This page has not been fully proofread.

महाश्वेताया अभिसारः ]
 
पूर्वभागः ।
 
दयितमायासकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छा स्वेद विहलैरङ्गैः कथंचिदवलम्ब्य
तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजात-
शङ्का चाचिन्तयम्
– 'इदमपरं किमप्युपक्षिप्तं दैवेन' इति ।
 
अथ नातिदूरोद्गतेन त्रिभुवनप्रासाद महाप्रणालानुकारिणा सुधासलिलप्रवानिव वहता
चन्दनरस निर्झर
निकरानिव क्षरतामृतसागरपूरानवोद्भिरता श्वेतगङ्गाप्रवाह सहस्राणीव वमता
चन्द्रमण्डलेन है।व्यमाने ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोकदर्शन सुख-
मिवानुभवति जने, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवोद्भियमाणे मही
मण्डले, प्रतिभवनमङ्गनाजनेन विकचकुमुदगन्धैश्चन्दनोद कैरुपहियमाणेषु चन्द्रोदयार्घेषु,
कामिनीप्रहित सुरतदूतीसहस्र संकुलेषु राजमार्गेषु, नीलांशुकरचितावगुण्ठनासु चन्द्रालोकभ-
संगमरूपेण समाधानं करिष्यामीत्याशयः । इत्यभिदधातिब्रुवाणा । मदनेति । मदनमूर्च्छया जनितो यः
खेदस्तेन विह्वलैर्व्याकुलैरङ्गैर्हस्तपादादिभिः कथंचिन्महता कष्टेन तामेव तरलिकामवलम्ब्यालम्बनीकृत्योदतिष्ठं
मुत्थितवती । उच्चेति । उच्चलिताया उत्प्राबल्येन प्रस्थिताया मे मम दुर्निमित्तं कुमारस्य विगतजी वितत्वादिकं
तस्य निवेदकं ज्ञापकं दक्षिणं सव्येतरं लोचनं नयनमस्पन्दतास्फुरत् । उपेति । उपजाता समुत्पन्ना शङ्का-
निष्टोत्प्रेक्षणं यस्या एवंविधा चाहमित्यचिन्तयमित्यध्यायम् । इति प्रतिपाद्यमाह - इदमिति । दैवेन विधिना-
परमिदं किमुपक्षिप्तं निक्षिप्तम् ।
 
.
 
अथेति । दुर्निमित्तोपागमानन्तरं प्रदोषसमय एव यामिनीमुख एव तस्मात्प्रासादशिखरात्पूर्वोक्त सौध-
प्रान्तादवातरमुत्तीर्णां । उत्तीर्य च प्रमदवनपक्षद्वारेण पक्षकेण निर्गत्य निर्गमनं कृत्वाहं महाश्वेता एव तत्समीपं
पुण्डरीका भ्यर्णमुदचलमुद्गच्छमिति दूरेणान्वयः । कस्मिन्सति । चन्द्रमण्डलेन शशिबिम्बेन ज्योत्स्नया कौमुद्या
भुवनान्तराले विष्टैपविशाले प्लाव्यमाने पूर्यमाणे सतीत्यर्थः । कीदृशेन चन्द्रमण्डलेन । नातिदूरोद्गतेनाति विप्र-
शेदितेन । अत्र च ज्योत्स्नायाः श्वेतत्वसंतोषजनकत्वस्वभावतया सुधासाम्येन तां वर्णयितुं चन्द्रमण्डल-
विशेषणमाह - सुधेति । सुधा पीयूषं तृषोपशामकत्वात् तदेव सलिलं तस्य लवाः पूरास्तानिव वहता
दघता । सलिलं गेहप्रणालेन गच्छतीत्याशयेनाह – त्रिभुवनेति । त्रिभुवनमेव प्रासादो देवगृहं तस्य महा
प्रणालानुकारिणा जलमार्ग सादृश्यधारिणा । पुनस्तेनैव साम्येन द्विधा वर्णयशाह - चन्दनेति । चन्दनरसस्य
मलयजद्रवस्य यो निर्झरो झरस्तस्य निकरानिव समूहानिव क्षरता क्षरणं कुर्वता । अमृतेति । अमृतस्य
यः सागरः समुद्रस्तस्य पूरानिव लवानिवोद्गिरता वमता । श्वेतेति । श्वेतगङ्गायाः श्वेतजाहव्याः प्रवाहा-
णामोघानां सहस्राणीव वमतोद्गिरता । श्वेतेति । श्वेतद्वीपे यो निवासस्तमिव सोमलोकस्य यद्दर्शनमुख
तदिव जनेऽनुभवति साक्षात्कुर्वति सति । महेति । महावराहस्यादिवराहस्य यद्दंष्ट्रामण्डलं तस्य निभेन
सदृशेन शशिना चन्द्रेण । इदं च शशिनः किंचित्कलाहीनत्वमादायेयुक्तम् । अन्यथा दंष्ट्राया वक्रत्वेन
चन्द्रमण्डलस्य गर्तुलत्वेन साम्यं न स्यात् । क्षीरेति । क्षीरसागरोदराहुग्धोदधिमध्यान्महीमण्डल उद्धियमाण
इन बहिर्निष्काश्यमान इब । परमेश्वरेण महावराहरूपं धृत्वा मही समुद्रे मज्जन्ती दंष्ट्रायां धृतेति पुराणप्रसिद्धिः ।
प्रतीति । प्रतिभवनं प्रतिगृहमङ्गनाजनेन स्रीजनेन विकचकुमुदानां विकस्वरकैरवाणां गन्धो येष्वेवंविधैश्च-
न्दनोदकैश्चन्द्रोदयार्घेषु शशाङ्कोद्गमनपूजासूपहियमाणेषु क्रियमाणेषु सत्सु । कामिनीति । कामिनीभिः
जीभिः प्रहिताः प्रेषिता याः सुरतार्थ दूत्यः संचारिका स्तासां सहस्रं तेन संकुलेषु व्याप्तेषु राजमार्गेषु श्रीपथेषु
टिप्प० -1 मदमस मूर्च्छया वृद्ध्या । वस्तुतस्तु - मदनेन, मूर्च्छया ( या हि पूर्व वर्णिता कविना),
स्वेदेन एतैलिमिः ( हेतुभिः) बिहलैः मातुरैः, इत्यर्थः । 2 विष्टपमध्ये इत्यर्थ उचितः ।
 
पाडा० -१ खेद. २ पुरान्. ३ आठाव्यमाने.