कादम्बरी /374
This page has not been fully proofread.
महाश्वेताया अमिसार: ]
पूर्वभागः ।
३४१
णीकृतमिव, रतिकलहकुपितरोहिणीचरणालक्तरसलाञ्छितमिवाभिनवोदयरागलोहितं रजनी-
करमुदितं विलोक्यान्तर्ज्वलितमदनान लाप्यन्धकारितहृदया तरलिकोत्सङ्ग विधृतशरीरापि मन्म-
थहस्तवर्तिनी चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणमचिन्तयम्, – 'एकत्र खलु मेधु-
मासमलयमारुतप्रभृतयः समस्ताः, एकत्र चायं पापकारी चन्द्रहतको न शक्यते सोदुम् ।
इदमतिदुर्विषहं मे हृदयम् । अस्य चोद्गमनमिदं सदाहज्वरमस्तस्याङ्गारवर्षः, शीतार्तस्य तुषार-
पातः, विषैविस्फोटमूर्च्छितस्य कृष्णसर्पदंशः इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमल-
वनम्लानिनिद्रेव मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीता-
भिश्चन्दनचर्चाभिस्तालवृन्तानिलैचोपलब्धसंज्ञा तामेवाकुलाकुलां मूर्तेनेवाधिष्ठितां विषादेन
मल्ललाट विघृत स्रवचन्द्रकान्तमणिशला काम विच्छिन्नबाष्पजलधारान्धकारितमुखीं रुदन्तीं तर-
,
-
सिंहो हर्यक्षस्तस्य करतलेन चपेटयाहतस्ताडितो यो हरिणः तस्य शोणितं रुधिरं तेन शोणीकृतमिव रक्तीकृत-
मिव । रतिकलहेन कामकलहेन कुपिता कोपं प्राप्ता या रोहिणी चन्द्रस्त्री तस्याश्चरणौ पादौ तयोरलक्तरसो याव
कद्रवस्तेन लाञ्छितमिव चिह्नितमिव । अथ महाश्वेतां विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलितो मदना-
नलः कामवह्निर्यस्यामेवंविधाप्यन्धकारितं हृदयं यस्या इति । अन्धकारप्रज्वलनयोर्मिथो विरोधात् । तरलि
केति । तरलिकाया उत्सङ्गः क्रोडस्तत्र विधृतं स्थापितं शरीरं देहो यया एवंविधापि मन्मथहस्तवर्तिनी कंदर्प-
करगतेति विरोधः । चन्द्रेति । चन्द्रे शशाङ्के गते प्राप्ते नयने लोचने यस्याः एवंविधापि मृत्युं मरण मालोक -
यन्तीति विरोधः । अत्र सर्वत्रापिशब्दो विरोधालंकारद्योतकः । एतत्परिहारश्चार्थभेदेन स्वयमूह्यः । स्वस्य संकट-
प्रविष्टतामावेदयन्त्याह - एकत्रेति । खलु निश्चयेन । एकत्रैकस्मिन्स्थले मधुमासमलयमारुतप्रभृतयः समस्ताः ॥
एतेषामुद्दीपकत्वादेवोपादानम् । एकत्रेति । एकस्मिन्स्थले पापकारी पापिष्ठश्चन्द्र एव हतको हत्याकृत्सोढुं
न शक्यते न पार्यते । विरहिणीहृदयस्य दुःखासहिष्णुत्वमा विः कुर्वन्नाह - इदमिति । अतिदुःखेन विषहत
इति दुर्विषहं हृदयं तथा । अस्य चन्द्रस्येदमुद्गमनं सदाहेन वर्तमानो ज्वरस्तापस्तेन प्रस्तस्य । अङ्गारेति ।
अङ्गारवर्ष उल्कवृष्टिः । अङ्गारः साग्निर्निरग्निश्च द्विविधो वर्ण्यते । सानौ यथा -
-'अङ्गारचुम्बितमिव
व्यथमानमास्ते'; निरनौ यथा - 'कलङ्कस्तत्रयो व्रजति मलिनाङ्गारतुलनाम्' इत्यादि प्रयोगः । शीतेति ।
शीतार्तस्य शीतपीडितस्य तुषारो हिमं तस्य पातः पतनम् । विषेति । विषं गरलं तस्य विस्फोटकेन मूर्दिछ-
तस्य मूर्च्छा प्राप्तस्य कृष्णसर्पस्य दंशो दशनम् । एतादृशमुद्गमनम् । इत्येवं चिन्तयन्तीं ध्यायन्तीमेव मूर्च्छा मां
निमीलिते लोचने नेत्रे यस्या एवंविधामकार्षीत् । केव । चन्द्रोदयेन शशाङ्कोद्गमनेनोपनीता प्रापिता कमल-
वनस्य म्लानिः संकोचस्तस्मिन्या निद्रा सेव । अचिरेणेति । अल्पकालेन संभ्रान्ता व्यामोहं प्राप्ता या तर
लिका तयोपनीताभिरानीता भिश्चन्दनचर्चाभिर्मलयजसमालम्बनैस्तालवृन्ता निलैश्च व्यजनवातैश्चोपलब्धा संज्ञा
चैतन्यं यया सा तामेव तरलिकामा कुलाकुलामुत्पिञ्जलां मूर्तेनेव विषादेनाधिष्ठितामाश्रिताम् । मदिति । मम
ललाटे मदली के विधृता स्थापिता स्रवन्ती जलं क्षरन्ती चन्द्रकान्तमणिशलाका यया सा ताम् । अस्या जलस्या-
तिशीतलत्वात्तत्स्थापनमुचितमेवेति भावः । अवीति । अविच्छिन्नात्रुटिता बाष्पजलधारा नेत्रवारिसंतति स्त-
-
टिप्प० – 1 अन्धकारो विरहेण प्रमोदराहित्यमिति समाधानम् । 2 मन्मथवशीभूतेति समाधानम् ।
3 प्रियसमागमाभावे स्मरतापात्संमुख स्थं मरणं संभावयन्तीति समाधानम् । 4 उद्दीपन कार्ये मलयमारु-
तादीनां बहूनां प्रातिद्वन्द्व्ये अयमेक एव चन्द्रस्तुल्य इति 'एकत्रायम्' इत्यादेस्तात्पर्यम् । 5 प्रलापोयम् ।
अत एव 'इदमतिदुर्विषहमदनवेदनातुरं च' इत्येव पाठः । अतिदुःसहया मदनवेदनया भातुरं विह्वलमिति
तदर्थ: । 6 अन्त्र व्याख्या मूका। विषवज्वालाजनकेन व्रणविशेषेण । इत्यर्थो बोध्यः । 7 म्लानिरेव निद्रा ।
-१ लोहितं. २ मदनमधु ३ चापकारी, ४ दुर्विषमदनवेदनातुरं च दुर्विषहहृदयम्. ५ विषस्फोट.
पाठा०
lentes
。
६ विचिन्तयन्तीम्. ७ ग्लानि.