कादम्बरी /377
This page has not been fully proofread.
३४४
कादम्बरी ।
यचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितास्वितस्ततः
रिकासु, प्रतिकुमुदद्माबद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु, स्फुटित-.
कुमुदवनबहलधूलिधवलितोदरे निशानदी पुलिनायमानेऽन्तरिक्षे, चन्द्रोदयानन्दनिर्भरे महो-
धाविव रतिरसमय इव उत्सवमय इव विलासमय इव प्रीतिमय इव जीवलोके, शशिम-
णिप्रणालनिर्झरे प्रमोदमुखरमयूररवरम्ये प्रदोषसमये, गृहीत विविधकुसुमताम्बूलाङ्गरागपट-
वासचूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्च्छानिहितेन किंचिदाश्यानचन्दनललाटिकाल-
मधूसराकुलालकेन चन्दनरसचर्चाङ्गरागवेषेणार्द्रेण तथैव च तया कण्ठस्थितयाक्षमालया
[ कथायाम-
पलायमानास्वमिसा-
4
MOD
सेत्सु । पुनः कासु । अभिसारिकासु सत्सु । संकेतितं स्थानं या अभिगच्छम्ति ता अभिसारिकाः स्त्रियः
कॅथ्यन्ते । अथ चाभिसारिकां विशेषयन्नाह - नीलेति । नीलांशुकेन श्यामवस्त्रेण रचितं निर्मितमवगुण्ठनं
शिरो॑शुकं यासां तासु । नीलवस्त्रावृतत्वेन कैश्चिज्ज्ञातुं न शक्यन्त इति भावः । चन्द्रेति । चन्द्रस्य शशिनो
ये आलोकः प्रकाशस्तस्माद्यद्भयं तेन चकितासु त्रस्तासु । नीलावगुण्ठन विशिष्टाभिसारिकोपमानमाह - कम
लेति । कमलवनानां नलिनखण्डानां लक्ष्म्यः श्रियस्ताखिव । कीदृशीषु । नीलेति । नीलोत्पलानामि-
नंदीवराणां प्रभाः कान्तयस्ताभिः पिहितासु स्थगितासु । भयचकितत्वादाह — इतेति । इतस्ततः समन्तात्प-
लायमानासु धावमानासु । प्रबुध्येति । प्रबुध्यमानासु प्रबोधं प्राप्यमाणासु । पुनः कस्मिन्सति ।
अन्तरिक्ष आकाशे सति । अथाकाशं विशिष्ट – स्फुटितेति । स्फुटितं विकसितं यत्कुमुदवनं कैरवखण्डं
तस्य बहला निबिडा या धूलि: परागस्तया धवलितं शुभ्रतमुदरं मध्यं यस्य स तथा तस्मिन् । अन्तरिक्षस्य
धवलितत्वसाम्येनाह — निशा रात्रिरेव नदी तटिनी तस्याः पुलिनायमाने जलोज्झितप्रतीरायमाणे । पुनः
कस्मिन्सति । जीवलोके सति विश्वे सति । कीदृशे । चन्द्रोदयलक्षणो य आनन्दः प्रमोदस्तस्य निर्भरोऽतिशयो
यस्मिन् । तस्य निरवधित्वा दुत्प्रेक्षते – महोदधाविव महाम्भोधाविव । रसादीनां चतुर्णां जनकत्वाच्चतुर्भिरुत्प्रे-
क्षते - रतीति । रतिरसः शृङ्गारस्तन्मय इव । उत्सवो महस्तन्मय इव, विलासो लीला तन्मय इव,
स्नेहस्तन्मय इव । सर्वत्र यकारलोपः । समयाद्यनुसरणमाह - प्रदोषेति । प्रदोषो यामिनीमुखं स एव समय:
प्रीतिः
क्षणस्तस्मिन् । प्रदोषलक्षणं विशेषयन्नाह - शशीति । शशिमणयश्चन्द्रकान्तास्तैर्निबद्धाः प्रणाला जलमार्गास्तेषां
निर्झरा घनगर्जनानुकारिणस्तेभ्यो यः प्रमोदस्तेन मुखरा काचाला ये मयूरा बर्हिणस्तेषां रवः शब्दस्तेन रम्ये
मनोहरे । गृहीतेति । गृहीतान्यात्तानि विविधकुसुमताम्बूलाङ्गरागपटवासचूर्णानि ययैवंविधया तरलिकया
पूर्वोक्तयानुगम्यमानानुव्रज्यमाना । पुनः कीदृशी । तेनैवेति । तेनैव मूर्च्छाकालनिहितेन स्थापितेन चन्दन-
रसेन चर्चा मण्डनमङ्गरागो विलेपनं यस्मिन्नेवंविधो यो वेषो नेपथ्यं तेन । कीदृशेन । किंचिदाश्यानाशुष्का
चन्दनललाटिका तिलक विशेषस्तस्यां लग्ना धूसराः किंचित्पाण्डुरा आकुला विकीर्णा अलकाः केशा यस्मिंस्तेन ।
पुनः कीदृशेन । आर्द्रेण । अशुध्केणेत्यर्थः । तथेति । तथैव पूर्वोक्तप्रकारेणैव कण्ठस्थितया निगरण-
।
टिप्प० – 1 पदे पदे स्खलनं महापण्डितस्य । 'पूर्व क्रियमाणेषु सत्सु' इति स्वयं व्याख्यायाऽपि,
अत्र 'राजमार्गेषु सत्सु ' इत्युच्यते । राजमार्गेषु दूतीसहस्र संकुलेषु सत्सु ' इत्युचितम् । एवमप्रेपि ।
2 व्याख्या विस्मृता भ्रष्टा वा अतः भवनस्य या दीर्घिकाः वाप्यस्तत्संबन्धिनीषु कुमुदिनीषु प्रबुध्यमा
नासु सतीषु । कीदृशीषु । प्रतिकुमुदं प्रत्येककुमुदपुष्पेषु आबद्धं धृतं मधुकरमण्डलं याभिस्तासु ।
3 चन्द्रकरस्पर्शेन द्रवन्तः शशिमणय एव प्रणालाः जलनिर्गमनालानि तेषां निर्झरो यस्मिन्, अत एव
वर्षा भ्रमेण प्रमोदमुखरा ये मयूरास्तेषां रवेण रम्ये । टीकार्थस्तु प्रलापः ।
पाठा०—१ सनीलोत्पलप्रभासु. २ प्रीतिमय इष मवनमय इव विलासमय इव.