । अर्वेति । पूरकाभावादिति भावः । एवंविधं प्राणायामं प्राणनियमनमभ्यस्यन्तमिवा-
भ्यासं कुर्वन्तमिव । पूर्वं निःशब्दतया प्राणायामावस्थितत्वम् इदानीं तु पूरकाभावादिति भेदः । उपेति ।
उपपादितं निष्पादितमस्मदागमनं येनैवंभूतेनानङ्गेन प्रणयादिव स्नेहादिवापहृतमाकर्षितं प्राणलक्षणं पूर्णपात्रं
यस्मात्स तम् । 'उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । तत्पूर्णपात्रम्' इति वृद्धाः । रचितेति । रचितं
निर्मितं चन्दनेन ललाटिकासु त्रिपुण्ड्रकं येन तम् । पूर्वमर्धचन्द्राकारललाटिकावर्णनम् इदानीमर्धचन्द्रोपर
त्रिपुण्डूवर्णन मिति भेदः । धृतेति । धृतं धारितं सरसबिससूत्ररूपं यज्ञोपवीतं यज्ञसूत्रं येन स तम् ।
अंसेति । अंसे स्कन्धेऽवसक्तं स्थापितं कदलीगर्भपत्र वच्चारु मनोहरं चीरं येन स तमू । विशालेति ।
एकावल्येष विशाला विस्तीर्णाक्षमाला जपमाला यस्य स तम् । अविरलेति । अविरलो घनोऽमलो निर्मल
>
..
टिप्प० - 1 पुण्डरीकस्य द्वे विशेषणे एकीकृत्य पिण्डीकृतोऽयं पाठः । अत एव 'लोचनयुगलेन' इत्य.
तोऽग्रे 'मामसूययेव विलोकयन्तम्' इति पाठं संयोज्य एकं पुण्डरीकविशेषणं पूरणीयम् । अर्थस्स्वस्य स्पष्टः ।
'मत्तोऽतिप्रियतर ०' इत्यादिविशेषणं तु पृथक् स्पष्टं च । अनिच्छायामपि प्रकाशकानामनुरोधेन - मूल.
खारयमनवबुध्यमानस्य टीकाकारस्य च्छन्दानुकूलोऽपि ग्रस्थाननुकूलः पाठ उपरिस्थापनीयो भवतीति,
स्थाने स्थाने खेदाबसरः । 2 'निश्चेतनतासुखम्' इत्येव पाठः । चेतनायां जातायां नानाविधानि दुःखा-
युपतिष्ठन्त इति तदाशयः । उपरिभृतः पाठस्तु टीकानुकूल: । 3 पूरण-रेचनयोरभावः केवलं कुम्भकमेवेति
प्रचलितप्राणायामापेक्षयाऽपूर्वत्वम् । 4 मदनेन मम ( महाश्वेतायाः) भागमनरूपं प्रियकार्य संपाथ प्राण-
रूपं पूर्णपानं पुण्डरीकेण सह स्नेहवशाद पहृतम् । मदन-पुण्डरीकयोः नेहस्तु समानलावण्येन । हत्याशयो
मोध्यः । 5 गर्भपन्नमेव चीरमिति समासो योग्यः, पूर्वापरयोस्तथैव वेषवर्णनात् । टीकाकारस्तु प्रज्ञाचक्षुः ।
पाठा -१ क्षरता नाति. २ लोचनयुगलेन मामसूययेव विलोकयन्तं १ मत्तः प्रियतरः ४ मन्मथन्यथासहा-
मल, ५ निश्चेतनतासुखम् ६ रचितललाटिका ७ विकास.