This page has not been fully proofread.

३४२
 
कादम्बरी ।
 
[ कथायाम् -
 
लिकामपश्यम्, उन्मीलितलोचनां च मां सा कृतपादप्रणामा चन्दनपकार्द्रेण करयुगलेन
बद्धाञ्जलिरवादीत्
– 'भर्तृदारिके, किं लजया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् ।
आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ । स्वयं वा तत्र गम्यताम् । अतः परमसमर्थासि
सोढुमिमं प्रबलचन्द्रोदय विजृम्भमाणोत्कलिकाशतमुद्धिमिव मकरचिह्नम्' इत्येवंवादिनीं
तामवोचम् – 'उन्मत्ते, किं मन्मथेन । नन्वयं सर्वविकल्पानपाहरन्, सर्वोपायदर्शनान्युत्सा-
रयन्, अन्तरायानन्तरयन्, सर्वसंदेहानपनयन्, सर्वशङ्कास्तिरस्कुर्वन् लज्जामुन्मूलयन्,
स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन् आगत एव मृत्योस्तस्यैव वा
सकाशं नेता कुमुदबान्धवः । तदुत्तिष्ठ । यथाकथंचिदॆनुगमनेन जीविता संभावयामि हृदय-

 

 
यान्धकारितं विच्छायितं मुखं यस्याः सा तां रुदन्तीं रोदनं कुर्वन्तीं तामेव तरलिकामपश्यमव (वा) लोकयम् ।
उन्मीलितेति । उन्मीलिते विकसिते लोचने नेत्रे यस्याः सा ताम् । एवंविधां मां सा तरलिका । कृतेति ।
कृतो विहितः पादयोश्चरणयोः प्रणामो नतिर्यया सा । चन्दनेति । चन्दनस्य मलयजस्य पङ्कः कर्दमस्तेना-
द्रेण क्लिन्जेन करयुगलेन हस्तयुग्मेन बद्धोऽञ्जलिर्यया सैवंविधावादीदवोचत् । किं तदित्याह - भर्त्रिति । हे भर्तृ
दारिके, किं लज्जया त्रपया । गुरुजनानां मातृपित्रादीनामपेक्षया वा किम् । प्रसीद प्रसन्ना भव । मां तत्र
प्रेषय प्रेषणं कुरु । ते तव हृदयदयितं प्राणप्रियमेतादृशं जनमानयाम्यानयनं करोमि । वेति पक्षान्तरे । उत्ति-
ष्टोत्थानं कुरु । तत्र तस्मिन्स्थले गम्यतां गमनं क्रियताम् । इतः परं मकरचिह्नं मन्मथं सोढुमसमर्थाक्षमासि ।
कमिव । उदधिमिव समुद्रमिव । तत्र मकरा मत्स्याश्विानि यस्य । एतादृशसाम्येऽपि साम्यान्तरमाह - प्रब
लेति । प्रबल: प्रकृष्टो यश्चन्द्रोदयस्तेन विजृम्भमाणा वृद्धिं प्राप्ता उत्कलिका उत्कण्ठास्तासां शतं यस्मात् । अथ
तरङ्गाणामुत्कलिका आरोहावरोहरूपास्तासां शतं यस्मिन्नित्येवंवादिनीं तां तरलिकामवोचमवदम् । किं तदि-
त्याह - उन्मत्ते इति । हे उन्मत्ते परवेदनायाः स्वानुभववदनभिज्ञे तरलिके, मन्मथेन कंदर्पेणैकेन कि
स्यात् । नन्वाक्षेपे । अयं मृत्योर्मरणस्य तस्यैव वा कुमारस्य सकाशं समीपं नेता प्रापकः कुमुदबान्धवश्चन्द्र आगत
एव प्राप्त एव । एतेन चन्द्रस्योद्दीपकत्वाद्विरह वेदनायास्तीत्वात्कुमार निकटेऽपि समागमनमशक्यमित्युत्कण्ठा-
तिशयो दर्शितः । किं कुर्वन् । सर्वेति । सर्वविकल्पान्समप्रचिन्तिता नपाहरन्नपहरणं कुर्वन् । सर्वेति । सर्वे
समग्रा ये उपायाश्चन्दनवासप्रक्षेपादयस्तेषां दर्शनानि सारयन्दूरीकुर्वन् । अन्तरायेति । अन्त-
राया अयं मुनिकुमारोऽहं च राजकुलोत्पन्नेत्युभयोर्विलक्षण कुलशील स्वभावलोकगर्हारूपास्तानन्तरयन्व्यवधानं
कुर्वन् । सर्वेति । एतदनुसरणे किंचिदनिष्टं स्यादित्येवंरूपाः सर्वे ये संदेहा द्वापरास्तानपनयन्दूरीकुर्वन् ।
सर्वेति । सर्वाश्च ताः शङ्का मातृपितृवर्गात्समुद्भूता आरेकास्तास्तिरस्कुर्वन्यकुर्वन् । लज्जेति । लज्जां त्रपा-
मुन्मूलयन (न् छि)च्छिन्दन् । स्वयमिति । स्वयमात्मनाभिगमने तदनुसरणे लाघवदोषं लघुतादूषणमातृण्व-
नाच्छादयन् । कालेति । कालस्य समयस्यातिपातमविलम्बं परिहरन्परित्यजन् । तत्तस्मात्कारणादुत्तिष्ठोत्थानं
कुरु । अतित्वरयेति शेषः । एतेनानुसरणे आदरातिशयः सूचितः । अनुगमनेन यथाकथंचिद्यदि जीविता
श्वसिता तदा यन्निमित्तमायासोऽनुभूयते तमायासकारिणं हृदयदयितं जनं संभावयामि । अनुसरणफलीभूतेन सह
 
टिप्प० - 1 विजृम्भमाणम् तरङ्गशतं यस्मिन् इत्यर्थः । टीकाकारस्य तु प्रलापः । 2 'इदं वा कर्त-
व्यम्, इदं वा' इत्यादिवितर्कान् । 3 दृश्यते अयमुपायो जीवरक्षणाय, इति दर्शनानि ज्ञानानि ।
4 'सर्वानन्तरायान्' इत्येव प्रक्रमानुकूलः पाठः । टीकाकारस्तु सर्वथा शून्यः । 5 बिलम्बमित्युचितम् ।
 
२ उन्मत्तिके.
 
३ अपहरम्. ४ सर्वानन्तरायान्.
 
५ अनुगमनजीवना;
 
पाठा० - १ तामहमवोचम्.
अनुगतजीविता.