कादम्बरी /380
This page has not been fully proofread.
महाश्वेताया अभिसारः ]
पूर्वभागः ।
धूसरं चरणयुगलं कैलासतटाञ्चन्द्रोदयप्रेसृतचन्द्रकान्तमणिप्रेस्रवणे झालयन्ती यस्मिन्प्रदेशे स
आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षान्नातिव्य कमुपा-
लक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का तेन सुतरां विदीर्णहृदयेव
किमप्यनिष्टमन्तःकथयतेष विषण्णेनान्तरात्मना 'तरलिके, किमिदम्' इति सभयमभिधाना
वेपमानगात्रयष्टिरैभिमुख मतित्वरितमगच्छम् ।
जैथ निशीथप्रभाषाहूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् ' हा हतोऽस्मि । हा दग्धो-
Sस्मि । हा वचितोऽस्मि । हा किमिदमापतितम् । किं वृत्तम् । उत्सन्नोऽस्मि । दुरात्मन्
मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणि दुर्विनीते
महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्र चाण्डाल, कृतार्थोऽसि । इदानी-
मपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः । कृतं यत्कर्तव्यम् वहेदानीं यथे-
ष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहो.
१
लतानामध्ववल्लीनां कुसुमरजोभिः पुष्परागैर्धूसरमीषत्पाण्डुरं चरणयुगलं पादयुग्मं क्षालयन्ती धावनं कुर्वन्ती
यस्मिन्प्रदेशे स कपिञ्जलः आस्ते तिष्ठति तस्मिन्नेव स्थलेऽस्याच्छोदाभिधानस्य सरसः पश्चिमे तटे पश्चिमदिग्वर्ति-
तीरे पुरुषस्येव पुरुष सदृशस्य विप्रकर्षाद्दूरान्नातिव्यक्तं नातिस्पष्टं रुदितध्वनिं ऋन्दितशब्दमुपालक्षयमुपलक्षितवती ।
दक्षिणेति । दक्षिणमपसव्यमीक्षणं लोचनं तस्य स्फुरणं स्पन्दनं तेन च प्रथममेवादावेव मनसि चित्त आहिता
स्थापिता शङ्कारेका यया सैवंविधाहं तदुपलक्षणानन्तरं तेन रुदितेन सुतरामतिशयेन विदीर्णहृदयेव विशीर्णस्वान्तेव
किमप्यनिष्टमशुभमन्तर्मध्ये कथयतेव ब्रुवतेव विषण्णेन विषादवतान्तरात्मना सेता हे तरलिके, सभयं यथास्यात्तथा
किमिदमित्यभिदधाना ब्रुवाणा वेपमाना गात्रयष्टिः शरीरयष्टिः ( यस्याः ) सैवंविधातित्वरितमतिशीघ्रमभिमुखं
संमुखमगच्छमत्रजम् ।
अथेति । आगमनानन्तरमित्येतान्यन्यानि वाक्यानि च विलपन्तं विलापं कुर्वन्तं कपिञ्जलमश्रौषमा कर्णयं
ताशविलापवाक्येनायं कपिजल एवेति निश्चितवती । इति शब्दार्थमाह - निशीथेति । निशीथोऽर्धरात्रं
तस्य प्रभावान्माहात्म्याहूरादेव विप्रकृष्टादेव विभाव्यमानो ज्ञायमानः स्वरो यस्य स तम् । दिवा कोलाहलेन
शब्दाः श्रोतुं न शक्यन्त इति भावः । पुनः कीदृशम् । उन्मुक्तेति । उन्मुक्त आर्तनादो येन स तम् । अथा-
तैखरान्विविच्य प्रदर्शयन्नाह - हा हत इति । हा इति खेदे । अहं हतस्ताडितोऽस्मि । हेति पूर्ववत् । दग्धो
ज्वलितोऽस्मि । हा वञ्चितो विप्रतारितोऽस्मि । हेति । किमिदमतर्कितमापतितम् । मच्छिरसीति शेषः ।
किमिदं वृत्तं निष्पन्नम् । उत्सन्नो मूलादुत्पाटितोऽस्मि । अहमिति शेषः । हे दुरात्मन् हे मदनपिशाच, हे पाप
हे पापिन्, हे निर्घृण हे निर्दय, किमिदमकृत्यमनुष्ठितमाचरितम् । आः पापे दुष्कृतकारिणि, दुर्विनीते शूलके हे
हे
महाश्वेते, ते तवानेन पुण्डरीकेण किमपकृतम् । कोऽयमनुपकारः कृतः । आः आक्रोशे । हे पाप पाप्मन्,
बुधरित दुराचार, हे चन्द्र चाण्डाल, त्वं कृतार्थः कृतकृत्योऽसि । इदानीं सांप्रतं हे अपगतदाक्षिण्य दूरीभूता-
नुकूल्य, हे दक्षिणानिलहतक, ते तव मनोरथाः पूर्णाः परिपूर्णीभूताः । हतक इति हीनोक्तिः । यदिति । यत्क-
र्तव्यं तत्कृतम् । इदानीं सांप्रतं यथेष्टं यथेच्छया वह संचर । हा भगवन् हा स्वामिन् श्वेतकेतो, पुत्रवत्सल
सुतहितकारक, आत्मानं स्वं मुषितमपहृतसर्वस्वं न वेत्सि न जानासि । हेति पूर्ववत् । हे धर्म हे वृष, त्वं.
टिप्प० – 1 घोरमज्ञानं टीकाकृतः । अन्तरात्मना ( करणेन) इदमभिदधानाऽगच्छम्, इत्युचितम् ।
पाठा० -१ प्रसुत; सुत. २ प्रस्रवणेन. ३ प्रक्षालयन्ती. ४ अवदीर्ण. ५ तदभिमुखम् ६ अति ७ उच्छिन्नोऽस्मि,
८ चण्डाल. ९ कृतं कर्तव्यम्.
0