This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
,
 

 

 
ऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि हा संय, अनाथमसि । हा
सुरलोक, शून्योऽसि । सखे प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि
भ॑वन्तं विना क्षणमध्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाय मामेकपदे उत्सृज्य
प्रयासि । कुतस्तवेयमतिनिष्ठुरता । कथय बहते व गच्छामि । कं याचे । कं शरणमुपैमि ।
अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः । निरर्थकं जीवितम्, अप्रयोजनं तपः, निःसुखाश्च
लोकाः । केन सह परिभ्रमामि । कैमालपामि । केन वार्ता करोमि । उत्तिष्ठ त्वम् । देहि मे
प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम क सा स्मैितपूर्वाभिभाषिता च' इत्येतानि चान्यानि
च विलपन्तं कपिञ्जलमश्रौषम् ।
 

 
तंच श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सँरस्तीरलतासक्तित्रुट्यमानांशुको-
सरीया, यथाशक्ति त्वरितैरज्ञात सम विषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पढ़े पढ़े,
 
निर्गतः परिग्रहः स्वीकारो यस्यैवंभूतोऽसि । अस्य कामविह्वलत्वे तव स्वीकारो नास्तीत्यर्थः । यद्वायमेव तव
स्थानपरिग्रहस्तस्य कामेव्याकुलत्वे तव स्थानं नास्तीत्यर्थः । हा तपः, त्वं निराश्रयं निर्गतस्थानमसि । हा सरस्वति
हा भारति, त्वं विधवा मृतभर्तृकासि । हा सत्य हा तथ्य, त्वमनाथं स्वामिरहितमसि । हा सुरलोक हा सुरालय,
त्वं शून्य उद्वसोऽसि । तेन विनेत्यर्थः । हे सखे पुण्डरीक, मां कपिञ्जलं प्रतिपालय प्रतिपालनां कुरु । अहमिति !
अहमपि भवन्तं त्वामनुयास्याम्यनुगमिष्यामि । न शक्नोमि न समर्थो भवामि भवन्तं त्वां विनैका क्यसहायः
क्षणमपि क्षणमात्रमप्यवस्थातुम् । अपरिचित इवासंजातसंस्तव इव, अदृष्टपूर्व इवानवलोकितपूर्व इव, अद्य मां.
कपिञ्जलमेकपदे सहसोत्सृज्य व्यक्त्वा कथं प्रयासि गच्छसि । तवेयमति निष्ठुरतातिकठिनता कुतः । त्वं कथय
प्रतिपादय । त्वदृते त्वब्यतिरेकेण व गच्छामि व व्रजामि । कं याचे कं प्रार्थये । कं शरणं त्राणमुपैमि गच्छामि ।
अहंमन्धः संवृत्तोऽस्मि चक्षुर्विकलो जातोऽस्मि । मे मम दिशः ककुभः शून्या उद्वसिता जाताः । त्वां विनेति
शेषः । निरिति । निरर्थकं निष्फलं जीवितं प्राणधारणम् । तपोऽप्रयोजनं कृत्यरहितम् । लोका इति । लोका
भुवनानि निःसुखाः सातवर्जिताः । केनेति । केन सह परिभ्रमामि परिभ्रमणं करोमि । कमिति । कं पुमांसम
निर्दिष्ट नामकमालपाम्यालापं करोमि । केनेति । केन सह वार्ता प्रवृत्तिं करोमि । त्वमिति । त्वं भवानुत्तिष्ठो-
त्थानं कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि । हे सुहृत् हे मित्र, ममोपरि तत्पूर्वसंबन्धि प्रेम स्नेहः क्व । स्मित-
पूर्वा हास्यपूर्विकाभिंभाषिताभिवादिता सा क्व । अन्वयस्तु प्रागेवोक्तः ।
 
तञ्चेति । तत्पूर्वोक्तं विलपितं श्रुत्वाकर्ण्य तं प्रदेशं गत्वाहं पापकारिणी मन्दभाग्या तं पुण्डरीकं महाभाग-
मद्राक्षमपश्यमिति दूरेणान्वयः । अथ तां विशेषयन्नाह — दूरेति । दूरादेव दविष्ठादेव मुक्त एकतारोऽत्युच
आक्रन्दः पूत्कारो यया सा । सर इति । सरसोऽच्छोदनाम्नो यास्तीरलताः प्रतीरवल्लयस्तासु सक्तिः संबन्धस्तया
त्रुद्व्यमानमंशुकेषूत्तरीयं निवसनं यस्याः सा तथा । पुनः किं कुर्वन्ती । पदे पदे पादप्रक्षेपैरङ्गिन्यासैः करण
भूतैः प्रस्खलन्ती स्वलनां प्राप्नुवन्ती । कैरिव । पतितैः प्राणैरिव । कीदृशैः । शक्तिमनतिक्रम्य यथाशक्ति ।
तेन त्वरितैस्त्वरायुक्तैः । अज्ञेति । अज्ञातोऽविदितो यः समविषमभूमिभागो भूप्रदेशस्तत्र विन्यस्तैः स्थापितैः ।
 
टिप्प० - 1 तस्य प्राणशून्यस्वे इति व्याख्यातव्यम् । 2 स्मितपूर्वम् अभिभाषते तच्छीलः स्मित
पूर्वाभिभाषी तद्भावः स्मितपूर्वाभिभाषिता, इति व्याख्यानमुचितम् टीकाकारस्तु अविवेकी । 3 जुल
मानम् अंधुकं परिधानवस्त्रम् उत्तरीयम् उपर्यावरणवस्त्रं च यस्याः सा ।
 
पाठा०-१ सत्यत्वम्. २ भवता. ३ कमालपामि । उत्तिष्ठ देहि ४ मे विलपत: ५ पूर्वाभिभाषिता. ६ तं च.
७ सरस्तीरलतानुषज्यमान. ८ विषमभाग.
 
Wi