This page has not been fully proofread.

उपरतः पुण्डरीकः ]
 
पूर्वभागः ।
 
केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा सरस्तीरसमीपवर्तिनि शिशिरशीकैरासारस्राविणि
शशिमणिशिलातले विरचितं कुमुदकुवलयकमलविविधवनकुसुमसुकुमारमालामयमिव मृणा-
लमयम्, कुसुमशरसायकमय मेव शयनमधिशयानम्, अतिनिष्पन्दतया मत्पदशब्दमिवा-
कर्णयन्तम्, अन्तः क्रोधशमितमदनसंतापतया तेत्क्षणलब्ध सुखप्रसुप्तमिव मुनिक्षोभप्राय
श्चित्तप्राणायामावस्थितमिव, अतिप्रस्फुरितप्रमेण त्वत्कृते ममेयमवस्थेति कथयन्तमिवाधरेण,
इन्दुद्वेषपरिवर्तितदेहतया पृष्ठभागनिपतितैर्मदनदहन विह्वलहृदयन्यस्तहस्तन खमयूखच्छन
छिद्रितमिण शशिकिरणैः, उच्छुष्कपाण्डुरया स्वविनाशोत्पातोत्पन्नया मदनचन्द्रकलयेव
 

 
३४९
 
OLE
 
तामेव विशेषयन्नाह
- केनेति । केनाप्यनिर्दिष्ट नाम्नोत्क्षिप्योत्पाट्य नीयमानेव प्राप्यमाणेव सरसोऽच्छोदनाम्न-
स्तीरं प्रतीरं तस्य समीपवर्तिनि निकटस्थायिनि । शिशिरेति । शिशिराः शीतला ये शीकरास्तेषामासारो
वेगवान्वृष्टिस्तस्य स्राविणि प्रक्षारिणि । एवंविधे शशिमणिशिलातले चन्द्रकान्तप्रस्तरे विरचितं निर्मितम् ।
कुमुदेति । कुमुदानि श्वेतकमलानि, कुवलयान्युत्पलानि, कमलानि नलिनानि, विविधान्यनेकप्रकाराणि
वनकुसुमान्यरण्यपुष्पाणि तेषां या सुकुमारा माला सक्तन्मयमिव मृणालमयं बिसनिष्पन्नम् । उद्दीपकत्वा
दाह - कुसुमेति । कुसुमशरः कंदर्पस्तस्य सायका बाणास्तन्मयमिव । एवंविधं शयनं शयनीयमधियान
शयनं कुर्वाणम् । मम पदे मत्पदे तयोः शब्दमाकर्णयन्तमिव शृण्वन्तमिव । यतः स मद्विषय उत्कण्ठित
हेतुमाह — अतीति । अतिनिष्पन्दतयातिनिश्चलतया । इयं नागतेति ममोपर्यन्तःक्रोधस्तेन शमितो मदनसंतापो
यस्य तस्य भावस्तत्ता तया तत्क्षणं लब्धं यत्सुखं तेन प्रसुप्तमिव । ममोपरि क्रोधकरणात् मदनेन संतापो
दूरीकृत इति भावः । मुनेर्ममं क्षोभस्त्वनुचित इत्यतस्तत्प्रायश्चित्तरूपो यः प्राणायामः प्राणयमस्तत्रावस्थितमिव
कृतावस्थानमिव । स चातिनिःस्पन्दतया क्रियत इति भावः । अतीति । अतिप्रस्फुरिता दीप्ता प्रभा कान्ति
यस्यैवं विधेनाधरेण रदनच्छदेन त्वत्कृते त्वन्निमित्तं ममेयं प्रत्यक्षोपलभ्यमानावस्था दशा जाता इति कथयन्त
मिव प्रतिपादयन्तमिव । इन्द्विति । इन्दुद्वेषेण चन्द्रद्विषा परिवर्तितः प्रत्यमुखीकृतो यो देहस्तस्य भावस्तत्ता
तया पृष्ठभागे पश्चाद्भागे निपतितैः शशिकिरणैश्चन्द्रालोकैः पृष्ठं भित्त्वा हृदयभागे गमनाभावेऽपि मदनलक्षणो
यो दहनो वहिस्तेन विह्वलं यद्धृदयं खान्तं तत्र न्यस्तः स्थापितो यो हस्तः पाणिस्तस्य नखमयूखाः पुनर्भव-
किरणास्तेषां छलेन मिषेण छिद्रितमिव संजातविवरमिव । अनेन देहस्य खच्छत्वं नखकिरणानामुदितारुणचन्द्र
किरणसादृश्यं व्यज्यते । मुनिकुमारं विशेषयन्नाह - उच्छुष्केति । चन्दनलेखिकया मलयजलेखया रचिता
निर्मिता ललाटिका यस्य स तम् । कीदृशया । उच्छुष्का चासौ पाण्डुरा चोच्छुष्कपाण्डुरा तया । अत एवं
शुष्कत्वव क्रत्वसाम्या दाह - मदनेति । मदनो यन्मथः स एव चन्द्रस्तस्य कलयेव । कीदृश्या । स्वस्य यो
 
टिप्प० - 1 मनसि यदा क्रोधोदयस्तदा मदनकृत उत्तापः शिथिलीभूतः, कामो हि मनोभूः । अत
एव मनसि स्वस्थ एव तस्योदयः । 2 धिग् ग्रन्थधूमकेतुम् । 'मनःक्षोभ' इत्येव पाठः । मनःक्षोभक
मदनवेगोत्पन्नचित्तोहेलनस्य ( तत्प्रयुक्तपापस्येत्याशयः ) प्रायश्चित्तरूपो यः त्राणायाम इति तदर्थः
3 वक्षसि स्थापितस्य करस्य नखकिरणास्तथा प्रसरन्ति यथा चन्द्रं प्रति पृष्ठं कृत्वा शयानस्यास्य पृष्ठं भिवा
चन्द्रकिरणा एव वक्षस्थलाइहिर्निःसृताः स्युरित्युत्प्रेक्षाशयः । 4 चन्द्रकलाकारा चन्दन रेखा तथा
प्रतीयते यथा स्वस्य ( पुण्डरीकस्य ) विनाशकारकोत्पाताय मदनसम्बन्धिनी चन्द्रकलैव उदिता भवेत्
असमये ग्रहादीनामुदय उत्पाताय भवतीत्याशयः । पदानामर्थबोधष्टीकातो निर्वाह्यः ।
 
पाठा० - १ शीकरस्राविणि २ कुवलय विविध ३ सुकुमारम्; मालामयम् ४ अन्तःकृत । तोपशामित; अन्तः
कोपशमित; अन्तः क्षोभशमित, ५ क्षण, ६ मनःक्षोभ ७ पाण्डुतया ८ स्वविनाशोत्पन्नया; स्वदेह विनाशोत्षन्नया.