This page has not been fully proofread.

महाश्वेताया अभिसार: ]
 
पूर्वभागः ।
 
३४५
 
श्रवणशिखर चुम्बिन्या व पारिजातमञ्जर्या पद्मरागरत्नरश्मि
विनिर्मितेनेवं रक्तांशुकेन कृत-
शिरोवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम् ।
अवतीर्य च पारिजातकुसुममञ्जरीपरिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता
मधुकरजालेन नीलपटावगुण्ठनविग्रॅममिव संपादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य
तत्समीपमुदचलम् ।
 
प्रयान्ती च तरलिकाद्वितीय परिजनमात्मानमवलोक्याचिन्तयम्- 'प्रियतमाभिसरण-
प्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन । नन्वेत एव परिजनलीलामुपदर्शयन्ति ।
तथा हि- समारोपितशरासनासक्तसायकोऽनुसरति कुसुमायुधः । दूरप्रसारितकर: करमिव
कर्षति शशी । प्रस्खलनभयास्पदे पदेऽवलम्बते रागः । लज्जां पृष्ठतः कृत्वा पुरः सहेन्द्रियै-
र्धावति हृदयम् । निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशं चावंदम् --'अयि तरलिके,
 
--
 
स्थापितयाक्षमालया जपमालया तथा. पारिजातमन्जर्या च । कीदृश्या । श्रवणयोः कर्णयोः शिखरमप्रं चुम्बती-
त्येवंशीला सा तया । एतेन विरहव्याकुलतया नवीनं किंचिन्न कृतमिति सूचितम् । पुनः कीदृशी । रक्तेति ।
रक्तांशुकेन लोहितवस्त्रेण कृतं शिरोवगुण्ठनं यया सा। रक्तत्वसाम्यादाह - पद्मेति । पद्मरागो लोहितक-
रत्ने तस्य रश्मिभिः कान्तिभिर्विनिर्मितेनेव रचितेनेव । केनेति । केनचिदात्मीयेनापि स्वकीयेनापि परिजनेन
परिच्छदेनानुपलक्ष्यमाणाज्ञायमाना । प्रकारान्तरेण तामेव विशेषयन्नाह - मध्विति । मधुकरा अमरास्तेषां जालेन
समूहेनानुबध्यमाना निरुध्यमाना । अथ मधुकरसमूहं वर्णयन्नाह - पारीति । पारिजातस्य मन्दारस्य या कुसुम-
मञ्जरी तस्याः परिमलस्तेनाकृष्टेनाकर्षितेन । अत एव रिक्तीकृतोपत्रनेन । सर्वस्य मधुकरस्य तत्रैव गमनादुपवनं रिक्ती-
भूतमिति भावः । किं कुर्वता मधुकरकुलेन । कुमुदवनानि कैरवखण्डान्यपहाय त्यक्त्वा धावता त्वरया गच्छता ।
पुनः किं कुर्वता । नीलेति । नीलपट: कृष्णांशुकं तस्यावगुण्ठनविभ्रममिव शिरोवेष्टन विलासमिव संपादयता
निष्पादयता । अन्वयस्तु प्रागेवोक्तः ।
 
FO
 
प्रयान्तीति । प्रयान्ती गच्छन्ती । तर इति । तरलिकैव द्वितीयः परिजनो यस्यैवंभूतमात्मानमवलोक्य
निरीक्ष्याहं महाश्वेताचिन्तयमध्यायम् । किं तदित्याह - प्रियेति । अतिशयेन प्रियः प्रियतमस्तस्याभिसरणमनु-
गमनं तत्र प्रवृत्तस्योद्युतस्य जनस्य बाह्येन बहिर्भूतेन परिजनेन किमिव कृत्यम् । न किमपीत्यर्थः । प्रस्तुतस्य
कुमारेण सह संगमरूपस्य कार्यस्य स्वनिकटवर्तिपरिचारिका स्वप्यन्तरङ्गत्वात्तरलिकायास्ततोऽपि संगोप्यमानत्वा-
दिति भावः । परिजनराहित्येऽपि तद्युक्ततां प्रदर्शयन्नाह - नन्विति । ननु निश्चयेन । एत एवाग्रे वक्ष्यमाण
परिजनलीलामुपदर्शयन्ति । तत्कृत्यतां प्रकटीकुर्वन्तीत्यर्थः । तदेव प्रकटयन्नाह - तथा हीति । समारोपित-
मधिज्यीकृतं यच्छरासनं धनुस्तनासक्त आयुक्तः सायको बाणो येनैवंभूतः कुसुमायुधो मदनोऽनुसरत्यनुगच्छति ।
उद्दीपकत्वात् । दूरं प्रसारिता विस्तारिताः करा हस्ता येनैवंविधः शशी चन्द्रः करमिव हस्तमित्र मां कर्षत्याक-
र्षणं करोति । प्रस्खलनेति । प्रस्खलनभयात्पतनभीतेः पदे पदे रागोऽवलम्बतेऽवलम्बनं करोति । अथ
चान्योऽपि सेवकः प्रस्खलनभयात्स्वामिनो॒ऽवलम्बनं करोति । लज्जामिति । लज्जां त्रपां पृष्ठतः पश्चामागे
कृत्वेन्द्रियैः करणैः सह हृदयं चेतः पुरोऽग्रे धावति त्वरया व्रजति । निश्चयमिति । कुमारविषयिण्युत्कण्ठो.
त्कलिका निश्चयमारोप्यायं निश्चयेन प्रियसंगमो भविष्यतीति कृत्वा मां नयति प्रापयति । अन्योऽपि सेवको
निश्चयमध्यवसायमारोप्यायं मदीयस्वामीति निश्चित्य नयति । अभिलषितस्थलमिति शेषः । प्रकाशं प्रकटं यथा
स्यात्तथाहमित्यवदमवोचम् । किं तदित्याह - अयीति । अयि कोमलामन्त्रणे । हे तरलिके, अपिनाम प्रश्ने ।
टिप्प० - 1 प्रियसंबन्धि तदिदं मण्डनमिति शरीरात्पृथकर्तु नाशाकि इति तु न स्मृतं वराकेण ।
2 ममेत्युचितम् ।
 
पाठा० -१ निर्मितेन, १ बिअमाम् १ द्वितीयमपरिजनम् ४ भालोक्य ५ दूरम, ६ करः कर्षति,
 
४४ का ०