कादम्बरी /38
This page has been fully proofread twice.
उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे ।
सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे ॥ ११ ॥
जगुर्गृहेऽ[^१]भ्यस्त समस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः।
निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः॥१२॥
हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव ।
अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ॥ १३ ॥
विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः ।
उषःसु लग्नाः श्रवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥ १४॥
तथा । पुनः कीदृशः । सताम् अग्रणी: साधूनामग्रेसरः । किंभूतः । अनेकेति । अनेकेऽसंख्या ये गुप्तागुप्तनामाङ्किता वैश्यशूद्रादयः । तदुक्तम् – 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥' इति । तैरर्चितं पादपङ्कजं चरणसरोजं यस्य स तथा । पुनः कीदृश इव । स्वयंभुवो
बह्मणोंsऽशोऽवतार एकदेशरूप इव।अतिवैदिकत्वादिति भावः॥१० ॥
उवासेति । यस्य कुबेरद्विजस्य मुख आनने सरस्वती वाग्देव्युवास । वसति स्मेत्यर्थः । किंभूते मुखे । श्रुतीति । श्रुतिभिर्वेदाध्ययनैः शान्तमुपशमितं कल्मषं पापं यस्य तत्तथा । परमपवित्र इत्यर्थः । पुनः कथंभूते । सदेति । सदा सर्वकालं पुरोडाशेनाग्निहोत्रे देवेभ्यो दत्तहविःशेषेण पवित्रितः पावनीकृतोऽधर ओष्ठो यस्य तत्तथा तस्मिन् । पुनः किंविशिष्टे । सोमेति । सोमेन सोमयागे सोमसंज्ञकलतारसेन कषायितं किंचित्कटुकीभूतमुदरं मध्यभागो यस्य तत्तथा तस्मिन् । सोमस्य किंचित्कटुत्वादिति भावः । पुनः कीदृशे । समस्तेति । समस्तानि समग्राणि यानि शास्त्राणि व्यासादिप्रणीतसूत्ररूपाणि स्मृतयश्च मन्वादिप्रणीता
धर्मनिबन्धास्तैर्बन्धुरम् । मनोहरमित्यर्थः । तस्मिन् ॥ ११ ॥
जगुरिति । यस्य कुबेरविप्रस्य गुहे बटवः शिष्यभूता ब्रह्मचारिणः शङ्किताः सत्रासाः सन्तो यजूंषि यजुर्वेदान् सामानि सामवेदांश्च जगुः । पठन्ति स्मेत्यर्थः । शङ्कितत्वे बीजमाह - किंभूता बटवः । निगृह्यमाणा निग्रहो निर्भर्त्सनं तेन त्रास्यमानाः । कस्मिन् । पदे पदे शुद्धपाठकैः शुकैः कीरैः । कथंभूतैस्तैः । ससारिकैः सारिकाभिः सह वर्तमानैः । अनेन सारिकाणामपि विद्यावत्त्वं सूचितम् । पुनः कथंभूतैः । पञ्जरवर्तिभिरिति । पञ्जरो लोहशलाकानिर्मितं पक्षिगृहं तत्र वर्तिभिः । तन्निष्ठैरित्यर्थः । पुनः कीदृशैः । अभ्यस्तेति ।
अभ्यस्तं जिह्वाग्रवर्ति समस्तं समग्रं चतुर्दशविद्यात्मकं वाङ्मयं येषां ते तथा तैः । समस्तविद्यापारंगतैरित्यर्थः । 'भवद्भिरशुद्धं पठ्यते । वयं गुरुनिकटे कथयित्वा ताडनं कारयिष्यामः ।' ईदृशं शुकवचनमाकर्ण्य ते भीताः सन्तः पठन्ति बटवः । यद्गृहे शुकानामप्येतादृशज्ञानमिति तन्महिमोपवर्णनम् ॥ १२ ॥
हिरण्येति । ततः कुबेरादर्थपतिनामा पुत्रोऽभूत् । किंभूतः । द्विजन्मनां ब्राह्मणानां पतिः श्रेष्ठः । क: कस्मादिव । यथा भुवनस्याण्डकं ब्रह्माण्डं तस्माद्धिरण्यगर्भः स्वयंभूः । हिरण्यगर्भोपमया वेदपारङ्गत्वं सूचितम् । पुनः कः कस्मादिव । क्षीरमहार्णवाद्दुग्धोदधेः क्षपाकरः शशाङ्क: ।क्षीरसमुद्रोत्थ- चन्द्रोपमया च समस्तजनाह्लादकत्वं सूचितम् । पुनः कः कस्मादिव । विनता पक्षिणी तस्या उदरात्कुक्षेः सुपर्णो गरुड इव । अनेन नारायणपरायणत्वं सूचितम् । गरुडपक्षे द्विजन्मनां पक्षिणाम् । ब्रह्मपक्षे चन्द्रपक्षे च द्विजन्मनां ब्राह्मणानां पतिरित्यपि योज्यम् ॥१३॥
विवृण्वत इति । नवा नवा नूतनाः । उत्तरोत्तरं बुद्धिशालिन इति यावत् । एतादृशाः शिष्यगणारछात्रचया यस्य अर्थपतेर्गुरोरधिकां श्रियं शोभां प्रचक्रिरे वितेनिरे । पुनः किंभूतस्य यस्य । दिने दिन उषःसु प्रातःसमयेषु विसारि विसरणशीलं वाङ्मयं चतुर्दशविद्यात्मकं विवृण्वतः । अध्यापयत इत्यर्थः । किंभूताः
शिष्याः । श्रवणे गुरोर्वचनाकर्णने लग्नाः सावधानाः । यद्वा । श्रवणे कर्णे लग्नाः । जगद्विदिता इत्यर्थः । क
[^१]G. 'ग्रस्त':

बह्मणों