This page has not been fully proofread.

कादम्बरी
 
"1
 
[ कथायाम -
 
३४६
 
इत्येवंवादिनीं च
 
Cikari
 
-
 
अपि नाम मामिवायमिन्दुहतकस्तमपि किरणकचग्रहाकृष्टमभिमुखमानयेत्'
मामसौ विहस्याब्रवीत्
– 'भर्तृदारिके, मुग्धासि । किमस्य तेन जनेन । अयमात्मनैव ताव-
न्मदनातुर इव भर्तृदारिकायास्तास्ताश्चेष्टाः करोति । तथा हि - प्रतिबिम्बच्छलेन वेदसलिले-
कणिकाश्चितं चुम्बति कपोलयुगलम् । लावण्यवति पयोधरभारे निपतति प्रस्फुरितकरः ।
स्पृशति रशनामणीन् । निर्मलनखलप्रमूर्तिः पादयोः पतति । किं चास्य मदमातुरस्येव वपुं-
तापाच्छुष्कचन्दनानुलेपपाण्डुतां वहँति । मृणालवलयधवलान्करान्धत्ते । प्रतिमाव्याजेन
स्फटिकमणिकट्टिमेषु निपतति । केतकीगर्भकेसरधूलिधूसरपादः कुमुदसरांस्यवगाहते । सलिल -
रूसी करार्द्रान्श शिमणीन्करैरामृशति । द्वेष्टि विघटितचक्रव कमिथुनानि कमलवनानि । एतै-
मान्यैध तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजो-
-
 
अयमिन्दुहतको मामिव तमपि पुण्डरीकमप्यभिमुखं संमुखमा नयेत्प्रापयेत् । कीदृशम् । किरेणैः पादैर्यः कचप्रहः
केशसहस्तेनाकृष्टमाकर्षितम् । एवंवादिनीमेवंब्रुवाणां च मामसौ तरलिका विहस्य हास्यं कृत्वाब्रवीदवोचत् । हें
भर्तृदारिके, त्वं मुग्धासि । अस्य चन्द्रहतकस्य तेन जनेन पुण्डरीकाख्येन किम् । कृत्यमिति शेषः । अयं
चन्द्रहतक आत्मनैव स्वयमेव मदनातुर इव कंदर्पपीडित इव भर्तृदारिकाया भवत्यास्तास्ताश्चेष्टाः कायन्या-
पारान्करोति विदधाति । एतदेव दर्शयति – तथा हीति । प्रतीति । प्रतिबिम्बच्छलेन प्रतिच्छायामिषेण
कपोलयुगलं चुम्बैति चुम्बनं करोति । तदेव विशिष्टि - स्वेदेति । स्वेदसलिलस्य घर्मजलस्य कणिका विप्रुष-
स्ताभिरचितं व्याप्तम् । एतेन कपोलयोः स्वच्छता विरहतप्तिश्च व्यज्यते । लावण्येति । लावण्यं लवणिमा
विद्यते यस्मिन्नेवभूते पयोधरभारे प्रस्फुरितः प्रकम्पितः करो येनैवंविधो निपतति । एतेन पयोधरयोर्जडत्वं
परिणाहविशेषश्च द्योत्येते । स्पृशतीति । रशना कटिमेखला तस्या मणीन्स्लानि स्पृशत्याश्लिषति । निर्म-
लेति । निर्मलाः खच्छा ये नखास्तत्र लग्ना मूर्तिर्यस्यैवंभूतः सन् पादयोः पतति । चन्द्रस्य कामुकत्वाभिव्यञ्ज-
कत्वमाह - किं चेति । अस्य चन्द्रस्य मदनातुरस्येव वपुः शरीरं तापाच्छुष्को यश्चन्दनानुलेपस्तद्वत्पाण्डुतां
शुभ्रतां वहति । मृणालेति । मृणालानि बिसानि तेषां वलयानि तद्वद्धवलान्करौन्हस्तान्धत्ते धारयति ।
प्रतिमेति । प्रतिमाव्याजेन प्रतिबिम्बच्छलेन स्फटिकमणीनां कुट्टिमानि तेषु निपतति । केतकीति ।
केतक्याः प्रसिद्धाया या गर्भकेसरधूलिस्तद्वद्धूसरौ पादौ यस्यैवंभूतः कुमुदसरांसि कैरवोपलक्षिततडागान्यवगाहते ।
सलिलेति । सलिलस्य जलस्य सीकरा वाताहतकणास्तै रार्द्राञ्शशिमणींश्चन्द्रकान्तान्करैर्हस्तैर्मृशति परामृशति ।
विघटितेति । विघटितानि भिन्नीभूतानि चक्रवाकमिथुनानि येभ्य एतादृशानि कमलवनानि द्वेष्टि द्वेषं.
करोति । तयेति । तया तरलिकया सहैतैः पूर्वोक्तैरन्यैश्चैतद्भिनैस्तत्कालोचितैस्तत्समययोग्यैराला पैः संभाषणैः
करणभूतैस्तमुद्देशं पूर्वोक्तभूविभागमभ्युपागमं समागमम् । तत्र चेति । तत्र तस्मिन् प्रदेशे कैलासतटाद्रजताद्रि-
शिखराचन्द्रोदयेन शशिप्रकाशेन प्रसृतं च्युतं यच्चन्द्रकान्तमणिप्रस्रवणं चन्द्राश्मनिर्झरणं तस्मिन् । मार्गेति । मार्ग-
टिप्प० - 1 अव्युत्पन्नस्यायं पाठः । 'करेण कन्चग्रहाकृष्टम्' इत्येव सुपाठः । करेण (किरणेन )
तद्रूपेण पाणिना, केशेषु यो ग्रहः तेनाकृष्टं सर्फ ममामिमुखमानवेत् । इति तदर्थः । 2 चुम्बतीव इत्य
र्थेन प्रतीयमानोस्प्रेक्षा । एवमग्रेऽपि । कामुकसंबन्धिकार्यद्वारा कामुकव्यवहारसमारोपात्समासोक्तिस्तु न
शया, अप्रस्तुतेन प्रस्तुतपरिस्फूत तस्वीकृतेः । भन्न तु- 'अयमात्मनैव तावत् ०' इत्यादिना चन्द्रस्यापि
प्रस्तुतत्ववर्णनात् । 3 किरणानित्यर्थ उचितः । 4 तथा धूसरः पादः ( किरण: ) एव पादः ( चरणः )
यस्य सः, इत्यर्थ उचितः । 5 कमलवनस्यान्वरायेण चऋद्वन्द्व विघटितं भवतीति दम्पत्योर्वियोगसंपादकं
कमलवनं वियोगतप्तश्चन्द्रो न सहत इत्यर्थः ।
 
पाठा..
 
Sexede
 
• १ मन्दु. २ करेण. ३ सा. ४ भर्तुदारिकायाम्. ५ कणिकात्चितम् १ चम्दनालेप ७ उहति ८ केतकि