कादम्बरी /373
This page has not been fully proofread.
३४०
कादम्बरी ।
[ कथायाम्-
नम्, उदयगिरिसिद्धसुन्दरीकुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजल-
धिजलकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दु-
धान्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रमेव ज्योत्सा निः-
पतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलाद वनी मे वीर्योद्गच्छता शेषफणामण्डले-
नेव रेंजनीकरबिम्बेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्ल-
भेन किंचिदुन्मुक्तबालभावेन मकरध्वजबन्धुभूतेन समुपारूढ रागेण सुरतोत्सवोपभोगकयो-
ग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीयतामनीयत यामिनी ।
अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिव, उदयगिरि सिंहकरतलाह तहॅरिणशोणितशो-
स्त्रियस्तासां कुचाः पयोधरास्तेभ्यश्व्युतेन गलितेन चन्दनचूर्ण राशिनेव मलयजक्षोदसमूहेनेव पाण्डुरी क्रियमाणं
शुभ्रतामापाद्यमानम् । चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्राम्भस्तस्य कल्लोलानिलैस्तरङ्गवायुभि
रुल्लासितेनोल्लासं प्रापितेन वेलाम्भसो वृद्धिस्तस्याः पुलिनं जलोज्झितं तटं तस्य सिकता वालुका तस्या उद्गमे-
नेव प्रकटनेनेव । शनैः शनैर्मन्दमन्दं ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । विशदत्वसाम्येनाह-
दशनेति । चन्द्रदर्शनात्स्व की यनाथ निरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव । तदन्विति ।
तदनु पश्चाद्रसातला नागलोकादवनीं पृथ्वीमवैदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्वसाम्ये-
नाह - शेषेति । शेषस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरबिम्बेन रजनी त्रियामाऽराज-
ताशोभत । अत्र रजनीकरबिम्बमात्र ग्रहणेन चन्द्रस्य बालभावप्रकटीकरणात्समुपारूढातिरागेणेति पूरणीयम् ।
ततश्च चन्द्रोदयकालेऽतीवारुण्यं बालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव समुपारूढ -
रागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालित हरिपदाम्बुजप्रभारुणाभेति पूरणी-
यम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शोभनीय
तामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथ च शशिनं विशेषयनाह - सकलेति । सकलः समग्रो
यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजनः स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचि-
दिति । किंचिदीषदुन्मुक्तस्त्यक्तो बालभावः शिशुत्वं येन स तेन । मकरेति । मकरध्वजस्य कंदर्पस्य बन्धुभू-
तेन स्वजनभूतेन । समिति । समुपारुढोऽध्यासितो रागो रक्तता येन स तेन । सुरतेति । सुरतोत्सवे निधु-
वनक्षणे य उपभोगस्तत्रैकयोग्येन । सर्वथोचितेनेत्यर्थः । अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं
कुर्वता । गगनमिति शेषः । सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव ।
-
अथ चन्द्रस्य तरुणभावं वर्णयन्नाह - अथेति । आरोहणानन्तरं तं रजनीकरं चन्द्रमुदितं विलोक्य निरी-
क्ष्याहं तत्क्षणं तत्कालमचिन्तयं चिन्तितंवतीत्यन्वयः । अथ रजनीकरं विशिनष्टि - अभीति । अभिनवः
प्रत्यमो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशामिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्त-
स्मिन्विमा रक्तकन्दास्तेषां प्रभाः कान्तयस्ताभिः पाटलितमिव श्वेतरक्तीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रेः
टिप्प० -- 1 तरङ्गवायुभि: पुलिनस्थः सिकतासमूह एव उड्डीय उपरिगतो भवेत्तेनेव इन्दुधाम्ना
इत्युत्प्रेक्षा । प्रकटनेन इति टीकार्थस्तु भ्रष्टः । 2 मन्दमन्दं स्मितं यस्यास्तस्या इत्यर्थं उचितः । 3 व्याक-
रणविरुद्ध भ्रष्टार्थश्चायं टीकामतः पाठः । 'अवदार्य' इत्युचितः । 4 हन्त धिग्वैधेयम् । 'अत्र रजनिकर-
बिम्बमात्रग्रहणेन ० ' इत्यादि निरर्थकं प्रालपत, आवश्यकं द्वयोः साधर्म्य चापालपत् । सकलजीवलो-
कानन्दजनकत्वादिविशेषणकृतं साधर्म्य प्रायः उभयत्र साम्येन । यौवने बालभावस्य उन्मोको जायत
एव । एकत्र रागः आरुण्यम्, यौवनपक्षे अनुरागः । अमृतं प्रमोदः ( यौवनपक्षे ), आरोहता ( शरीरे
विजृम्भमाणेन, इति यौवनपक्षे ), अन्यत् टीकया बोद्धव्यम् ।
पाठा० -१ पश्चिमेतरत्, २ अवदार्य, ३ फण, ४ रजनिकर, ५ निजहरिण.
a